वर्षाः (varSAH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishवर्षाः - varSAH - - years
अभिधानचिन्तामणिः
Sanskritवर्षास्तपात्ययः प्रावृण्मेघकालागमौ क्षरी ॥ १५७ ॥
वर्षाः (स्त्रीब), तपात्यय (पुं), प्रावृष् (स्त्री), मेघकाल (पुं), मेघागम (पुं), क्षरिन् (पुं)
वैजयन्तीकोषः
SanskritWord: वर्षाः
Root: वर्षा
Gender: स्त्री
Number: बहु
अर्थः ⇒ श्रावणभाद्राभ्यां निष्पन्नः ऋतुः
Meaning(s):
⇒ Rainy season consisting of months Sravana and Bhadrapada
Shloka(s):
2|1|88|2 ► शुचिरुष्णागमः पात्म उष्ण ऊष्माऽप्यथ क्षरी॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|89|1 ► प्रावृड् वार्षी भूम्नि वर्षाः कालोक्षी च घनागमः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|89|2 ► घनात्ययः शरत् स्त्री स्याद्विसर्गो दक्षिणायनम्॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|88|2 ⇢ क्षरी (क्षरिन्) (पुं) ⇒ Epithet of Varṣa season ⇒ श्रावणभाद्राभ्यां निष्पन्नः ऋतुः
➠ 2|1|89|1 ⇢ प्रावृट् (प्रावृष्) (स्त्री) ⇒ Epithet of Varṣa season ⇒ श्रावणभाद्राभ्यां निष्पन्नः ऋतुः
➠ 2|1|89|1 ⇢ वार्षी (वार्षी) (स्त्री) ⇒ Epithet of Varṣa season ⇒ श्रावणभाद्राभ्यां निष्पन्नः ऋतुः
➠ 2|1|89|1 ⇢ वर्षाः (वर्षा) (स्त्री) ⇒ Rainy season consisting of months Sravana and Bhadrapada ⇒ श्रावणभाद्राभ्यां निष्पन्नः ऋतुः
➠ 2|1|89|1 ⇢ कालोक्षी (कालोक्षिन्) (पुं) ⇒ Epithet of Varṣa season ⇒ श्रावणभाद्राभ्यां निष्पन्नः ऋतुः
➠ 2|1|89|1 ⇢ घनागमः (घनागम) (पुं) ⇒ Epithet of Varṣa season ⇒ श्रावणभाद्राभ्यां निष्पन्नः ऋतुः
➠ 2|1|89|2 ⇢ घनात्ययः (घनात्यय) (पुं) ⇒ Epithet of Varṣa season ⇒ श्रावणभाद्राभ्यां निष्पन्नः ऋतुः
Related word(s):
अवयव_अवयवीसंबन्धः ➡ श्रावणः
परा_अपरासंबन्धः ➡ ऋतुः
जातिः ➡ कालः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritवर्षाः, स्त्री भुम्नि, (वर्षो वर्षणमस्त्यासु इति ।वर्ष + अर्शआदित्वात् अच् । टाप् । यद्वा, व्रियन्तेइति । वृ + “वृतॄवदीति ।” उणा० ३ । ६२ ।इति सः । ततष्टाप् ।) स्वनामख्यात ऋतुः ।तत्पर्य्यायः । प्रावृट् २ । इत्यमरः । १ । ४ । १९ ॥
घनकालः ३ जलार्णवः ४ प्रवृट् ५ मेघागमः ६घनाकरः ७ । इति शब्दरत्नावली ॥
प्रावृषा ८ ।इति त्रिकाण्डशेषः ॥
स च ऋतुः सौरश्रावण-भाद्रमासद्बयात्मकः । आषाढादिमासचतुष्टया-त्मकश्च । आद्यस्य प्रमाणम् । यथा । तपस्त-पस्यौ शैशिरावृतुः । मधुश्च माधवश्च वासन्ति-कावृतुः । शुक्रश्च शुचिश्च ग्रैष्मावृतुः । अथैत-दुदगयनं देवानां दिनम् । नभाश्च नभस्यश्चवार्षिकावृतुः । इषश्च ऊर्ज्जश्च शारदावृतुः ।सहाश्च सहस्यश्च हैमन्तिकावृतुः । अथैतद्-दक्षिणायनं देवानां रात्रिः । इति मलमास-तत्त्वधृता श्रुतिः ॥
शेषस्य प्रमाणं तत्र चातु-र्मास्यव्रतनियमश्च यथा । वाराहे ।“आषाढशुक्लद्बादश्यां पौर्णमास्यामथापि वा ।चातुर्मास्यव्रतारम्भं कुर्य्यात् कर्कटसंक्रमे ॥
अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती ।कार्त्तिके शुक्लद्वादश्यां विधिवत्तत् समापयेत् ॥
चतुर्धापि हि तच्चीर्णं चातुर्मास्यं व्रतं नरः ।कार्त्तिक्यां शुक्लपक्षे तु द्वादश्यां तत्समापयेत् ॥
”मात्स्ये ।“चतुरो वार्षिकान् मासान् देवस्योत्थापना-वधि ।मधुस्वरां भवेन्नित्यं नरो गुडविवर्ज्जनात् ॥
तैलस्य वर्ज्ज नादेव सुन्दराङ्गः प्रजायते ।कटुतैलपरित्यागात् शत्रुनाशः प्रजायते ॥
लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन् ।सदा मुनिः सदा योगी मधुमांसस्य वर्ज्जनात् ॥
निराधिर्नीरुगोजस्वी विष्णुभक्तश्च जायते ।एकान्तरोपवासेन विष्णुलोकमवाप्नुयात् ॥
धारणान्नखलोम्नाञ्च गङ्गास्नानं दिने दिने ।ताम्बूलवर्ज्जनाद्भोगी रक्तकण्ठश्च जायते ॥
घृतत्यागात् सुलावण्यं सर्व्वं स्निग्धं वपुर्भवेत् ।फलत्यागात्तु मतिमान् बहुपुत्त्रश्च जायते ॥
नमो नारायणायेति जप्त्वानशनजं फलम् ।पादाभिवन्दनाद्बिष्णोर्लभेद्गोदानजं फलम् ॥
एवमादिव्रतैः पार्थ तुष्टिमायाति केशवः ॥
”सनत्कुमारः ।“इदं व्रतं मया देव ! गृहीतं पुरतस्तव ।निर्व्विघ्नां सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव ! ॥
गृहीतेऽस्मिन् व्रते देव यद्यपूर्णे त्वहं म्रिये ।तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्द्दन ! ॥
”समाप्तौ च ।“इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो ।नूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्द्दन ॥
” * ॥
अत्रैव यतिमधिकृत्य काठकगृह्यम् ।“एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम् ।वर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत् ॥
”एतदशक्तविषयम् । ऊर्द्ध्वं वार्षिकाभ्यां मासाभ्यांनैकस्थानवासी इति शङ्खोक्तेः । इति तिथ्यादि-तत्त्वम् ॥
वर्षर्त्तौ वर्णनीयानि यथा, --“वर्षासु घनशिखिस्मयहंसगमाः पङ्ककन्दलो-द्भेदौ ।जातीकदम्बकेतकझञ्झानिलनिम्नगाहलि-प्रीतिः ॥
”इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥
(एतत्काललक्षणादिकं यथा, --“सधनवारिदवारिसमाकुलानिखिलभूः प्रबलोदकपूरिता ।समदवातकरा विदिशो दिशोमुदितकीटकृमिप्रभवा मही ॥
नीलशस्यहरितोज्ज्वला महीकुल्यकासलिलसंप्लुता सरित् ।इन्द्रगोपकविराजिता धरापङ्कभूषणविभूषिता च सा ॥
पत्री कूजति कानने च सरसी म्लानाम्बुपूर्णा तथाहंसा मानसमाव्रजन्ति कमलान्यम्लानतां यान्तिच ॥
गर्ज्जन्मेघमहेन्द्रकन्दरदरीशस्यावृता श्यामलाभात्येवं पवनस्य कोपनकरो वर्षाऋतुः शोभितः ॥
”“किञ्चिद्घर्म्मो भवेदत्र शस्यानां दृढता भवेत् ।बहुशस्या भवेद्धात्री वारिपूर्णा सरिन्मुहुः ॥
बहूदकधरा मेघा बहुवृष्टा घनस्वनाः ।एवं गुणसमायुक्ता वर्षा ज्ञेया ऋतूत्तमाः ॥
तासु वातकफौ कुप्तौ जायेते हि नृणां भृशम् ।इति ज्ञात्वा भिषक् श्रेष्ठः कुर्य्यादस्य प्रति-क्रियाम् ॥
स्वेदनं मर्द्दनं पथ्यं निर्व्वाते शयनन्तथा ।गौररामारतं शस्तं व्यायामः क्रमविक्रमः ॥
कट्वम्लक्षारसुरसाः सेव्या वातकफापहाः ।निरूहा वस्तिकर्म्माद्याः कफवातरुजापहाः ॥
”इति हारीते प्रथमे स्थाने चतुर्थेऽध्याये ॥
“आदानग्लानवपुषामग्निः सन्नोऽपि सीदति ।वर्षासु दोषैर्दू ष्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे ॥
सतुषारेण मरुता सहसा शीतलेन च ।भूवाष्पेणाम्लपाकेन मलिनेन च वारिणा ॥
वह्रिनैव च मन्देन तेष्वित्यन्योन्यदूषिषु ।भजेत् साधारणं सर्व्वमुष्मणस्तेजनञ्च यत् ॥
आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान् ।जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्त-नम् ॥
मस्तु सौवर्च्चलाढ्यं वा पञ्चकोलावचूर्णितम् ।दिव्यं कौर्प शृतञ्चाम्भो भोजनन्त्वतिदुर्द्दिने ॥
व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु ।अपादचारी सुरभिः सततं धूपिर्ताम्बरः ॥
हर्म्यपृष्ठे वसेद्वाष्पशीतशीकरवज्जित ।नदीजलोदमन्थाहःस्वप्नायासातपांस्त्यजेत् ॥
”इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
