वल्मीकः (valmIkaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishवल्मीकः [valmīkḥ] कम् [kam], कम् [वल्-ईक मुट् च 4.25] An ant-hill, a hillock thrown up by white ants, moles
धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः Subhāṣ
15
7.11.
कः Swelling of certain parts of the body, elephantiasis.
The poet Vālmīki. -भौमम्, -राशिः, -वपा an ant-hill. -शीर्षम् a kind of antimony (used as collyrium).
Apte 1890
EnglishApte Hindi
Hindiवल्मीकः
- "वल् + ईक्, मुट् च"
"बामी, दीमकों द्वारा बनाया मिट्टी का टीला"
वल्मीकः
- -
"शरीर के कुछ भागों का सूज जाना, हाथी पाँव"
वल्मीकः
- -
वाल्मीकि कवि
वल्मीकः
- "वल्+ईक्, मुट् च"
"बमी, दीमकों से बनाया गया मिट्टी का ढेर"
वल्मीकः
- -
शरीर के कुछ भागों में सूजन
वल्मीकः
- -
वाल्मीकि महाकवि
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit वाल्मीकिः, कविज्येष्ठः, कुशीवशः, वल्मीकः
सः मुनिः येन रामायणं रचितम्।
"तुलसीदासः वाल्मीकेः रूपम् अस्ति इति मन्यन्ते।"
वल्मीकः
मृत्तिकायाः राशिः यत् पुत्तिकानां गृहम् अस्ति।
"पुत्तिकाः आवल्यां वल्मीकात् बहिः आगच्छन्ति।"
वल्मीकः
एकं स्थानम् ।
"वल्मीकस्य उल्लेखः कथासरित्सागरे वर्तते"
शब्दकल्पद्रुमः
Sanskritव(ब)ल्मीकः, (वलते इति । वल संवरणे +“अलीकादयश्च ।” उणा० ४ । २५ । इत्यत्रवलतेर्म्मुमागमश्चेति उज्ज्वलदत्तोक्त्या काकनन्तोनिपातः ।) उयीकाकृतमृत्तिकास्तूपः । तत्-पर्य्यायः । वामलूरः २ नाकुः ३ । इत्य-मरः ॥
वल्मिकः ४ वाल्मीकः ५ वाल्मीकिः ६वाल्मिकिः ७ । इति तट्टीकायां भरतः ॥
पुग-लकः ८ शक्रमूर्द्धा ९ कृमिशैलकः १० । इतिशब्दरत्नावली ॥
* ॥
(यथा, मेघदूते । १५ ।“वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्ड-लस्य ॥
”)तन्मृत्तिकया शौचनिषेधो यथा । विष्णुपुरा-णम् ।“वल्मीकमूषिकोत्खातां मृदमन्तर्जलां तथा ।शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् ।अन्तःप्राण्यवपन्नाञ्च हलोत्खातां न कर्द्द-माम् ॥
”इत्याह्रिकाचारतत्त्वम् ॥
* ॥
देवप्रतिष्ठायां स्नानात् पूर्व्वं शिल्पिदोषशान्त्यर्थंतन्मृत्तिकया क्षालनं यथा, --“वल्मीकमृत्तिकाभिस्तु गोमयेन सुभस्मना ।क्षालयेत् शिल्पिसंस्पर्शदोषाणामुपशान्तये ॥
”वल्मीकमृदादिस्नाने मन्त्रविशेषानुपादानात्मन्त्रानादेशे गायत्त्रीति शूलपाणिलिखितात्गायत्त्र्या तत्तन्मूलमन्त्रेण वा स्नानं कारयि-तव्यम् । तया स्नानं यथा, --“स्नापयेत् प्रथमं देवं तोयैः पञ्चविधैरपि ।पञ्चामृतैः पञ्चगव्यैः पञ्चमृत्पिण्डकैरपि ॥
मृत्तिका करिदन्तस्य पर्व्वताश्वखुरस्य च ।कुशवल्मीकसम्भूतं मृत्पञ्चकमुदीरितम् ॥
”इति देवप्रतिष्ठातत्त्वम् ॥
वल्मीकः, (वल्मीक उयीकाकृतमृत्तिकास्तूपःउत्पत्तिकारणत्वेनास्त्यस्येति । अच् ।) वाल्मीकि-मुनिः । रोगविशेषः । इति विश्वः ॥
अथवल्मीकरोगस्य लक्षणम् ।“ग्रीवां सकक्षाकरपाददेशेसन्धौ गले वा त्रिभिरेव दोषैः ।ग्रन्थिः स वल्मीकवदक्रियाणांजातः क्रमेणैव गतप्रवृद्धिः ॥
मुखैरनेकैस्त्वतितोदवद्भि-र्विसर्पवत् सर्पति चोन्नताग्रैः ।वल्मीकमाहुर्भिषजो विकारंनिष्प्रत्यनीकं चिरजं विशेषात् ॥
”ग्रीवा कृकाटिका । अंसः स्कन्धः । कक्षाबाहुमूलम् । गलः कण्ठः । वल्मीकवदित्यनेनप्रचुरशिखरत्वमुच्चत्वमवगाढमूलत्वञ्च सूच्यते ।निष्प्रत्यनीकं उपचारायोग्यम् ॥
* ॥
अथ तस्यचिकित्सा ।“शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसा-धयेत् ।विधानेनार्व्वुदोक्तेन शोधयित्वा च रोधयेत् ॥
बल्मीकन्तु भवेद्यस्य नातिवृद्धममर्म्मजम् ।तत्र संशोधनं कृत्वा शोणितं मोक्षयेद् भिषक् ॥
कुलत्थिकानां मूलैश्च गुडूच्या लवणेन च ।आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च ॥
श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् ।सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपवाहयेत् ॥
पक्वं तद्वा विजानीयाद्गतीः सर्व्वा यथाक्रमम् ।अभिज्ञाय गतीश्छित्त्वा प्रदिह्यान्मतिमान्भिषक् ॥
संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् ।व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् ॥
मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः ।जातीपल्लवतक्रैश्च निम्बतैलं विपाचयेत् ॥
वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुव्रणम् ।पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् ॥
वल्मीकं यत् सशोफं स्याद्बर्ज्यं तद्धि विजा-नता ॥
”मनःशिलाद्यं तैलम् । इति भावप्रकाशः ॥
(अस्य मृदो व्यवहारेण रोगनाशित्वं यथा, --“क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतं भिषक् ।गाढमुत्सादनं कुर्य्यादूरुस्तम्भे प्रलेपनम् ॥
”इति वैद्यकचक्राणिसंग्रहे ऊरुस्तम्भाधिकारे ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
