| YouTube Channel

वर्हिः (varhiH)

 
Wordnet
Sanskrit
Synonyms:
जलम्, वारि, अम्बु, अम्भः, पयः, सलिलम्, सरिलम्, उदकम्, उदम्, जडम्, पयस्, तोयम्, पानीयम्, आपः, नीरम्, वाः, पाथस्, कीलालम्, अन्नम्, अपः, पुष्करम्, अर्णः, पेयम्, सलम्, संवरम्, शंवरम्, संम्बम्, संवत्सरम्, संववरः, क्षीरम्, पायम्, क्षरम्, कमलम्, कोमलम्, पीवा, अमृतम्, जीवनम्, जीवनीयम्, भुवनम्, वनम्, कबन्धम्, कपन्धम्, नारम्, अभ्रपुष्पम्, घृतम्, कं, पीप्पलम्, कुशम्, विषम्, काण्डम्, सवरम्, सरम्, कृपीटम्, चन्द्रोरसम्, सदनम्, कर्वुरम्, व्योम, सम्बः, सरः, इरा, वाजम्, तामरस, कम्बलम्, स्यन्दनम्, सम्बलम्, जलपीथम्, ऋतम्, ऊर्जम्, कोमलम्, सोमम्, अन्धम्, सर्वतोमुखम्, मेघपुष्पम्, घनरसः, वह्निमारकः, दहनारातिः, नीचगम्, कुलीनसम्, कृत्स्नम्, कृपीटम्, पावनम्, शरलकम्, तृषाहम्, क्षोदः, क्षद्मः, नभः, मधुः, पुरीषम्, अक्षरम्, अक्षितम्, अम्ब, अरविन्दानि, सर्णीकम्, सर्पिः, अहिः, सहः, सुक्षेम, सुखम्, सुरा, आयुधानि, आवयाः, इन्दुः, ईम्, ऋतस्ययोनिः, ओजः, कशः, कोमलम्, कोमलम्, क्षत्रम्, क्षपः, गभीरम्, गम्भनम्, गहनम्, जन्म, जलाषम्, जामि, तुग्र्या, तूयम्, तृप्तिः, तेजः, सद्म, स्रोतः, स्वः, स्वधा, स्वर्गाः, स्वृतिकम्, हविः, हेम, धरुणम्, ध्वस्मन्वतु, नाम, पवित्रम्, पाथः, अक्षरम्, पूर्णम्, सतीनम्, सत्, सत्यम्, शवः, शुक्रम्, शुभम्, शम्बरम्, वूसम्, वृवूकम्, व्योमः, भविष्यत्, वपुः, वर्वुरम्, वर्हिः, भूतम्, भेषजम्, महः, महत्, महः, महत्, यशः, यहः, यादुः, योनिः, रयिः, रसः, रहसः, रेतम्
noun
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
"जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ पेयम्।"
शब्दकल्पद्रुमः
Sanskrit
व(ब)र्हिः [स्],
पुं,
(वृंहति वर्द्धते इति वृहिवृद्धौ + “वृंहेर्नलोपश्च ।” उणा० ११० इतिइसिः नलोपश्च ।) अग्निः इति मेदिनी से, ३६
दीप्तिः इत्युणादिकोषः
यज्ञः इति हेम-चन्द्रः
(यथा, ऋग्वेदे ७५ ।“नूनो गोमद्वीरवद्वेहि रत्न-मुषो अश्वावत् पुरुभोजो अस्मे ।मानो बर्हिः पुरुषता निदेक-र्यूयं पातस्वस्तिभिः सदा नः
”“नोऽस्माकं बर्हिर्यज्ञम् ।” इति तद्भाष्ये सायणः
)चित्रकम् इत्यमरः
(बृहद्राजस्य पुत्त्रः ।यथा, भागवते १२ १३ ।“बृहद्राजस्तु तस्यापि वर्हिस्तस्मात् कृत-ञ्जयः
”)
व(ब)र्हिः [स्],
पुं,
क्ली,
(वृंहति वर्द्धते इति वृहिवृद्धौ + “वृंहेर्नलोपश्च ।” उणा० ११० ।इति इसिः नलोपश्च ।) कुशः इति मेदिनी ।से, ६३
(यथा, कुमारे ६१ ।“अवचितवलिपुष्पा वेदिसन्मार्गदक्षानियमविधिजलानां वर्हिषाञ्चोपनेत्री
”)
वर्हिः [स्]
क्ली,
(वृंहतीति वृहि वृद्धौ + इसिःनलोपश्च ।) ग्रन्थिपर्णम् इति शब्दरत्ना-वली