| YouTube Channel

वर्षुकः (varSukaH)

 
शब्दकल्पद्रुमः
Sanskrit
वर्षुकः, त्रि, (वर्षति तच्छील इति वृष + “लष-पतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ।” ।२ १५४ इति उकञ् ।) वर्षणकर्त्ता वृष-धातोर्ञुकप्रत्ययेन निष्पन्नः
(यथा, भट्टौ ।२ ३७ ।“जग्मुः प्रसादं द्विजमानसानिद्यौर्वर्षुका पुष्पचयं बभूव ।निर्व्याजमिज्या ववृते वचश्चभूयो बभाषे मुनिना कुमारः
”)