| YouTube Channel

वसन्तोत्सवः (vasantotsavaH)

 
Apte Hindi
Hindi
वसन्तोत्सवः
पुं*
वसन्त-उत्सवः -
"वसन्तोत्सव, वसन्त ऋतु की रंगरेलियां"
Wordnet
Sanskrit
Synonyms:
वसन्तोत्सवः, होलाका
noun
तद् दिनं यदा रङ्गोत्सवं निर्वर्तयन्ति।
"वसन्तोत्सवे भगवतः पूजनं कृत्वा जेष्ठेभ्यः आशीर्वचनं प्राप्तव्यम्।"
Synonyms:
वसन्तोत्सवः, मदनोत्सवः
noun
प्राचीने काले वसन्तपञ्चम्याः अपरे दिने निर्वाह्यमाणः उत्सवः।
"वसन्तोत्सवे कामदेवस्य अर्चना क्रियते।"
शब्दकल्पद्रुमः
Sanskrit
वसन्तोत्सवः,
पुं,
(वसन्तस्य उत्सवः ।) फाल-गुनोत्सवः यथा, --“फाल्गुन्यां पौर्णमास्यान्तु विदध्याद्वैष्णवैः सहश्रीकृष्णप्रियभक्तस्य वसन्तस्यार्च्चनोत्सवम्
भविष्योत्तरतो ज्ञेयस्तद्विधिश्चेदपेक्षते ।यः श्रीयुधिष्ठिरस्योक्तो व्यक्तं भगवता स्वयम्
”तन्माहात्म्यञ्च तत्रैव ।“एवं यः कुरुते पार्थ शास्त्रोक्तं फाल्गुनोत्-सवम् ।मत्प्रसादाच्च सिद्ध्यन्ति तस्य सर्व्वे मनोरथाः
वृत्ते तुषारसमये सितपञ्चदश्यांप्रातर्व्वसन्तसमये समुपस्थिते ।संप्राश्य चूतकुसुमं सह चन्दनेनसत्यं हि पार्थ पुरुषोऽब्दशतं सुखी स्यात्
”इति श्रीहरिभक्तिविलासे १४ विलासः
(वसन्तकालोद्भवोत्सवमात्रम् यथा, कथा-सरित्सागरे ४९ ।“अथ तस्मिन् महावेशो वसन्तोत्सववासरे ।आययौ प्रथमे यामे कुमारसचिवो निशि
”)