| YouTube Channel

वला (valA)

 
Chandas
Sanskrit
सम-वृत्तम्,
अक्षराणि-
16,
पादेऽक्षराणि-
4
मात्राः - 6
मात्रा-विन्यासः
दा दा
लक्षण-मूलम् - आनन्दमिश्र-जालक्षेत्रम्
शब्दकल्पद्रुमः
Sanskrit
ब(व)ला,
स्त्री,
(कार्य्यकारित्वेन बलमस्त्यस्याः ।बल + अर्श आद्यच् ततष्टाप् ।) क्षुपविशेषः ।बाला इति वाडियाला इति भाषा तत्पर्य्यायः ।वाठ्यालकः इत्यमरः १०७
समङ्गा ३ओदनिका भद्रा भद्रोदनी खरका-ष्ठिका कल्याणिनी भद्रबला मोटा १०पाटी ११ बलाद्या १२ इति राजनिर्घण्टः
शीतपाकी १३ बाट्या १४ वाटी १५ विनया १६वाट्याली १७ वाटिका १८ इति शब्दरत्ना-वली
अपि ।“वाट्यालको बाठ्यपुष्पी समांसा विलला बला ।श्वेतवाडियाला इति भाषा
ऋष्यप्रोक्ता त्वतिबला पीतपुष्पी महाबला ।पीतवाडीयाला ।” इति रत्नमाला
अस्यागुणाः अतितिक्तत्वम् मधुरत्वम् पित्ताति-सारनाशित्वम् बलवीर्य्यप्रदत्वम् पुष्टिकफ-रोधविशोधनञ्च इति राजनिर्घण्टः
अथबलाचतुष्टयनामादि ।“बला वाट्यालिका वाट्या सैव वाट्यालकोऽपि ।महाबला पीतपुष्पा सहदेवी सा स्मृता
ततोऽन्यातिबला ऋष्यप्रोक्ता कङ्कतिकासह ।गाङ्गेरुकी नागबला झषा ह्रस्वा गवेधुका
बलाचतुष्टयगुणाः ।बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् ।स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम्
बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् ।मूत्रातिसारं हरति दुष्टमेतन्न संशयः
”इति भावप्रकाशः
“स्निग्धायुष्या बला वृष्या ग्राहिणी वात-पित्तजित्
”इति राजनिर्घण्टः
(विद्याविशेषः सा ब्रह्मणः सुता विश्वा-मित्रेण रामाय प्रदत्ता अस्याः प्रभावात्क्षुधातृष्णादिजनितक्लेशो भवेत् यथा, रामा-यणे २२ ११ -- २२ ।“अध्यर्द्धयोजनं गत्वा सरय्वा दक्षिणे तटे ।रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत
गृहाण वत्स्य ! सलिलं माभूत् कालविपर्य्ययः ।मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा
श्रमो ज्वरो वा ते रूपस्य विपर्य्ययः ।न सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरॄताः
बाह्वोः सदृशो वोर्य्ये पृथिव्यामस्ति कश्चन ।त्रिषु लोकेषु वा राम ! भवेत् सदृशस्तव
बलामतिबलाञ्चैव पठतस्तात राघव !
सौभाग्ये दाक्षिण्ये ज्ञाने बुद्धिनिश्चये ।नोत्तरे प्रतिबक्तव्ये समो लोके तवानघ !
एतद्विद्याद्वये लब्धे भवेत् सदृशस्तव ।बला चातिबला चैव सर्व्वज्ञानस्य मातरौ
क्षुत्पिपासे ते राम ! भविष्येते नरोत्तम ! ।बलामतिबलाञ्चैव पठतस्तात राघव !
विद्याद्वयमधीयाने यशश्चाथ भवेद्भवि
पितामहसुते ह्येते विद्ये तेजःसमन्विते ।प्रदातुं तव काकुस्थ ! सदृशस्त्वं हि पार्थिव !
कामं बहुगुणाः सर्व्वे त्वय्येते नात्र संशयः ।तपसा सम्भृते चैते बहुरूपे भविष्यतः
ततो रामो जलं पृष्ट्वा प्रहृष्टवदनः शुचिःप्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः
विद्यासमुदितो रामः शुशुभे भीमविक्रमः ।सहस्ररश्मिर्भगवान् शारदीव दिवाकरः
”)
वाचस्पत्यम्
Sanskrit
वला स्त्री वल--अच् (वेड्याला) ओषधिभेदे रायमुकुटः ।२ बलाशब्दार्थे