| YouTube Channel

वसुः (vasuH)

 
Apte Hindi
Hindi
वसुः
पुं*
- वस्+उन्
"घी, घृत"
वसुः
पुं*
- वस्+उन्
"धन, दौलत, रत्न, जवाहर"
वसुः
पुं*
- वस्+उन्
सोना
वसुः
पुं*
- वस्+उन्
जल
Wordnet
Sanskrit
Synonyms:
वसुः
noun
दक्षप्रजापतेः कन्या।
"वसोः वर्णनं पुराणेषु प्राप्यते।"
Synonyms:
वसुः, आप्यः, जिष्णुः
noun
वैदिकदेवताविशेषः।
"वेदेषु वसवः अष्टसंख्याकाः इति उक्तम्।"
Synonyms:
धनम्, द्रव्यम्, वसुः, अर्थः, वित्तम्, द्रविणम्, सम्पद्, हिरण्यम्, विभवः, सम्पत्तिः
noun
उपयोगिनां तथा मूल्यवतां वस्तूनां समूहः।
"पूर्वं गोपालकानां सम्पन्नता तेषां गोरूपं धनम् एव आसीत्।"
Synonyms:
प्रग्रहः, वागा, रश्मिः, वल्गा, दन्तालिका, संयमः, यन्त्रणम्, निग्रहः, वसुः, अभीषुः, अभीशुः
noun
अश्वादीनां नियमनार्थे उपयुज्यमाना रश्मिः।
"नहि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः। गजो वा महिषो वापि षष्ठे काले नरोत्तमः॥"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
Tamil
Tamil
வஸு: : அஷ்ட வசுக்களில் ஒருவர், எண் எட்டு, சூரியன், ஒளிக்கதிர், அக்னி, நீர் நிலை.
शब्दकल्पद्रुमः
Sanskrit
वसुः,
पुं,
(वसतीति वस + उः ।) वकवृक्षः ।अनलः रश्मिः गणदेवताविशेषः इत्यमरः
चाष्ट संख्यातः यथा, --“धरो ध्रुवश्च सोमश्च विष्णुश्चैवानिलोऽनलः ।प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ क्रमात् स्मृताः
”इति भरतः
दक्षो द्वितीयजन्मनि षष्ठमन्वन्तरे असिक्र्यांपत्न्यां षष्टिकन्या जनयामास ताः प्रजा-पतिभ्यो दत्तवान् धर्म्माय दश तासांनामानि भानुर्लम्बा ककुद्यामिर्विश्वा साध्यामरुत्वती वसुर्मुहूर्त्ता सङ्कल्पा आसां मध्येवसोरष्टौ वसवः पुत्त्रा यथा द्रोणः प्राणः ध्रुवःअर्कः अग्निः दोषः वास्तुः विभावसुरिति ।द्रोणस्य अभिमत्यां पत्न्यां हर्षशोकभयादयःपुत्त्राः प्राणस्य उर्ज्जस्वत्यां द्वौ पुत्त्रौ सह-स्रायुः पुरोजवश्च ध्रुवस्य धारण्यां पुरःपुत्त्रः अर्कस्य वासनायां तर्षादयः पुत्त्राः ।अग्नेर्वसोर्धारायां द्रविणकादयः पुत्त्राः ।दोषस्य शर्व्वर्य्यां शिशुमारो हरेरंशः ।वास्तोराङ्गिरस्यां विश्वकर्म्मा विश्वकर्म्मणःपुत्त्रश्चाक्षुषो मनुरभूत् विश्वे साध्या मनोःसुताः विभावसोरुषायां त्रयः पुत्त्राःव्युष्टरोचिषातपनामानः इति श्रीभागवत-मतम्
*
मतान्तरे अष्टौ वसवो यथा, --धरः ध्रुवः सोमः सावित्रः अनिलः ५अनलः प्रत्यूषः प्रभासः इति महा-भारते दानधर्म्मः
अपि ।“आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ।प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः
आपस्य पुत्त्रो वैतण्ड्यः श्रमः श्रान्तो ध्वनि-स्तथा ।ध्रुवस्य पुत्त्रो भगवान् कालो लोकप्रकालनः
सोमस्य भगवान् वर्च्चा वर्च्चस्वी येन जायते ।धरस्य पुत्त्रो द्रविणो हुतो हव्यवहस्तथा
मनोहरायाः शिरसः प्राणोऽथ रमणस्तथा ।अनिलस्य शिवा भार्य्या तस्याः पुत्त्रः पुरोजवाः
अविज्ञातगतिश्चैव द्वौ पुत्त्रावलिनस्य तु ।अग्निपुत्त्रः कुमारस्तु शरस्तम्बे व्यजायत
तस्याः शाखो विशाखश्चानैगमेयश्च पृष्टजाः ।प्रत्यूषस्य विदुः पुत्त्रं ऋषिं नाम्ना देवलम्
द्वौ पुत्त्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।बृहस्पतेश्च भगिनी वरस्त्री ब्रह्मचारिणी
प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य ।विश्वकर्म्मा महाभागस्तस्यां जज्ञे प्रजापतिः
”इति वह्निपुराणे कश्यपीयप्रजासर्गनामाध्यायःकौर्म्मे १४ अध्यायश्च
*
(एते वशिष्ठस्यधेनुं नन्दिनीमपहृत्य तच्छापग्रस्ता पृथिव्यांशन्तनुपुत्त्रा आसन् तेषु द्यौनामा वमुरेवकुरुवृद्धो भीष्मः एतद्विवरणं यथा, देवीभाग-वते २४ -- ४४ ।“एतस्मिन् समये चाष्टौ वसवः स्त्रीसम-न्विताः ।वशिष्ठस्याश्रमं प्राप्ता रममाणा यदृच्छया
पृथ्वादीनां वसूनाञ्च मध्ये कोऽपि वसूत्तमः ।द्यौर्नामा तस्य भार्य्याथ नन्दिनीं गां ददर्श
दृष्ट्वा पतिं सा पप्रच्छ कस्येयं धेनुरुत्तमा ।द्यौस्तामाह वशिष्ठस्य गौरियं शृणु सुन्दरि !
दुग्धमस्याः पिबेद्यस्तु नारी वा पुरुषोऽथवा ।अयुतायुर्भवेन्नूनं सदैवागतयौवनः ।तच्छ्रुत्वा सुन्दरी प्राह मर्त्यलोकेऽस्ति मे सखी ।उशीनरस्य राजर्षेः पुत्त्री परमशोभना
तस्या हेतोर्महाभाग ! सवत्सां गां पय-स्विनीम् ।आनयस्वाश्रमश्रेष्ठं नन्दिनीं कामदां शुभाम्
यावदस्याः पयः पीत्वा सखी मम सदैव हि ।मानुषेषु भवेदेका जरारोगविवर्ज्जिता
तच्छ्रुत्वा वचनं तस्या द्यौर्जहार नन्दिनीम् ।अवमत्य मुनिं दान्तं पृथ्वाद्यैः सहितोऽनघः
हृतायामथ नन्दिन्यां वशिष्ठस्तु महातपाः ।आजगामाश्रमपदं फलान्यादाय सत्वरः
नापश्यत् यदा धेनुं सवत्सां स्वाश्रमे मुनिः ।मृगयामास तेजस्वी गह्वरेषु वनेष्वपि
नासादिता यदा धेनुश्चुकोपातिशयं मुनिः ।वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम्
वसुभिर्मे हृता धेनुर्यस्मान्मामवमन्य वै ।तस्मात् सर्व्वे जनिष्यन्ति मानुषेषु संशयः
एवं शशाप धर्म्मात्मा वसूंस्तान् वारुणिः स्वयम् ।श्रुत्वा विमनसः सर्व्वे प्रययुर्दुःखिताश्च ते
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ।प्रसादयन्तस्तमृषिं वसवः शरणं गताः
मुनिस्तानाह धर्म्मात्मा वसून्दीनान् पुरः-स्थितान् ।अनुसंवत्सरं सर्व्वे शापमोक्षमवाप्स्यथ
येनेयं विहृता धेनुर्नन्दिनी मम वत्सला ।तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति
ते शप्ताः पथि गच्छन्तीं गङ्गां दृष्ट्वा सरिद्व-राम् ।ऊचुस्तां प्रणताः सर्व्वे शप्तां चिन्तातुरां नदीम्
भविष्यामो वयं देवि ! कथं देवाः सुधाशनाः ।मानुषाणाञ्च जठरे चिन्तेयं महती हि नः
तस्मात्त्वं मानुषी भूत्वा जनयास्मान् सरिद्वरे ! ।शन्तनुर्नाम राजर्षिस्तस्य भार्य्या भवानधे !
जातान् जातान् जले चास्मान् निक्षिपस्वसुरापगे ! ।एवं शापविनिर्मोक्षो भविता नात्र संशयः
तथेत्युक्ताश्च ते सर्व्वे जग्मुर्लोकं स्वकं पुनः ।गङ्गापि निर्गता देवी चिन्त्यमाना पुनः पुनः
”)योक्त्रम् राजा इति मेदिनी से,
धनाधिपः ।इति विश्वः
साधुः इति शब्दरत्नावली
पीतमुद्गः वृक्षः इति हेमचन्द्रः
पुष्करिणी ।इति सिद्धान्तकौमुद्यामुणादिवृत्तिः
शिवः ।सूर्य्यः इत्यनेकार्थकोषः
(विष्णुः यथा, महाभारते १३ १४९ ८७ ।“वसुप्रदो वासुदेवो वसुर्वसुमना हरिः
”“वसन्ति भूतान्यत्र एतेषु स्वयमपीति वसुः ।”इति तत्र शाङ्करभाष्यम्
) कुलीनकायस्थस्यपद्धतिविशेषः यथा शूद्राणां नामकरणे वसु-घोषादिपद्धतियुक्तनामत्वञ्च बोध्यम् इत्युद्वाह-तत्त्वम्
अष्टसंख्या यथा, --“युग्माग्निकृतभूतानि षण्मुन्योर्वसुरन्ध्रयोः
”इति तिथ्यादितत्त्वम्
(वकुलः बृहद्वोल सरीति ख्यातः अस्यपर्य्यायो यथा, --“शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)
वसुः,
स्त्री,
(वस् + उः ।) दीप्तिः वृद्धौषधम् ।इति शब्दरत्नावली
(दक्षस्य कन्याविशेषः ।सा तु धर्म्मस्य पत्नीनामन्यतमा इति विष्णु-पुराणम् १५ १०५
)
वसुः, त्रि, (वस् + उः ।) मधुरम् शुष्कम् इतिहेमचन्द्रः