| YouTube Channel

वल्लूरं (vallUraM)

 
शब्दकल्पद्रुमः
Sanskrit
वल्लूरं, त्रि, (वल्ल्यते संव्रियते इति वल्ल + “खर्ज्जि-पिञ्जादिभ्य ऊरोलचौ ।” उणा० ९० ।इति ऊरच् ।) आतपादिना शुष्कमांसम् ।इत्यमरः ६३
(तस्याभक्ष्यत्वं यथा, मनुः १३ ।“निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव
”“वल्लूरं शुष्कमांसम् ।” इति तट्टीकायां कुल्लूक-भट्टः
) शूकरमांसम् इति मेदिनी रे, २१०
वनक्षेत्रम् वाहनम् ऊषरभूमिः ।इति हेमचन्द्रः