| YouTube Channel

वसन्तः (vasantaH)

 
Apte
English
वसन्तः [vasantḥ], [वस्-झच्
Uṇ.*
3.128]
The spring, vernal season (comprising the two months चैत्र and वैशाख)
मधुमाधवौ वसन्तः Su&śr.
सर्वं प्रिये चारुतरं वसन्ते
Ṛs.*
6.2
विहरति हरिरिह सरसवसन्ते
Gīt.*
1.
Spring personified as a deity and regarded as a companion of Kāmadeva
सुहृदः पश्य वसन्त किं स्थितम्
Ku.*
4.27.
Dysentery.
Smallpox.
(In dramas) A nickname for the Vidūṣaka or buffoon.
Comp.
-अवतारः the advent or setting in of the spring
वसन्तावतारसमये$स्या उन्मादयितृकं रूपं प्रेक्ष्य
Ś.*
1. -उत्सवः the vernal festival, spring-festivities, formerly held on the full-moon day of Chaitra, but now on the full-moon day of Phālguna, and identified with the Holi festival. -कालः the spring-tide, vernal season. -कुसुमः Cordia Latifolia (Mar. गोंधणी). -घोषिन्m. a cuckoo.
जा the Vāsantī or Mādhavī creeper.
the spring festival
see वसन्तोत्सव. -तिलकः, -कम् the ornament of the spring
फुल्लं वसन्ततिलकं तिलकं वनाल्याः Chand.
M.*
5. (-कः -का -कम्)
N.
of a metre.
दूतः the cuckoo.
the month called Chaitra.
the musical mode हिन्दोल.
the mango tree.
दूती the trumpet-flower.
the female cuckoo.
Bignonia Suaveolens (Mar. पाटला). -द्रुः, द्रुमः the mango tree.-पञ्चमी the fifth day in the bright half of Māgha. -बन्धुः, -योधः, -सखः epithets of the god of love.
Apte Hindi
Hindi
वसन्तः
पुं*
- वस् + झच्
"वसंत ऋतु, बहार का मौसम"
वसन्तः
पुं*
- वस् + झच्
मूर्त या मानवीकृत वसंत जो कामदेव का साथी माना जाता है
वसन्तः
पुं*
- वस् + झच्
पेचिस
वसन्तः
पुं*
- वस् + झच्
"चेचक, शीतला"
Wordnet
Sanskrit
Synonyms:
वसन्तः, पुष्पसमयः, सुरभिः, मधुः, माधवः, फल्गः, ऋतुराजः, पिकानन्दः, कान्तः, कामसखः
noun
ऋतुविशेषः यस्य कालः माघमासस्य द्वितीयपक्षात् आरभ्य चैत्रमासस्य प्रथमपक्षपर्यन्तम् अस्ति।
"वसन्तो ऋतुराजः इति कवयः।"
Synonyms:
मसूरिका, शीतला, रक्तवटी, वसन्तः, मसूरी, गुली, विस्फोटः, पापरोगः
noun
रोगविशेषः, यस्मिन् दुष्टरक्तेन गोस्तनज-नरगात्रजेषु मसूरि-सदृश-पूयाः दृश्यन्ते।
"ग्रीष्मे मसूरिकायाः प्रकर्षेण प्रादुर्भावः भवति।"
Synonyms:
वसन्तः
noun
एकः पुरुषः
"वसन्तस्य उल्लेखः राजतरङ्गिण्यां वर्तते"
वैजयन्तीकोषः
Sanskrit
Word: वसन्तः
Root: वसन्त
Gender: पुं
Number: all
अर्थः चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः
Meaning(s):
Spring season consisting of the two months Caitra and Vaiśakha
Shloka(s):
2|1|87|2 मधुर्वसन्तः सुरभिर्वलाङ्गः पुष्पसारणः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|88|1 पुष्पकालोऽपीध्ममस्त्री ग्रीष्मस्त्वारखोर ऊष्मकः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|87|2 वसन्तः (वसन्त) (पुं) Spring season consisting of the two months Caitra and Vaiśakha चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः
2|1|87|2 सुरभिः (सुरभि) (पुं) Epithet of Vasanta चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः
2|1|87|2 वलाङ्गः (वलाङ्ग) (पुं) Epithet of Vasanta चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः
2|1|87|2 पुष्पसारणः (पुष्पसारण) (पुं) Epithet of Vasanta चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः
2|1|88|1 पुष्पकालः (पुष्पकाल) (पुं) Epithet of Vasanta चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः
2|1|88|1 इध्मः (इध्म) (पुं) Sacrificial firewood चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः
2|1|88|1 इध्मम् (इध्म) (नपुं) Sacrificial firewood चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः
Related word(s):
अवयव_अवयवीसंबन्धः वैशाखः
परा_अपरासंबन्धः ऋतुः
जातिः कालः
Tamil
Tamil
வஸந்த: : இளவேனில், மன்மதனின் தோழன், ஒரு ராகத்தின் பெயர்.
शब्दकल्पद्रुमः
Sanskrit
वसन्तः,
पुं,
(वसन्त्यत्र मदनोत्सवा इति वस+ “तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दि-भ्यश्च ।” उणा० १२८ इति झच् ।)ऋतुविशेषः चैत्रवैशाखमासद्बयात्मकः ।यथा मधुश्च माधवश्च वासन्तिकावृतुः इतिमलमासतत्त्वधृता श्रुतिः
(फाल्गुनचैत्रात्मक-श्चेति केचित् वसन्तः कुम्भमीनयोरितिप्रयोः-दर्शनात्
*
) तत्पर्य्यायः
पुष्पसमयः सुरभिः३ इत्यमरः
मधुः इति शब्दरत्नावली
माधवः फल्गुः इति जटाधरः
ऋतु-राजः पुष्पमासः पिकानन्दः कान्तः १०कामसखः ११
तत्कालीनजलगुणाः कषाय-त्वम् मधुरत्वम् रूक्षत्वञ्च इति राज-निर्घण्टः
(यथा, ऋतुसंहारे ।“द्रुमाः सपुष्पाः सलिलं सपद्मंस्त्रियाः सकामाः पवनः सुगन्धिः ।सुखाः प्रदोषा दिवसाश्च रम्यासर्व्वं प्रिये ! चारुतरं वसन्ते
”यथा ।“हेमन्ते चीयते श्लेष्मा वसन्ते प्रकुप्यति ।प्रायेण प्रशमं याति स्वयमेव समीरणः ।शरत्काले वसन्ते पित्तं प्रावृडृतौ कफः
”इति पूर्व्वखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम्
“मुदितकोकिलकूजितकाननंमदनसूचककिंशुकशोभितम् ।कुसुमसौरभरञ्जितभूधरं
कलितमत्तमधुव्रतलालसम्
मकरकेतनवाणसमाकुलंमुदितमेव समस्तमिदं जगत् ।मलयमारुतकॢप्तगुणान्वितःकफकरो हि वसन्तऋतुर्भवेत् ।कफजकोपविनाशनानलंवमनमावनरूक्षनिषेवणम्
विविधः सुरतानन्दः संश्रमः कफवारणः ।कटुक्षाराम्लकाः सेव्याः शोधनं कफसम्भवे
व्यायामश्रमसंरोधखिन्नो विश्रान्तमानसः ।एवं क्रियासमापन्नो नरः शीघ्रं सुखी भवेत्
”इति वसन्तोपचारः
इहि हारीते प्रथमस्थाने चतुर्थेऽध्याये
*
“कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः ।हत्वाग्निं कुरुते रोगानतस्तं त्वरया जयेत्
तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः ।व्यायामोद्वर्त्तनाघातैर्जित्वा श्लेष्माणमुल्वणम्
स्नातोऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः ।पुराणयवगोधूमक्षौरजाङ्गलशूल्यभुक्
सहकाररसोन्मिश्रानास्वाद्य प्रिययार्पितान् ।प्रियास्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान्
सौमनस्यकृतो हृद्यान् वयस्यैः सहितो पिबेत् ।निर्गदानासवारिष्टसीधुमार्द्वीकमाधवान्
शृङ्गवेराम्बु साराम्बु मध्वम्बु जलदाम्बु वा ।दक्षिणानिलशीतेषु परितो जलवाहिषु
अदृष्टनष्टसूर्य्येषु मणिकुट्टिमकान्तिषु ।परपुष्टविघुष्टेषु कामकर्म्मान्तभूमिषु
विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु ।गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत् सुखी
गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्
”इति वाभटे सूत्रस्थाने तृतीयेऽध्याये
“हेमन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः ।कायाग्निं वाधते रोगांस्ततः प्रकुरुते बहून्
तस्माद्वसन्ते कर्म्माणि वमनादीनि कारयेत् ।गुर्व्वम्लस्निग्धमधुरं दिवास्वप्नञ्च वर्ज्जयेत्
व्यायामोद्वर्त्तनं धूमं कवडग्रहमज्जनम्
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमेचन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः
शारभं शशमैणेयं मांसं लावकपिञ्जलम् ।भक्षयेन्निगद सीधुं पिबेन्माध्वीकमेव वा
वसन्तेऽनुभवेत् स्त्रीणां काननानाञ्च यौवनम्
”इति चरके सूत्रस्थाने षष्ठेऽध्याये
“मधुमाधवौ वसन्तः फाल्गुनचैत्रौ वसन्तः ।ता एवौषधयः कालपरिणामात् परिणतवीर्य्याबलवत्यो हेमन्ते भवन्त्वापश्च प्रसन्नाः स्निग्धाअत्यर्थं गुर्व्वास्ता उपयुज्यमाना मन्दकिरण-त्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहि-नामविदग्धाः स्नेहाच्छैत्यात् गौरवादुपलेपाच्चश्लेष्मणः सञ्चयमापादयन्ति सञ्चयो वसन्ते-ऽर्करश्मिप्रविलापित ईषत्स्तब्धदेहानां देहिनांश्लैष्मिकान् व्याधीन् जनयति ।” “पूर्व्वाह्णेवसन्तस्य लिङ्गम् ।”“दिशो वसन्ते विमलाः काननैरुपशोभिताः ।किंशुकाम्भोजवकुलचूताशोकादिपुष्पितैः
कोकिलाषट्पदगणैरुपगीता मनोहराः ।दक्षिणानिलसंवीताः सुमूखाः पल्वलोज्ज्वलाः
”इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये
*
)अस्याधिष्ठातृदेवतोत्पत्तिर्यथा, --मन्मथ उवाच ।“करिष्येऽहं तव विभो वचनाद्धरमोहनम् ।किन्तु योषिन्महास्त्रं मे ततः कान्तां भवान्सृज
मया संमोहिते शम्भौ यया तस्यानुमोहनम् ।कार्य्यं मनोरमां कामां तां निदेशय लोकभृत्
तामहं नहि पश्यामि यया तस्यानुमोहनम् ।कर्त्तव्यमधुना धातस्तत्रोपायं ततः कुरु
मार्कण्डेय उवाच ।एवंवादिनि कन्दर्पे धाता लोकपितामहः ।कया संमोहनीयोऽयमिति चिन्तां जगाम
चिन्ताविष्टस्य तस्याथ निःश्वासो यो विनिः-सृतः ।तस्माद्वसन्तः संजातः पुष्पव्रातविभूषितः
चूताङ्कुरांस्तत्कलिकां विभ्रद्भ्रमरसंहतिम् ।किंशुकान् सारसा रेजे प्रफुल्ल इव पादपः
शोणराजीवसङ्काशः फुल्लतामरसेक्षणः ।सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः
शङ्खवच्छ्रवणावर्त्तः श्यामकुञ्चितमूर्द्धजः ।सन्ध्यांशुमालिसदृशः कुण्डलद्बयमण्डितः
प्रमत्तवारणगतिर्विस्तीर्णहृदयस्थलः ।पीनस्थूलायतभुजः कठोरकरयुग्मकः
सुवृत्तोरुकटीजङ्घः कम्बुग्रीवोन्नतांसकः ।गूढजत्रुः पीनवक्षः संपूर्णः सर्व्वलक्षणैः
तादृशेऽथ समुत्पन्ने सम्पूर्णे कुसुमाकरे ।ववौ वायुः ससुरभिः पादपा अपि पुष्पिताः
पिकाश्च नेदुः सततं पञ्चमं मधुरस्वराः ।प्रफुल्लपद्मा अभवन् सरस्यः स्वच्छपुष्कराः
”इति कालिकापुराणे अध्यायः
*
हरमोहनकाले अस्य कर्म्माणि यथा, --“मधुश्च कुरुते कर्म्म यद्यत्तस्य विमोहने ।तत् शृणुष्व महाभाग नित्यं तस्योचितं पुनः
चम्पकान् केशरानाम्रान् करुणान् पाटलां-स्तथा ।नागकेशरपुन्नागान् किंशुकान् केतकान्वकान्
माधवीमल्लिकापर्णसारान् कुरुवकांस्तथा ।उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः
सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः ।सुगन्धि कृतवान् यत्नात् अतीव शङ्कराश्रमम्
लताः सर्व्वाः सुमनसो नूतनाङ्कुरसञ्चयाः ।वृक्षान् रुचिरभावेन वेष्टयन्ति स्म तत्र
तान् वृक्षांश्चारुपुष्पौघांस्तैः सुगन्धिसमीरणैः ।दृष्ट्वा कामवशं यातो तत्र मुनिरप्युत
तद्गणा अपि लोकेश नानाभावैः सुशोभनैः ।रमन्ते स्म सुराः सिद्धा ये ये चापि तपोधनाः
तस्य पुनरस्माभिर्दृष्टं मोहस्य कारणम् ।भावं कुरुते कामं कायोत्थमपि शङ्करः
”इति कालिकापुराणे अध्यायः
*
वसन्ते वर्णनीयानि यथा, --“सुरभौ दोला कोकिलमारुतसूर्य्यगतितरु-दलोद्भिदाः ।जातीतरपुष्पचयाम्रमञ्जरीभ्रमरझङ्काराः
”इति कविकल्पलतायां प्रथमस्तवकः
*
अतिसारः इति शब्दरत्नावली
षड्रागान्त-र्गतद्वितीयरागः यथा, --“रागाः षडेव तु प्रोक्ता रागिण्यस्त्रिंशदेव तु ।भैरवोऽथ वसन्तश्च नटनारायणस्तथा
”इत्यादि
तस्य पञ्चरागिण्यो यथा, --“आन्दोलिता देशाख्या लोला प्रथममञ्जरी ।मन्दारी चेति रागिण्यो वसन्तस्य सदानुगाः
”अस्य ध्यानं यथा, --“शिखण्डिवर्होच्चयबद्धचूडःपुष्णन् पिकं चूतलताङ्कुरेण ।भ्रमन् मुदा वाममनोज्ञमूर्त्ति-र्मतङ्गमत्तः वसन्तरागः
”अस्य गानसमयो यथा, --“श्रीपञ्चम्याः समारभ्य यावत् स्याच्छयनं हरेः ।तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः
”इति सङ्गीतदामोदरः
कल्लिनाथमते अस्य षड्रागिण्यो यथा ।आन्धुली गमकी पठमञ्जरी गौडकरी४ धामकली देवशाखा
हनूमन्मतेहिन्दोलरागपुत्त्रनामानोऽस्याष्टौ पुत्त्राः किन्तुतेषां मध्ये विभासस्थाने हिन्दोल इति लिखि-तम्
सोमेश्वरमते तस्य षड्रागिण्यो यथा ।देशी देवगिरी वैराटी टोडिका ४ललिता हिन्दोली
तन्मते अस्य रागस्यरागिणीसहितस्य वसन्तर्त्तुर्गानसमयः इतिसङ्गीतशास्त्रम्
*
तालविशेषः यथा, --“जयमङ्गलगन्धर्व्वमकरन्दत्रिभङ्गमाः ।रतितालो वसन्तश्च जगज्झम्पोऽथ गारुणिः
”इत्यादि
“वसन्तताले कर्त्तव्यो नगणो मगणस्तथा ।जगजझम्पे गुरुश्चैको विरामान्तञ्च खद्वयम्
”इति सङ्गीतदामोदरः