| YouTube Channel

वल्लमानः (vallamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वल्ल संवरणे संचरणे च”@} 2 अमुं धातुं क्षीरस्वामी पठति।
‘-- चलने च’ इति कातन्त्रः।
‘सौत्रोऽयं धातुः’ इति द।
उ।
वृत्त्याम् 3।
काशकृत्स्नीये ‘-- संवरणे’ इति पठित्वा इतः पूर्वं 4 ‘वल्ल निष्पत्तौ’ इत्यपि पृथक् धातुः पठितः।
वल्लकः-ल्लिका, वल्लकः-ल्लिका, विवल्लिषकः-षिका, वावल्लकः-ल्लिका
वल्लिता-त्री, वल्लयिता-त्री, विवल्लिषिता-त्री, वावल्लिता-त्री
-- वल्लयन्-न्ती, वल्लयिष्यन्-न्ती-ती
वल्लमानः, वल्लयमानः, विवल्लिषमाणः, वावल्ल्यमानः
इत्यादिकानि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना भौवादिककड्डतिवत् 5 ज्ञेयानि।
6 7 वल्लरी-वल्लरिः, 8 इति इन्प्रत्यये, हिरण्यभिन्नार्थे वलिरित्यादेशे रूपमेवम्।
वल्लति वल्ल्यते वा वलिः = त्वङ्मांससंकोचः।
वल्लिः इत्यस्य तु हिरण्यशलाका इत्यर्थः।
वल्ली इत्यत्र ‘कृदिकारात्--’ 9 इति ङीष्।
‘सौत्रोऽयं धातुः’ इति द।
उ।
वृत्त्याम्।]] वलिः- 10 वल्लिः-वल्ली-लता, 11 इत्यभच्प्रत्यये रूपमेवम्।
वल्लति वल्ल्यते वा वल्लभः = दयितः, प्राणप्रिय इति स्वामी।
‘वल्लभो दयितेऽध्यक्षे सल्लक्षण- तुरङ्गमे’ इति विश्वः।]] वल्लभः 12 13 वल्लकी, 14 वल्लवः वल्लूरः 15 इमानि रूपाण्यधिकानीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५७२)
02
=>
(१-भ्वादिः-४९२। सक। सेट्। आत्म।)
03
=>
(१-५२)
04
=>
(भ्वादौ)
05
=>
(१५६)
06
=>
[पृष्ठम्१२०९+ २९]
07
=>
[[१। बाहुलकाद् अरप्रत्यये पिप्पल्यादित्वात् (ग। सू। ४-१-४१) ङीष्प्रत्यये रूपम्।]]
08
=>
[[२। ‘वल्लेर्वलिरहिरण्ये’ [द। उ। १-५२]
09
=>
(वा। ४-१-४५)
10
=>
[[आ। ‘विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुदृवल्लितन्तुभिः।’ शि। व। १-७]]
11
=>
[[३। ‘रासिवल्लिभ्यां च’ [द। उ। ७-२१]
12
=>
[[B। ‘रात्रिर्यामत्रयपरिमिता वल्लभास्ते सहस्रं…’। प्रतापरुद्रीयेम् नायकप्रकरणे--श्लो। ५०।]]
13
=>
[[४। औणादिके (द। उ। ३-५) क्वुन्प्रत्यये गौरादित्वाद् ङीषि रूपमेवम्। ‘… वीणा तु वल्लकी’ इत्यमरः।]]
14
=>
[[५। औणादिके (द। उ। ८-१३२) वन्प्रत्यये रूपमेवम्। वल्लवः = गोधुक्।]]
15
=>
[[६। ‘खर्जिपिञ्जादिभ्य ऊरोलचौ’ (द। उ। १०-१०) इति ऊरप्रत्यये रूपमेवम्। वल्लूरः = शुष्कमांसम् इत्यर्थः। ‘उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्’ इत्यमरः।]]