| YouTube Channel

वसकः-सिका (vasakaH-sikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वस निवासे”@} 2 कथादिः, अदन्तश्च।
‘वस्यति स्तम्भने, वस्ते छादने वसयेत् वसेत्।।
निवासे वासयेत्, स्नेहे वासयत्युपसेवने।’ 3 इति देवः।
क्षीरस्वामिचन्द्रजैनकातन्त्रकाशकृत्स्नादयः धातुममुं नाभ्युपगच्छन्ति।
अपि तु ‘वस स्नेहनच्छेदावहरणेषु’ इति पठित्वा अवहरणे = वर्तने इति 4 काशकृत्स्नः।
कातन्त्रास्तु ‘-- छेदावहननेषु’ इति।
वसकः-सिका, विवसयिषकः-षिका
वसयिता-त्री, विवसयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककलयतिवत् 5 ज्ञेयानि।
क्तप्रत्यये निवसितम् 6 इति।
प्रासङ्गिक्यः
01
=>
(१५७९)
02
=>
(१०-चुरादिः-१९४२। अक। सेट्। उभ।)
03
=>
(श्लो। १८७-८)
04
=>
[पृष्ठम्१२१७+ २८]
05
=>
(१७६)
06
=>
[[आ। ‘… सदोनिवसितं हरिं ययुरतूत्थिताङ्गाः क्रुधा।’ धा। का। ३-६४]]