| YouTube Channel

वशिष्ठः (vaziSThaH)

 
Apte Hindi
Hindi
वशिष्ठः
पुं*
- -
एक विख्यात मुनि का नाम
वशिष्ठः
पुं*
- -
स्मृति के प्रणेता का नाम
शब्दकल्पद्रुमः
Sanskrit
वशिष्ठः,
पुं,
(वशवतां वशिनां श्रेष्ठः वशवत् +इष्ठन् “विन्मतोर्लक ।” ६५ इति लुक् ।)यद्वा, वरिष्ठः पृषोदरादित्वात् साधुः अस्यनिरुक्तिर्यथा, महाभारते १३ ९३ ८९ ।“वशिष्ठोऽस्मि वरिष्ठोऽस्मि वशे वासगृहेष्वपि ।वशिष्ठत्वाच्च वासाच्च वशिष्ठ इति विद्धि माम्
”)स्वनामख्यातमुनिः तपय्यायः अरुन्धती-जानिः इति हेमचन्द्रः
अरुन्धतीनाथः ३वाशिष्ठः इति शब्दरत्नावली
तु ब्रह्मणःप्राणेभ्यो जातः तस्य भार्य्या कर्द्दमकन्या अरु-न्धती पुत्त्राः सप्तर्षयः इति श्रीभागवतमतम्
अपि ।“वशिष्ठश्च तथो र्ज्जयां सप्त पुत्त्रानजीजनत् ।कन्याञ्च पुण्डरीकाक्षां सर्व्वशोभासमन्विताम्
रजो गात्रोर्द्वबाहुश्च मवनश्चानवस्तथा ।सुतपाः शुक्र इत्येते सप्त पुत्त्रा महौजसः ।सर्व्वे तपस्विनः प्रोक्ताः सर्व्वे यज्ञेषु भागिनः ।अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः
”इति कौर्म्मे १२ अध्यायः
मित्रावरुणयोः पुत्त्रः यथा, --“इति पृष्टा नरेन्द्रेण कथ्यतामिति भूपते ।वशिष्ठं चोदयामासुः समस्तास्ते तपोधनाः
मुनिभिः प्रेरितः सोऽपि यथावद्यतमानसः ।योगमास्थाय सुचिरं मैत्रावरुणिरात्मवान्
”अन्यच्च ।“मित्रावरुणयोश्चैव कुण्डिनो ये परिश्रुताः ।एकार्षेयास्तथैवान्ये वशिष्ठा नाम विश्रुताः
एते पक्षा वशिष्ठानां स्मृता ह्येकादशैव तु ।अष्टावेते समाख्याता ब्रह्मणो मानसाःसुताः
”इति वह्निपुराणे घृतधेनुविधिवाराहप्रादुर्भावा-ध्यायौ