| YouTube Channel

वसन्ततिलकं (vasantatilakaM)

 
शब्दकल्पद्रुमः
Sanskrit
वसन्ततिलकं,
क्ली,
(वसन्तस्य तिलकमिव ।)पुष्पविशेषः चतुर्दशाक्षरपादच्छन्दोविशेषः ।यथा, --“ज्ञेयं वसन्ततिलकं जा गौ गः
फुल्लं वसन्ततिलकं तिलकं वनाल्यालीलापरं पिककुलं कलमत्र रौति ।वात्येष पुष्पसुरभिर्मलयाद्रिवातोयातो हरिः मथुरां विधिना हताः स्मः
”इति छन्दोमञ्जरी
*
औषधविशेषः यथा, --“अक्षारलूदहनसैन्धवविश्वशक्र-चूर्णं करञ्जसहितं मथितेन पीतम् ।नैवं प्ररोहति पुनर्गुदजः स्वहेतो-स्तस्मै वसन्ततिलकैरपि कल्पकल्पम्
”इति वृत्तरत्नावल्यां गुदजरोगचिकित्सा
(अन्यविधमौषधम् यथा, --“हेम्नो भस्मकमभ्रकं द्विगुणितं लौहास्त्रयःपारदा-श्चत्वारो नियतन्तु वङ्गयुगलञ्चैकीकृतं मर्द्दयेत् ।मुक्ताविद्रुमयो रसेन समता गोक्षुरवासेक्षुणासर्व्वं वन्थकरीषकेण सुदृढं गुप्तं पचेत् सप्तधा
कस्तूरीघनसारमर्द्दितरसः पश्चात् सुसिद्धोभवेत् ।कासश्वाससपित्तवातकफजित्पाण्डुक्षयादीन्हरेत्शूलादिग्रहणीं विषादिहरणो मेहांस्तथाविंशतिम्
हृद्रोगादिहरो ज्वरादिशमनो वृष्यो वयोवर्द्धनःश्रेष्ठः पुष्टिकरो वसन्ततिलको मृत्युञ्जयेनोदितः
”इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाद्यधिकारे
)