वस्त्रं (vastraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishवस्त्रं [वस्-ष्ट्रन्] 1 A garment, cloth, clothes, raiment.
2 Dress, apparel.
Comp.
अगारः
रं,
गृहं a tent.
अंचलः,
अंतः the hem of a garment.
आगारं a clothier's shop.
कुट्टिमं {1} a tent. {2} an umbrella.
ग्रंथिः the knot of the lower garment (which fastens it near the navel)
cf. नीबि.
निर्णेजकः a washerman.
परिधानं putting on garments, dressing.
पुत्रिका a doll, puppet.
पूत a. filtered through a cloth
वस्त्रपूतं पिबेज्जलं Ms. 6. 46.
भेदकः,
भेदिन् m. a tailor.
योनिः the material of cloth (as cotton).
रंजनं safflower.
विलासः foppery in dress.
शब्दकल्पद्रुमः
Sanskritवस्त्रं, (वस्यते आच्छाद्यतेऽनेनेति । वसआच्छादने + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणा० ४ ।१५८ । इति ष्ट्रन् ।) परिधानाद्युपयुक्तकार्पासादि-निर्म्मितवस्तु । कापड इति भाषा । तत्पर्य्यायः ।आच्छादनम् २ वासः ३ चेलम् ४ वसनम् ५अंशुकम् ६ । इत्यमरः ॥
सिचयः ७ प्रोतः ८लक्तकः ९ कर्पटः १० शाठकः ११ कशिपुः १२ ।इति जटाधरः ॥
वासनम् १३ द्बिचयम् १४प्रोतम् १५ छादम् १६ वासम् १७ । इतिशब्दरत्नावली ॥
* ॥
अस्य परिधानविधिर्यथा, भृगुः ।“विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च ।श्रौतं स्मार्त्तं तथा कर्म्म न नग्नश्चिन्तयेदपि ॥
”विकक्षः परीधानासंवृतकच्छः । तथा च ।“परीधानाद्वहिःकक्षा निबद्धा ह्यासुरी भवेत् ॥
”स्मृतिः ।“वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम् ।एभिः कक्षैः परीधत्ते यो विप्रः स शुचिः स्मृतः ॥
”बौधायनः ।“नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी ।अन्तरीयं प्रशस्तं तदच्छिन्नमुभयोस्तयोः ॥
”प्रचेताः । दशा नाभौ प्रयोजयेत् । स्मृतिः ।न स्यात् कर्म्मणि कञ्चुकीति । उत्तरीयधारणंचोपवीतवत् ।“यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः ।तथा सन्धार्य्यते यत्नादुत्तराच्छादनं शुभम् ॥
”इति स्मृतेः ॥
अत्र यथा द्विजोत्तमैः सव्यापसव्यत्वादिना उप-वीतं धार्य्यते तथा उत्तराच्छादनमपि द्विजो-त्तमैरिति प्रदर्शनमात्रम् । प्रागुक्तभृगुवचनेनसर्व्वेषां द्विवस्त्रताप्रतीतेः । पारस्करः । एकञ्चे-द्वासो भवति तस्य उत्तरार्द्धेन प्रच्छादयतीति ।इत्याह्निकतत्त्वम् ॥
* ॥
अस्य धारणगुणाः ।यथा, --“काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम् ।श्रीमत्पारिषदं शस्तं निर्म्मलाम्बरधारणम् ॥
”इति राजवल्लभः ॥
* ॥
अपि च ।“स्नातस्यानन्तरं सम्यग्वस्त्रेण तनुमार्जनम् ।कान्तिप्रदं शरीरस्य कण्डूयादोषनाशनम् ॥
कौषेयं चित्रवस्त्रञ्च रक्तवस्त्रं तथैव च ।वातश्लेष्महरं तत्तु शीतकाले विधारयेत् ॥
”कौषेयं पट्टाम्बरं तसरवस्त्रञ्च ।“मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते ।तद्धारयेदुष्णकाले तच्चापि लघु शस्यते ॥
”कषायं कोकची इति लोके । कषायरागरक्तंवा ।“शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम् ।न चोष्णं न च वा शीतं तत्तु वर्षासु धारयेत् ॥
यशस्यं काम्यमायुष्यं श्रीमदानन्दवर्द्धनम् ।त्वच्यं वशीकरं रुच्यं नवं निर्म्मलमम्बरम् ॥
”काम्यं कामोद्दीपकम् ।“कदापि न जनैः सद्भिर्धार्य्यं मलिनमम्बरम् ।तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम् ॥
”अलक्ष्मीरशोभा दादिद्रं वा । इति भाव-प्रकाशः ॥
* ॥
(अथ स्वप्ने वस्त्रादिदर्शनात्शुभफलं यथा, --“कन्यां कुमारकान् गौरान् शुक्लवस्त्रान् सुते-क्षसः ।यः पश्येल्लभते यो वा छत्रादर्शविषामिषम् ॥
शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम् ॥
यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुते ॥
”इति वाभटे शारीरस्थाने षष्ठेऽध्याये ॥
)अथ नववस्त्रपरीधानदिनम् ।“ब्रह्मानुराधवसुतिष्यविशाखहस्त-चित्रोत्तराग्निपवनादितिरेवतीषु ।जन्मर्क्षजीवबुधशुक्रदिनोत्सवादौधार्य्यं नवं वसनमीश्वरदेवतुष्टौ ॥
”इति ज्योतिस्तत्वम् ॥
* ॥
अपि च ।“सूर्य्ये चाल्पधनं ब्रणः शशिदिने क्लेशः सदाभूमिजेवस्त्राणां बहुता बुधे सुरगुरौ विद्यागमःसम्पदः ।नानाभोगयुतः प्रमोदशयनं दिव्याङ्गना भार्गवेशौरे स्युः खलु रोगशोककलहा वस्त्रे धृतेनूतने ॥
”इति कर्म्मलोचनम् ॥
* ॥
अस्य क्षारसंयोगनिषिद्धदिनानि यथा, --“मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्धवासरे ।वस्त्राणां क्षारसंयोगो दहत्यासप्तमं कुलम् ॥
”इत्याह्निकाचारतत्त्वम् ॥
तद्दानफलं यथा, --“वासोदश्चन्द्रसालोक्त्यमश्विसालोक्यमश्वदः ॥
”इति शुद्धितत्त्वम् ॥
अपि च ।“द्विजानां ये तु सततं शुभवस्त्रप्रदा नराः ।वस्त्रगन्धयुतः पन्थास्तेषां सुजलशीतलः ॥
”इत्याद्ये वह्निपुराणे यमशर्म्मिलोपाख्याननामा-ध्यायः ॥
* ॥
तेन विष्णुपूजाविधिर्यथा, --“दुकूलपट्टकौषेयवाल्ककार्पासकादिभिः ।वासोभिः पूजयेद्विष्णुं सुशुभैरात्मनः प्रियैः ॥
”इति तत्रैव क्रियायोगनामाध्यायश्च ॥
तद्ग्रहणविधिर्यथा । विष्णुधर्म्मोत्तरम् ।“वस्त्रं दशान्तमादद्यात् परिधाय तथा पुनः ।आरुह्योपानहौ यानमारुह्यैव च पादुके ॥
”तस्याधिपतिर्यथा । तत्रैव ।“बार्हस्पत्यं स्मृतं वासः सौम्यानि रजतानि च ।पक्षिणश्च तथा सर्व्वे वायव्याः परिकीर्त्तिताः ॥
”तत्प्रतिग्रहप्रायश्चित्तं यथा । हारीतः । मणि-वासोगवादीनां प्रतिग्रहे सावित्र्यष्टशतं जपेत् ।अष्टसहस्रं अष्टोत्तरसहस्रम् । इति शुद्धि-तत्त्वम् ॥
* ॥
अपि च ।श्रीभगवानुबाच ।“कार्पासं काम्बलं वाल्कं कौषजं वस्त्रमिष्यते ।तत् पूर्व्वं पूजयित्वैव मन्त्रैर्देवाय चोत्सृजेत् ॥
निर्दशं मलिनं जीर्णं छिन्नं गात्रावलिङ्गितम् ।परकीयं वाखुदष्टं सूचीव्रिद्धं तथोषितम् ।उप्तकेशं विधौतञ्च श्लेष्ममूत्रादिदूषितम् ॥
प्रदाने देवताभ्यश्च दैवे पैत्र्ये च कर्म्मणि ।वर्ज्जयेत् शापयोगेन यज्ञादावुपयोजने ॥
”शापयोगेन इत्यत्र स्वोपयोगेन इति क्वचित्पुस्तके पाठः ।“उत्तरीयोत्तरासङ्गौ निचोलो मोदचेलकः ।प्ररिधानञ्च पञ्चैतान्यस्यूतानि प्रयोजयेत् ॥
शाणवस्त्रं नीशारञ्च तथेवातपवारणम् ॥
”क्वचित् पुस्तके शाणवस्त्रमित्यत्र मणिवस्त्रमितिपाठः ।“चण्डातकं तथा दूष्यं पञ्च स्यूतान्यदुष्टये ।पताकाध्वजदण्डादौ स्यूतं वस्त्रं प्रयोजयेत् ॥
अन्यत्रावरणादौ च तद्विना शस्ततोऽपि च ।रक्तं कौषेयवस्त्रञ्च महादेव्यै प्रशस्यते ॥
गीतं तथैव कौषेयं वासुदेवाय चोत्सृजेत् ।रक्तन्तु कम्बलं दद्यात् शिवाय परमात्मने ॥
विचित्रं सर्व्वदेवेभ्यो देवीभ्योऽशुं निवेदयेत् ।कार्पासं सर्व्वतोभद्रं दद्यात् सर्व्वेभ्य एव तु ॥
नैकान्तरक्तं दद्यात्तु वासुदेवाय चेलकम् ।तथा नैकान्तरक्तन्तु शिवाय विनिवेदयेत् ॥
नीलीरक्तन्तु यद्वस्त्रं तत् सर्व्वत्र विवर्ज्जितम् ।दैवे पैत्रे स्वोपयोगे वर्ज्जयेत्तद्विचक्षणः ॥
नीलीरक्तं प्रमादात्तु यो दद्याद्विष्णवे बुधः ।निष्फला तस्य तत्पूजा तदा भवति भैरव ॥
विचित्रे वाससि पुनर्लग्नं नीलीविरञ्जितम् ।वस्त्र्ं दद्यान्महादेव्यै नान्यस्मै तु कदाचन ॥
द्विपदां ब्राह्मणो यद्वत् देवानां वासवो यथा ।तथा भूषणवर्गेषु वस्त्रमुत्तममुच्यते ॥
वस्त्रेण त्रायते लज्जां वस्त्रेण त्रायते त्वघम् ।वस्त्रात् स्यात् सर्व्वतः सिद्धिश्चतुर्व्वर्गप्रदञ्च तत् ॥
”इति कालिकापुराणे ६८ अध्यायः ॥
राज्ञा सदा वस्त्राच्छादितशरीरं कर्त्तव्यम् ।यथा, --“सर्व्वदा मङ्गलं रत्नं धारयेत् सह दूर्व्वया ।अवस्त्राच्छादितं गात्रं न विप्रेभ्यः प्रदर्शयेत् ॥
”इति तत्रैव ८९ अध्यायः ॥
नीलवस्त्रं परिधाय विष्णुपूजननिषेधो यथा, --वराह उवाच ।“भूषितो नीलवस्त्रेण यो हि मामुपसर्पति ।वर्षाणाञ्च शतं पञ्च कृमिर्भूत्वा स तिष्ठति ॥
तस्य वक्ष्यामि सुश्रोणि अपराधविशोधनम् ।प्रायश्चित्तं विशालाक्षि येन मुच्येत किल्विषात् ॥
व्रतं चान्द्रायणं कृत्वा विधिदृष्टेन कर्म्मणा ।मुच्यते किल्विषात् भूमे एवमेतन्न संशयः ॥
”इति वाराहे नीलवस्त्रपरीधानप्रायश्चित्त-नामाध्यायः ॥
* ॥
विष्णुपूजने रक्तवस्त्रपरी-धाननिषेघो यथा, --वराह उवाच ।“रक्तवस्त्रेण संयुक्तो यो हि मामुपसर्पति ।तस्यापि शृणु सुश्रोणि कर्म्म संसारमोक्षणम् ॥
रजस्वलासु नारीषु रजो यत्तत् प्रवर्त्तते ।तेनासौ रजसा स्पृष्टो कर्म्मदोषेण जानतः ॥
वर्षाणि दशपञ्चैव वसते तत्र निश्चयः ।रजो भूत्वा महाभागे रक्तवस्त्रपरायणः ॥
प्रायश्चित्तं प्रवक्ष्यामि तस्य कायविशोधनम् ।येन शुध्यन्ति वै भूमे पुरुषाः शास्त्रवर्ज्जिताः ॥
एकाहारं ततः कृत्वा दिनानि दश सप्त च ।वायुभक्षो दिनत्रीणि दिनमेकं जलाशनः ॥
एवं स मुच्यते भूमे मम विप्रियकारकः ।प्रायश्चित्तं ततः कृत्वा ममासौ रोचते सह ॥
एतत्ते कथितं भूमे रक्तवस्त्रविभूषितम् ।प्रायश्चित्तं महाभागे सर्व्व संसारमोक्षणम् ॥
”इति तत्रैव रक्तवस्त्रपरीधानप्रायश्चित्तम् ॥
परिधृतकृष्णवस्त्रस्य विष्णूपासननिषेधो यथा, --“यः पुनः कृष्णवस्त्रेण मम कर्म्मपरायणः ।देवि कर्म्माणि कुर्व्वीत तस्य वै पतनं शृणु ॥
घुणा वै पञ्चवर्षाणि काष्ठभक्षश्च जायते ।मशकस्त्रीणि वर्षाणि कच्छस्त्रीणि च पञ्च च ॥
न स गच्छति संसारं मम कर्म्मपरायणः ।पारावतश्च जायेत नववर्षाणि पञ्च च ॥
जातो ममापराधेन सितः पारावतो भुवि ।तिष्ठते मम पार्श्वेषु यत्रैवाहं प्रतिष्ठितः ॥
प्रायश्चित्तं प्रवक्ष्यामि तस्य संसारमोक्षणम् ।येनासौ लभते सिद्धिं कृष्णवस्त्रापराधतः ॥
सप्ताहं यावकं भुक्त्वा त्रिरात्रं शक्तुपिण्डिकाम् ।त्रीणि पिण्डान् त्रिरात्रन्तु एवं मुच्येत किल्वि-षात् ॥
य एतेन विधानेन देवि कर्म्माणि कारयेत् ।शुचिर्भागवतो भूत्वा मम मार्गानुसारकः ।न स गच्छति संसारं मम लोकाय गच्छति ॥
”इति तत्रैव कृष्णवस्त्रपरीधानप्रायश्चित्तम् ॥
परिधृताधौतवस्त्रस्य विष्णुकर्म्मकरणनिषेधोयथा, --वराह उवाच ।“वाससा न च धौतेन यो मे कर्म्माणि कारयेत् ।शुचिर्भागवतो भूत्वा मम मार्गानुसारकः ॥
तस्य दोषं प्रवक्ष्यामि अपराधं वसुन्धरे ।पतन्ति येन संसारं वाससोच्छिष्टकारिणः ॥
देवि भूत्वा गजोन्मत्तस्तिष्ठत्येकं नरो भुवि ।उष्ट्रश्चैकं भवेज्जन्म जन्म चैकं खरस्तथा ॥
गोमायुरेकजन्मा वै जन्म चैकं हयस्तथा ।सारङ्गश्चैकजन्मा वै मृगो भवति चैकतः ॥
सप्तजन्मान्तरं पश्चात्ततो भवति मानुषः ।मद्भक्तश्च गुणज्ञश्च मम कर्म्मपरायणः ।निरापराधो दक्षश्च अहङ्कारविवर्ज्जितः ॥
धरण्युवाच ।शुतमेतत् प्रयत्नेन यत्त्वया समुदाहृतम् ।संसारं वाससोच्छिष्टं येन गच्छन्ति मानवाः ॥
प्रायश्चित्तञ्च मे ब्रूहि सर्व्वकर्म्मसुखावहम् ।किल्विषात् येन मुञ्चन्ति तव कर्म्मपरायणः ॥
वाराह उवाच ।शृणु तत्त्वेन मे देवि कथ्यमानं मयानघे ।प्रायश्चित्तं प्रवक्ष्यामि मम भक्तिपरायणः ॥
यावकेन दिनं त्रीणि पिण्याकेन पुनस्त्रयः ।कणभक्षो दिनत्रीणि पायसेन दिनत्रयम् ॥
एवं कृत्वा महाभागे वाससोच्छिष्टकारिणः ।अपराधं न विद्येत संसारञ्च न गच्छति ॥
”इति तत्रैव अधौतवासःपरिधानप्रायश्चित्त-नामाध्यायः ॥
* ॥
अथ परिहितपरकीयवस्त्रस्यविष्णुपूजादिकरणे प्रायश्चित्तम् ।वाराह उवाच ।“यः पारक्येण वस्त्रेण नावधूतेन माधवि ।प्रायश्चित्ती पुमान्मूर्खो मम कर्म्मपरायणः ॥
करोति मम कर्म्माणि स्पृष्ट्वा ते मां तमःस्थितः ।मृगो वै जायते देवि वर्षाणि त्रीणि सप्त च ॥
हीनपादेन जायेत चैकजन्म वसुन्धरे ।मूर्खश्च क्रोधनश्चैव मद्भक्तश्चैव जायते ॥
तस्य वक्ष्यामि सुश्रोणि प्रायश्चित्तं महौजसम् ।येन गच्छति संसारं मम भक्तो व्यवस्थितः ॥
अष्टभक्तं ततः कृत्वा मम कर्म्मपरायणः ।माघस्यैव तु मासस्य शुक्लपक्षस्य द्बादशी ॥
तिष्ठेज्जलाशये तत्र क्षान्तो दान्तो जितेन्द्रियः ।अनन्यमानसो भूत्वा मम चिन्तापरायणः ॥
प्रभातायान्तु शर्व्वर्य्यां उदिते च दिवाकरे ।पञ्चगव्यं ततः पीत्वा शीघ्रं मुच्येत किल्विषात् ॥
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।सर्व्वपापविनिर्मुक्तो मम लोकाय गच्छति ॥
”इति वाराहे परकीयवस्त्रपरीधानप्रायश्चित्त-नामाध्यायः ॥
* ॥
काञ्चननिर्म्मितवस्त्रप्रमाणंयथा, --“यावत् काञ्चनवस्त्राणां वाहिका गोपकन्यकाः ।काश्चित्तत्राययुः शीघ्रं यत्र चन्द्रावली मुदा ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २८ अध्यायः ॥
“आसनं वसनं शय्या जायापत्यं कमण्डलुः ।आत्मनः शुचिरेतानि न परेषां कदाचन ॥
”ईषद्धौतादिवस्त्रस्य पश्चिमाग्रादिप्रसारित-वस्त्रस्य च अधौतत्वं यथा, --“ईषद्धौतं स्त्रिया धौतं यद्धौतं रजकेन तु ।अधौतं तद्विजानीयाद्दशा दक्षिणपश्चिमे ॥
”इति कर्म्मलोचनम् ॥
* ॥
सत्यतपाः ।“प्रागग्रमुदगग्रं वा धौतं वस्त्रं प्रसारयेत् ।पश्चिमाग्रं दक्षिणाग्रं पुनः प्रक्षालनात् शुचि ॥
”अत्राग्रं दशा वृक्षवत् ॥
* ॥
प्रचेताः ।“स्वयं धौतेन कर्त्तव्या क्रिया धर्म्म्या विपश्चिता ।न च राजकधौतेन नाधौतेन भवेत् क्वचित् ॥
पुत्त्रमित्रकलत्रेण स्वजातिबान्धवेन च ।दासवर्गेण यद्धौतं तत् पवित्रमिति स्थितिः ॥
”स्नानोत्तरं उष्णीषवस्त्रस्य धार्य्यत्वं यथा ।उष्णीषधारणं शिरोजलापनयनाय । तेन तद-नन्तरं न धार्य्यम् । तथा महाभारतम् ।“आप्लुतः साधिवासेन जलेन च सुगन्धिना ।राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् ।जलक्षयनिमित्तं वै वेष्टयामास मूर्द्धनि ॥
”शिथिलार्पितं अगाढबद्धम् ॥
* ॥
निषिद्ध-वस्त्राणि यथा । भारते ।“न स्यूतेन न दग्धेन पारक्येण विशेषतः ।मूषिकोत्कीर्णजीर्णेन कर्म्म कुर्य्याद्विचक्षणः ॥
”नारसिंहे ।“न रक्तमुल्वणं वासो न नीलञ्च प्रशस्यते ।मलाक्तञ्च दशाहीनं वर्ज्जयेदम्बरं बुधः ॥
”उल्वणं उत्कटरक्तविशेषम् । आचाररत्नेउशनाः ।“दशाहीनेन वस्त्रेण कुर्य्यात् कर्म्माण्यभावतः ।”विष्णुधर्म्मोत्तरे ।“वस्त्रं नान्यधृतं धार्य्यं न रक्तं मलिनं तथा ।जीर्णं वापदशञ्चैव श्वेतं धार्य्यं प्रयत्नतः ॥
उपानहं नान्यधृतं ब्रह्मसूत्रञ्च धारयेत् ।न जीर्णमलवद्वासो भवेच्च विभवे सति ॥
”योगियाज्ञवल्क्यः ।“स्नात्वैवं वाससी धौते अक्लिन्ने परिधाय च ।प्रक्षाल्योरूमृदद्भिश्च हस्तौ प्रक्षालयेत्ततः ॥
अभावे धौतवस्त्राणां शाणक्षौमाविकानि च ।कुतपो योगपट्टं वा द्बिर्व्वासा येन वा भवेत् ॥
अधौतेन च वस्त्रेण नित्यनैमित्तिकीं क्रियाम् ।कुर्व्वन् फलं न चाप्नोति दत्तं भवति निष्फलम् ॥
”कुतपो नेपालकम्बलः ॥
* ॥
तर्पणात् पूर्व्वंस्नानवस्त्रनिष्पीडननिषेधो यथा, --“निष्पीडयति यः पूर्व्वं स्नानवस्त्रन्तु तर्पणात् ।निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह ॥
”यावालिः ।“स्नानं कृत्वार्द्रवासास्तु विण्मूत्रं कुरुते यदि ।प्राणायामत्रयं कृत्वा पुनः स्नानेन शुद्ध्यति ॥
* ॥
नार्द्रमेकञ्च वसनं परिदध्यात् कथञ्चन ॥
”हारीतः । आर्द्रञ्च सप्तवातहतमपि शुद्ध-मिति ॥
* ॥
मदनपारिजाते पारस्करः ।एकञ्चेद्वासो भवति तस्योत्तरार्द्धेन प्रच्छादय-तीति । इत्याह्निकतत्त्वम् ॥
* ॥
संक्रान्त्यादौवस्त्रनिष्पीडननिषेधो यथा । षट्त्रिंशन्मत-निगमौ ।“संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे ।वस्त्रं न पीडतेत्तत्र न च क्षारेण योजयेत् ॥
”इति तिथ्यादितत्त्वम् ॥
कृदन्तरूपमाला
Sanskrit1 {@“वस आच्छादने”@} 2 ‘वस्यति स्तम्भने वस्ते छादने वसयेत् वसेत्।।’ 3 इति देवः।
‘-- स्मृतौ’ इति वोपदेवः।
वासकः-सिका, वासकः-सिका, विवसिषकः-षिका, वावसकः-सिका
वसिता-त्री, वासयिता-त्री, विवसिषिता-त्री, वावसिता-त्री
-- वासयन्-न्ती, वासयन् वासयमानो वा वस्त्रं देवदत्तेन, वासयिष्यन्-न्ती-ती, 4 5 वसानः, वासयमानः, विवसिषमाणः, वावस्यमानः
वसिष्यमाणः, वासयिष्यमाणः
विवसिषिष्यमाणः, वावसिष्यमाणः
6 चर्मवः-चर्मवसौ-चर्मवसः
-- -- -- वसितम्-तः, वासितम्, विवसिषितः, वावसितः-तवान्
वसः, 7 वसा, सुवासी, 8 वसनः, 9 वसिता, वासः, विवसिषुः, वावसः
वसितव्यम्, वासयितव्यम्, विवसिषितव्यम्, वावसितव्यम्
वसनीयम्, वासनीयम्, विवसिषणीयम्, वावसनीयम्
वास्यम्, वास्यम्, विवसिष्यम्, वावस्यम्
वस्यमानः, वास्यमानः, विवसिष्यमाणः, वावस्यमानः
ईषद्वसः-दुर्वसः-सुवसः
-- -- -- वासः, आवासः, 10 कृत्तिवासाः, वासः, विवसिषः, वावसः
वसितुम्, वासयितुम्, विवसिषितुम्, वावसितुम्
वस्तिः, 11 वसा, वासना, विवसिषा, वावसा
वसनम्, वासनम्, विवसिषणम्, वावसनम्
वसित्वा, वासयित्वा, विवसिषित्वा, वावसित्वा
प्रवस्य, प्रवास्य, प्रविवसिष्य, प्रवावस्य
वासम् २, वसित्वा २, वासम् २ वासयित्वा २ विवसिषम् २ विवसिषित्वा २ वावसम् २
वावसित्वा २
12 13 वसु, 14 नप्रत्यये रूपम्।
वस्तेऽनेनेति वस्नम् = वासः।]] वस्नम्, 15 सरन्प्रत्ययः।
संवत्सरः = क्षण- लवमुहूर्त्ताहोरात्रपक्षमासायनानि च इत्यर्थः।
एवं परिवत्सरः, विवत्सरः, इद्वत्सरः, इडावत्सरः, उद्वत्सरः इत्यादिषु बोध्यम्।
वस्त्रेण समाच्छादयति इत्यर्थे संवस्त्रयन् इत्यत्र ‘मुण्डमिश्र--’ 16 इत्यादिनाणिच्।
‘वस्त्रात्स- माच्छादने’ इति काशिकावृत्तिः।]] संवत्सरः, 17 ष्ट्रन्प्रत्यये वस्त्रमिति रूपम्।
वस्ते शरीरमिति वस्त्रम्।]] वस्त्रम्।
18
01 (१५७७)
02 (२-अदादिः-१०२३। अक। सेट्। आत्म।)
03 (श्लो। १८७)
04 [पृष्ठम्१२१५+ २५]
05 [[आ। ‘पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति।’ शि। व। १-६।]]
06 [[१। चर्म वस्ते इति चर्मवः इति क्विप्प्रत्यये रूपमेवम्। ‘अत्वसन्तस्य चाधातोः’ (६-४-१४) इत्यत्र काशिकायां प्रत्युदाहरणत्वेन प्रदर्शितम्।]]
07 [[२। पचाद्यजन्तात स्त्रियां टाप्। वसा = शरीरान्तर्गतस्नेहद्रव्यम्।]]
08 [[३। वस्ते आच्छादयति इत्यर्थे ‘अनुदात्तेतश्च--’ (३-२-१४९) इति युचि रूपमेवम्।]]
09 [[४। ‘तृन्’ (३-२-१३५) इति तच्छीलादिषु कर्तृषु तृन्प्रत्यये रूपम्। ‘वसिता वस्त्रमित्येवं साधुकारिणि कर्तरि।।’ इति ‘तृन्’ सूत्रे प्रक्रियासर्वस्वश्लोकः।]]
10 [[५। औणादिकेऽसुन्प्रत्यये वासश्शब्दः। कृत्तिर्वासोऽस्येति ‘अत्वसन्तस्य--’ (६-४-१४) इति असंबुद्धौ सौ परतः दीर्घो भवति। तेन रूपमेवम्।]]
11 [[६। भिदादिपाठात् (३-३-१०४) अङ्प्रत्ययः।]]
12 [पृष्ठम्१२१६+ २७]
13 [[१। ‘शॄस्वृस्निहित्रप्यसिवसि--’ (द। उ। १-९५) इति उप्रत्यये रूपमेवम्। वस्ते भाग्यवतो जनानिति वसु = धनम्।]]
14 [[२। औणादिके [द। उ। ५-३९]
15 [[३। संपूर्वात् वसधातोः औणादिकः [द। उ। ८-५२]
16 (३-१-२१)
17 [[४। औणादिके [द। उ। ८-७९]
18 [[आ। ‘वैतानवेदिजनितं पवमानबन्धुं वस्त्रेण बद्धुमविनीत कथं यतेथाः।।’ चम्पूरामायणे ५-४८]]
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
