| YouTube Channel

वसुधारा (vasudhArA)

 
शब्दसागरः
English
वसुधारा
f.
(-रा)
1. A female Śaktī peculiar to the Jainas.
2. The capital
of KUVERA.
E.
वसु wealth, धृ to have, affs. घञ् and टाप्
some
authorities read वसुभारा for KUVERA'S capital.
Yates
English
वसु-धारा (रा) 1.
f.
A female
shakti
peculiar to the
Jainas
the ca-
pital of
Kuvera.
Wilson
English
वसुधारा
f.
(-रा)
1 A female Śakti peculiar to the Jainas.
2 The capital of KUVERA.
E.
वसु wealth, धृ to have,
aff.
घञ् and टाप्
some
authorities read वसुभारा for KUVERA'S capital.
Monier Williams Cologne
English
वसु—धारा
f.
(with Buddhists)
N.
of a goddess,
Buddh.
a female Śakti peculiar to the Jainas,
MW.
N.
of a river,
Hariv.
of the capital of Kubera,
L.
a stream of wealth, st° of gifts,
MBh.
Hcar.
HPariś.
Apte Hindi
Hindi
वसुधारा
स्त्री*
वसु-धारा -
कुबेर की राजधानी
L R Vaidya
English
vasu-DArA {% f. %} the capital of Kubera.
Edgerton Buddhist Hybrid
English
Vasudhārā, n. of a goddess(?), possibly a form of Tārā
like T. associated with Sudhana (3), q.v., in Sādh 〔46.11〕
n. of a yakṣiṇī (the same?), consort of Jambhala, Sādh 〔561.1〕 etc.
cf. next.
पुराणम्
English
वसुधारा / VASUDHĀRĀ. A holy place. Those who visit this place could enjoy the fruits of performing horse-sacrifice. If one gives offering to the manes after getting oneself purified by bathing in this holy tīrtha (bath), one will attain the world of viṣṇu. There is a lake of the aṣṭavasus (eight Vasus) in this place. By bathing there, one could become the subject of the love and regard of the eight Vasus. (M.B. Vana Parva, Chapter 82, Stanza 63).
शब्दकल्पद्रुमः
Sanskrit
वसुधारा,
स्त्री,
(वसुवत् रत्नस्येव धारा यशोयस्याः ।) जिनशक्तिविशेषः तत्पर्य्यायः तारा २महाश्रीः ओङ्कारा स्वाहा श्रीः मनो-रमा तारिणी जया अनन्ता १०शिवा ११ लोकेश्वरा १२ आत्मजा १३ खदूर-वासिनी १४ भद्रा १५ वैश्वा १६ नीलसर-स्वती १७ शङ्खिनी १८ महातारा १९ धनं-ददा २० त्रिलोचना २१ अलोचना १२ इतिहेमचन्द्रः
(वसूनां रत्नानां धारा सन्तति-र्यत्र ।) कुबेरपुरी इति शब्दमाला
(तीर्थ-विशेषः यथा, महाभारते ८२ ७२ ।“ततो गच्छेत धर्म्मज्ञ ! वसुधारामभिष्टुताम् ।गमनादेव तस्यां हि हयमेधमवाप्नुयात्
*
वसोश्चेदिराजस्य प्रिया धारा यद्बा, --“वसु द्रव्यं घृतमाज्यमसृतं हविकामिकम् ।तस्य धारा सदा देया वसोर्धारा हि सा मता
”इति देवीपुराणोक्तवचनात् वसुनो घृतस्यधारा ।) वृद्धिश्राद्धपूर्व्वकर्त्तव्यचेदिराजवसू-द्देश्यककुड्यलग्नघृतधारा यथा छन्दोगपरि-शिष्टे कात्यायनः ।“कुड्यलग्नां वसोर्धारां सप्तवारान् पृतेन तु ।कारयेत् पञ्चवारान् वा नातिनीचां नचोच्छ्रिताम्
आयुष्मानिति शान्त्यर्थं जप्त्वा तत्र समाहितः ।षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्
”वसोश्चेदिराजस्य वसोर्धारामिति वसोर्धाराधि-पातेनेत्यादिदर्शनात् अलुक्समासेनैव प्रयोगःकर्त्तव्यः इति श्राद्धतत्त्वम्
*
सामगानांतत्पातनमन्त्रो यथा, --“यद्बर्च्चो हिरण्यस्य यद्वा वर्च्चो गवामुत ।सत्यस्य ब्रह्मणो वर्च्चस्तेन मांसं सृजामसि
”यजुषां यथा “वसोः पवित्रमसि शतघारंवसोः पवित्रमसि सहस्रधारं देवस्त्वा सवितापुनातु वसोः पवित्रेण शतधारेण सुत्वा काम-धुक्ष्व ।” इति श्राद्धप्रयोगतत्त्वम्
*
ऋग्-वेदिनां यथा ।“अपसश्चर आगच्छन्ती भूरिधारे पयस्वतीघृतप्रघाते सुकृते शुचिव्रते राजम्भ यस्य यस्यभुवनस्य रोदसी आस्म रैत सिञ्चितं यन्मनु-कृतम् ।अन्या इव वनुत्तमे तवासुञ्जना अभिचाक-सीमि यत्र सोमः श्रूयते यत्र यज्ञो पठतेघृतस्य धारा मधुमप्लु वधन्ते
घृतवती भुवनानामभिश्रियोर्व्वी पृथ्वी मधु-दुघे सुपेशसा द्यावा पृथिवी वरुणस्य धर्म्मणाविष्कभिते अजरे भूरि रेतसा
शतधारमुत्समीक्षमाणं विपश्चितं पितरंरुक्थाना अभिमदन्त पित्रोरुपस्थेतं रोदसीपिपृतं सत्यवाचम्
शतधारं वायुमर्कषर्च्चिषं नृचक्षुषेस्तेऽभि-चक्षते हविः ये प्रणन्ति प्रयच्छन्ति सङ्ग-मेति दुदुहे सप्तधारम्
वसोः पवित्रमसि शतधारं वसोः पवित्रमसिसहस्रधारं देवस्त्वा सविता पुनातु वसोःपवित्रेण शतघारेण सुत्वा कामधुक्ष्व
मुर्द्धानन्दिवोरतिं पृथिव्या वैश्वानर मृतआजामग्निं कविं सम्राजमतिथिं जनाना-मासन्नाः पात्रं जवयन्त देवाः स्वाहा
इत्येतैर्मन्त्रैः सप्तघृतधारा दद्यात् इतिकालेसिः
*
विशेषवसुधारा यथा, --“न्यूना या बहते धारा मानात् सर्पिर्न साशुभा ।नाधिका शस्यते विप्र दुर्भिक्षकलिकारिका
त्रुट्यते बहमाना या शमते हुताशनम् ।सवर्णा हेमवर्णा धारा राज्यविवृद्धये
सन्तता पतते या तु तनोतीव पावकम् ।तनोति नृपराष्ट्रञ्च वसोर्धारा संशयः
सुगन्धि स्वच्छविमलं कृमिकीटविवर्ज्जितम् ।शस्यते वसोर्धारा या सर्पिर्गव्यपूजिता
अभावात् गवलाजं वा होतव्यन्तु सुशोभनम् ।घृरौद्रपयोधारा सर्व्वपीडानिवारिणी
वसु द्रव्यं घृतमाज्यमसृतं हविकामिकम् ।तस्य धारा सदा देया वसोर्धारा हि सा मता
वसुना स्वर्गकामेन दक्षेण महात्मना ।मया विष्णुना शक्र रुद्रेण सहोमया
आत्मानञ्च स्वरूपेण धारायान्तु प्रपादितम् ।देवी सान्निध्यमायाता सर्व्वकामप्रदायिका
तस्मात्त्वमपि राजेन्द्र ! वरोर्धारां प्रपातय ।नातः परतरं पुण्यं विद्यते नृपसत्तम !
वसोर्धाराप्रदानस्य एकाहमपि यद्भवेत् ।नृपेणायुषकामेण पुत्त्र राज्यजिगीषुणा ।देया धारा सदा वत्स ! रिपुनाशाय बुद्धिमन्
द्रव्याभावे घृताभावे नृप तस्करजे भये ।यदि नो वहते धारा तदा छिद्रं विद्यते
महाआश्विनमासे तु अष्टमीनवमीषु ।कार्त्तिक्यां माघचैत्रेतु चित्रायां रोहिणीषु
वैशाख्यान्तु प्रदातव्या ज्यैष्ठ्यां ज्येष्ठस्य सत्तम ! ।आषाढद्वादशीहोमं अष्टभी पूर्णिमा नभे
नभस्ये रोहिणी वत्स ! चतुर्थ्यां द्बादशीदिने ।संक्रान्तिषु सर्व्वासु गुरुशौरिभवासु
चन्द्रसूर्य्योपरागेषु प्रतिष्ठायज्ञकर्म्मणि ।शक्रोच्छ्रये प्रदातव्या जन्मपुष्पाभिषेचने
मार्गे व्रतनिबन्धे तु शुभे वाक्ये तु दर्शने ।ग्रहकृत्योपसर्गेषु धारा देव्याः शुभावहाः
एवं यो वाहयेद्धाराः शास्त्रदृष्टेन कर्म्मणा ।तस्य भूः सिद्ध्यते सर्व्वा सनागा सहसागरा
”इति देवीपुराणे वसोर्धरानाम ३५ अध्यायः
वाचस्पत्यम्
Sanskrit
वसुधारा स्त्री वसोश्चेदिराजस्य प्रियार्थं धारा घृतादिस्रव-सन्ततिः माङ्गल्येषु चेदिराजवसूद्वेशेन दीयमानायांघृतादिधारायाम् ।“कुड्यलग्नां वसोर्धारां सप्त वारान् घृतेन तु कारयेत्पञ्च वारान् वा नातिनीचां चोच्छ्रिताम् आयुष्मा०निति शान्त्यर्थं जत्या तत्र समाहितः षडभ्यःपितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्” छन्दोगप० ।२ जिनशक्तिभेदे हेमच० कुवेरपुर्य्या शब्दमा०