| YouTube Channel

वर्हिषदः (varhiSadaH)

 
शब्दकल्पद्रुमः
Sanskrit
वर्हिषदः, [द्]
पुं,
(वर्हिषि अग्नौ कुशासने वासीदन्ति ये ते वर्हिस् + सद् + क्विप् पृषो-दरादित्वात् साधुः ।) पितृगणविशेषः यथा, “अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः ।अग्निस्वात्ता वर्हिषदो द्विधा तेषां व्यवस्थितिः
”इति कौर्म्मे १२ अध्यायः
अपि ।“अपसव्यं ततः कृत्वा सव्यं जानु भूतले ।अग्निस्वात्तांस्तथा सौम्यान् हविष्मन्तस्तथोष्म-पान्
सुकालिनो वर्हिषद आज्यपांस्तर्पयेत्ततः ।तर्पयेच्च पितॄन् भक्त्या सतिलोदकचन्दनैः
दर्भपाणिस्तु विधिना हस्ताभ्यां तर्पयेत्ततः
”अत्र केचित् पितृधर्म्मातिदेशात् दिव्यपितॄणा-मपि अञ्जलित्रयदानम् तदसत् ।“कव्यबालं नलं सौम्यं यममर्य्यमणं तथा ।अग्निस्वात्ताः सोमपाश्च वर्हिषदः सकृत् सकृत्
”इति च्छन्दोगपरिशिष्टेन विशिष्टैकाञ्जलिविधा-नात् इत्याह्रिकतत्त्वम्
(पृथुवंशजस्य हवि-र्द्धानेः पुत्त्रः यथा, भागवते २४ -- ।“हविर्द्धानाद्धाविर्द्धानिर्विदूरासूत षट्सुतान् ।वर्हिषदं पयं शुक्लं कृष्णं सत्यं जितव्रतम्
वर्हिषत्सु महाभागो हविर्द्धानिः प्रजापतिः ।क्रियाकान्तेषु निष्णातो योगेषु कुरूद्वह
”वर्हिषि यज्ञे सीदतीति यज्ञस्थे, त्रि यथा, ऋग्वेदे ।“स वह मरुतां शर्धो अच्युत-मिन्द्रं नरो वर्हिषदं यजध्वम्
”)