| YouTube Channel

वसन्तकुसुमाकर (vasantakusumAkara)

 
शब्दकल्पद्रुमः
Sanskrit
वसन्तकुसुमाकरः,
पुं,
औषधविशेषः यथा, --“प्रवालरसमौक्तिकाम्बरमिदं चतुर्भगभाक्पृथक् पृथगथ स्मृते रजतहेमतो द्व्यंशके ।अयोभुजगरङ्गकं त्रिलवकं विमर्द्याखिलंशुभेऽहनि विभावयेत् भिषगिदं धिया सप्तशः
द्रवैर्वृषनिशेक्षुजैः कमलमालतीपुष्पजैःपयःकदलिकन्दजैर्मलयजैणनाभ्युद्भवैः ।वसन्तकुसुमाकरो रसपतिर्द्विवल्लोऽशितःसमस्तगदहृद्भवेत् किल निजानुपानैरयम्
”इति वृद्धयोगतरङ्गिणी
(अथापरश्च ।“द्विभागं हाटकं चन्द्रं त्रयो वङ्गाहिकान्तकाः ।चतुर्भागं शुद्धमभ्रं प्रवालं मौक्तिकन्तथा
भावयेद्गव्यदुग्धेन भावनेक्षुरसेन ।वासालाक्षारसोदीच्यरम्भाकन्दप्रसूनकैः
शतपत्ररसेनैव मालत्याः कुङ्कुमोदकैः ।पश्चाद्मृगमदैर्भाव्यं सुगन्धिरससम्भवम्
कुसुमाकरविख्यातो वसन्तपदपूर्व्वकः ।गुञ्जाद्वयेन संसेव्यः सितामध्वाज्यसंयुतः
मेहघ्नः कान्तिदश्चैव कामदः पुष्टिदस्तथा ।वलीपलितनाशश्च श्रुतिभ्रंशं विनाशयेत् ।पुष्टिदो बल्य आयुष्यः पुत्त्रप्रसवकारणः
प्रमेहान् विंशतिञ्चैव क्षयमेकादशन्तथा ।तथा सोमरुजं हन्ति साध्यासाध्यमथापिवा
”इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाद्यधि-कारे
)
वाचस्पत्यम्
Sanskrit
वसन्तकुसुमाकर
पु०
प्रमेहरोगनाशके औषधभेदे ।“प्रवालरसमौक्तिकाम्बरमिदं चतुर्भागभाक् पृथक् पृथ-गथ स्मृते रजतहेमतो द्व्यं शके अयोभुजगरङ्गकं त्रि-लवकं विमर्द्याखिलं शुभेऽहनि विभावयेत् भिषगिदंधिया सप्तशः द्रवैर्वृषनिशेक्षुजैः क्वमलमालतीपुष्पजैःपयःकदलिकन्दजैर्मलयजैणनाभ्युद्भवैः वसन्तकुसुमा-करोरसपतिर्द्विवल्लोऽशितः समस्तगदहृद्भवेत् किल नि-जानुपानैरयम्” वृद्धयोगतरङ्गणी