| YouTube Channel

वलिष्ठः (valiSThaH)

 
शब्दकल्पद्रुमः
Sanskrit
ब(व)लिष्ठः,
पुं,
(अतिशयेन बलवान् + बलवत् +इष्ठन् विन्मतोर्लुगिति मतुपो लुक् प्रशस्त-भारवाहकत्वादस्य तथात्वम् ।) उष्ट्रः इतिराजनिघण्टः
(धर्म्मसावर्णिकमन्वन्तरान्त-र्गत ऋषिभेदः यथा, मार्कण्डेये ९४ १९ ।“हविष्मांश्च बलिष्ठश्च ऋष्टिरन्यस्तथारुणिः ।निश्चरश्चानघश्चैव विष्टिश्चान्यो महामुनिः
सप्तर्षयोऽन्तरे तस्मिन्नग्निदेवश्च सप्तमः
”रलयोरैक्यात् क्वचित् वरिष्ठश्चेति पाठोदृश्यते
)
ब(व)लिष्ठः, त्रि, (अतिशयेन बलवान् बलवत् +इष्ठन् विन्मतोर्लुगिति मतुपो लुक् ।) अति-शयबलबान् यथा, --“प्रायश्चित्तं बिना पूता त्वमेष शुद्धमानसा ।अकामा या बलिष्ठेन स्त्री जारेण दुष्यति
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५५ अध्यायः
बलिष्ठा यथा वायुः विष्णुः गरुडः ३हनूमान् यमः महावराहः सरभः ७सत्प्रतिज्ञा गजः पृथुराजः १० बलरामः११ वाली १२ बलिः १३ भीमः १४ सती १५शेषः १६ पुराकृतम् १७ इति कविकल्प-लता