| YouTube Channel

वर्षवृद्धिः (varSavRddhiH)

 
Apte Hindi
Hindi
वर्षवृद्धिः
स्त्री*
वर्षः-वृद्धिः -
जन्मदिन
Wordnet
Sanskrit
Synonyms:
जन्मदिनम्, जनिदिवसः, वर्षवृद्धिः
noun
यस्मिन् दिने कस्यचित् जन्म भवति।
"अद्य मम जन्मदिनम् अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
वर्षवृद्धिः,
स्त्री,
(वर्षस्य वृद्धिराधिक्यं यत्र ।)जन्मतिथिः इति स्मार्त्तव्याख्यादर्शनात्
अथजन्मतिथिकृत्यम् तन्मलमासे कर्त्तव्यं चान्द्र-मासीयत्वेन सावकाशत्वात् तस्य सौर-मासीयत्वं तथात्वे तन्मासे तत्तिथेः कदाचिद-प्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः चेष्टापत्तिःप्रतिसंवत्सरन्तद्विधानात् यथा ब्रह्मपुराणंगर्गश्च ।“सर्व्वैश्च जन्मदिवसे स्नातैर्मङ्गलपाणिभिः ।गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नतः
स्वनक्षत्रञ्च पितरौ तथा देवप्रजापतिः ।प्रति संवत्सरञ्चैव कर्त्तव्यश्च महोत्सवः
”स्नातैस्तिलस्नातैः प्रजापतिर्ब्रह्मा तथा चतत्तिथिमधिकृत्य ।“तिलोद्वर्त्ती तिलस्नायी तिलहोमी तिलप्रदः ।तिलभुक् तिलवापी षट्तिली नावसीदति
मङ्गलपाणिभिः अभिप्रेतार्थसिद्धिर्म्मङ्गलं तद्धेतु-तया गोरोचनादिकमपि मङ्गलं तेन धृत-गुग्गुल्वादिपाणिभिरित्यर्थः तथा कृत्य-चिन्तामणौ ।“गुडदुग्धतिलानद्याज्जन्मग्रन्थेश्च बन्धनम् ।गुग्गुलुं निम्बसिद्धार्थं दूर्व्वागोरोचनायुतम् ।संपूज्य भानुविघ्नेशौ महषि प्रार्थयेदिदम्
चिरजीवी यथा त्वं भो भविष्यामि तथा मुने ! ।रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्व्वदा
मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।आयुरिल्यर्गसिद्ध्यर्थमस्माकं वरदो भव
”स्वनक्षत्रञ्चेति स्वनक्षत्रं अश्विन्याद्यन्तर्गतजन्म-कालीननक्षत्रम् नामकरणे तथा दर्शनात् वक्ष्य-माणब्रह्मपुराणोक्तप्रणवादिनमोऽन्तन नाम्नैवपूजाविधानाच्च तदज्ञाने स्वनक्षत्राय नमइत्युल्लेख्यम्
*
पूजायामर्घ्यानन्तरं पाद्य-माह मत्स्यपुराणम् अर्घ्यं पाद्यादिकन्तत्रमधुपर्कं प्रयोजयेत् पाद्यानन्तरं अर्घ्यमाहनरसिंहपुराणम् पाद्यञ्चैव तृतीयया चतुर्थ्यार्घ्यप्रदापयेत् तृतीयया पुरुषसूक्तीयतृतीययाऋचा उभयक्रमदर्शनादिच्छाविकल्पः इतिश्रीदत्तः
*
श्रीपतिव्यवहारनिर्णये ।“नवाम्बरधरो भूत्वा पूजयेच्च चिरायुषम्
”तथा ।“द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् ।मार्कण्डेयं नरो भक्त्या पूजतेत् प्रयतस्तथा
ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं वलिम् ।प्रह्लादञ्च हनूमन्तं विभीषणमथार्च्चयेत्
”रामोऽत्र परशुरामः चिरजीविसाहचर्य्यात् ।द्रौणिरश्वत्थामा
*
तथा, --“स्वनक्षत्रं जन्मतिथिं प्राप्य सम्पूजयेन्नरः ।षष्ठीञ्च दधिभक्तेन वर्षे वर्षे पुनः पुनः
”योगियाज्ञवल्क्यः ।“ध्यायेन्नारायणं नित्यं स्नानादिषु कर्म्मसु ।तद्बिष्णोरिति मन्त्रेण स्नायादप्सु पुनः पुनः
गायत्त्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै
”ध्यायेत् स्मरेत् मन्त्रः ।“तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।दिवीव चक्षुराततम्
”वामनपुराणम् ।“सर्व्वमङ्गलमङ्गल्यं वरेण्यं वरदं शुभम् ।नारायणं नमस्कृत्य सर्व्वकर्म्माणि कारयेत्
*
सङ्कल्पाकरणे निन्दामाह भविष्यपुराणम् ।“सङ्कल्पेन विना राजन् ! यत्किञ्चित् कुरुतेनरः ।फलञ्चाल्पाल्पकं तस्य धर्म्मस्यार्द्धक्षयो भवेत्
”ब्रह्मपुराणम् ।“प्रणवादिसमायुक्तं नमस्कारान्तकीर्त्तितम् ।स्वनामसर्व्वसत्त्वानां मन्त्र इत्यभिधीयते
अनेनैव विधानेन गन्धपुष्पे निवेदयेत् ।एकैकस्य प्रकुर्व्वीत यथोद्दिष्टं क्रमेण तु
”गन्धपुष्पमात्रं पञ्चोपचाराद्यसम्भवे ।“मन्त्राच्छतगुणं प्रोक्तं भक्त्या लक्षगुणोत्तरम् ।भक्तिमन्त्रसमेतन्तु कोटि कोटि गुणोत्तरम्
सर्व्वत्र कर्म्मोपदेशकं दक्षिणादिभिरर्च्चयेत् ।तथोपदेष्टारमपि पूजयेच्च ततो गुरुम् ।न पूज्यते गुरुर्यत्र नरैस्तत्राफला क्रिया
”इति मत्स्यपुराणवचनात्
*
ततः कर्म्मानन्तरं तिलहोमस्तु पूजितदेवता-नामभिः कार्य्यः ।“एकैकां देवतां राम समुद्दिश्य यथाविधि ।चतुर्थ्यन्तेन धर्म्मज्ञ नाम्ना प्रणवादिना
होमद्रव्यमथैकैकं शतसं ख्यन्तु होमयेत्
”इति विष्णुधर्म्मोत्तरदर्शनात्
एवं होमे स्वाहान्तता मन्त्रस्य ।“स्वाहावसाने जुहुयात् ध्यायन् वै मन्त्रदेव-ताम्
”इति स्मृतेः
अशक्तौ तु देवीपुराणम् ।“होमो ग्रहादिपूजायां शतमष्टोत्तरं भवेत् ।अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते
*
स्कान्दे ।“खण्डनं नखकेशानां मैथुनाध्वानमेव ।आमिषं कलहं हिंसां वर्षवृद्धौ विवर्ज्जयेत्
”अध्वानं अध्वगमनम् कलहमित्यत्र सङ्गर-मिति क्वचित् पाठः सङ्गरं युद्धम् वर्षवृद्धौजन्मदिने
*
वृद्धमनुः ।“मृते जन्मनि संक्रान्तौ श्राद्धे जन्मदिने तथा ।अस्पृश्यस्पर्शने चैव स्नायादुष्टवारिणा
”जन्मनि पुत्त्रजन्मनि ज्योतिषे ।“स्नात्वा जन्मदिने स्त्रियं परिहरन् प्राप्नोत्य-भीष्टां श्रियंमत्स्यान्मोचयतो द्विजाय ददतोऽप्यायुश्चिरंवर्द्धते ।शक्तून् खादति यश्च तस्य रिपवो नाशं प्रयान्तिध्रुवंभुङ्क्ते यस्तु निरामिषं हि भवेज्जन्मान्तरेपण्डितः
*
दीपिकायाम् ।“जन्मर्क्षयुक्ता यदि जन्ममासेयस्य ध्रुवं जन्मतिथिर्भवेच्च ।भवन्ति तद्वत्सरमेव याव-न्नैरुज्यसम्मानसुखानि तस्य
कृतान्तकुजयोर्व्वारे यस्य जन्मतिथिर्भवेत् ।अनृक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे
”कृतान्तकुजयोः शनिमङ्गलयोः ।“तस्य सर्व्वौषधिस्नाणं ग्रहविप्रसुरार्च्चनम् ।ग्रहानुदिश्य होमो वा ग्रहाणां प्रीतिमिच्छता
सोरारयोर्दिने मुक्ता देयानृक्षे तु काञ्चनम्
मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्बयम् ।शटी चम्पकमुस्तञ्च सर्व्वौषधिगणः स्मृतः
”रजनीद्वयं हरिद्रा दारुहरिद्रेति एतेषांपत्रादीनां ग्रहणम् कषायावयवग्रहणे मत्स्य-पुराणविष्णुधर्म्मोत्तरयोस्तथा दर्शनात् तद्-यथा, --“एषां पत्राणि साराणि मूलानि कुसुमानि ।एवमादीनि चान्यानि कषायाख्यो गणः स्मृतः
”आयुर्व्वेदोक्ता परिभाषा ।“अङ्गेऽप्यनुक्ते विहितन्तु मूलंभागेऽप्यनुक्ते समता विधेया
”तत्र क्रमः तिलोद्बर्त्तनम् तिलयुक्तजलेनस्नानम् नववस्त्रपरीधानम् गुग्गुलुनिम्ब-सिद्धार्थदूर्व्वा-गोरोचनात्मकजन्मग्रन्थिं दक्षिणेपाणौ वध्नीयात् गुरुदेवाग्निविप्राश्च पूज-नीयाः स्वनक्षत्रं पूजनीयम् अत्र ।हस्ता स्वाती श्रवणा अक्लीवे मृगशिरोनपुंसि स्यात् पुंसि पुनर्व्वसुपुष्यौ मूलंत्वस्त्री स्त्रियां शेषाः इत्यनेन लिङ्गनिर्णयः
*
जन्मनक्षत्रादीनां गोपनमाह विष्णुधर्म्मोत्तरे ।“गोपयेज्जन्मनक्षत्रं धनसारं गृहे मलम् ।प्रभोरप्यपमानञ्च तस्य दुश्चरितञ्च यत्
”धनसारं घनश्रेष्ठम् मलं छिद्रम्
पितरौप्रजापतिः सूर्य्यो गणपतिर्मार्कण्डेयश्च पूजनीयः ।तत्र पार्थनमन्त्रौ ।“चिरजीवी यथा त्वं भो भविष्यामि तथा मुने ।रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्व्वदा
मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदो भव
”ततो व्यासपरशुरामाश्वत्थामकृपवलिप्रह्लाद-हनूमद्विभीषणाः पूजनीयाः षष्ठ्यपि पूज-नीया ।“त्रैलोक्ये यानि भूतानि स्थावराणि चराणिच ।ब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्व्वन्तु तानि मे
”इति मत्स्यपुराणीयं रक्षार्थं पठेत्
*
पितृमातृपादग्रहणक्रमस्तु विष्णुपुराणादुन्नेयः ।यथा, --“कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरः ।देवक्याश्च महाबाहुर्बलदेवसहायवान्
”एवञ्च ।“सहस्रन्तु पितुर्माता गौरवेणातिरिच्यते
”इति मनुवचने पितुरपेक्षया यत् सहसं मातु-र्गौरवमुक्तं यत् पोषणरक्षार्थम् अतएवमनुः ।“मृते भर्त्तरि पुत्त्रस्तु वाच्यो मातुररक्षिता
”वाच्यो गर्हणीयः
*
गुडदुग्धतिलपाने तुमन्त्रः ।“सतिलं गुडसंमिश्रमञ्जल्यर्द्धमितं पयः ।मार्कण्डेयवरं लब्ध्वा पिबाम्यायुष्यहेतवे
”अत्र वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः ।जन्मतिथेः प्रागुक्तब्रह्मपुराणीयत्वात् पौर्णमा-स्यन्तमासादरः
*
जन्मतिथेरुभयदिनलाभेतु देवीपुराणम् ।“युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया ।रवेरुदयमीक्ष्यन्ते तत्र तिथियुग्मता
घस्रद्वये जन्मतिथिर्यदि स्यात्पूज्या तदा जन्मभसंयुतैव ।असङ्गता भेन दिनद्वयेऽपिपूज्या परा या भवतीह यत्नात्
”भं नक्षत्रम् परवचनं बृहद्राजमार्त्तण्डेऽपि ।पूर्व्वाह्णे तिथिनक्षत्रलाभ एवेदं लक्ष्यते ।“नक्षत्रे खण्डिते येन प्राप्तः कालस्तु कर्म्मणः ।नक्षत्रकर्म्माण्यत्रैव तिथिकर्म्म तथैव
”इति बृहस्पतिवचनात्
खण्डिते खण्डद्बययुक्ते येन नक्षत्रखण्डेन विहित-कालः प्राप्तः नक्षत्रद्वैधे तु बौधायनमार्कण्डेयौ ।“तन्नक्षत्रमहोरात्रं यन्मिन्नस्तं गतो रविः ।यन्मिन्नुदेति सविता तन्नक्षत्रं दिनं स्मृतम्
”इति तिथ्यादितत्त्वम्