| YouTube Channel

वर्म्मितः (varmmitaH)

 
शब्दकल्पद्रुमः
Sanskrit
वर्म्मितः, त्रि, (वर्म्म करोतीति वर्म्म + णिच् ततःकर्म्मणि क्तः वर्म्म सञ्जातमस्येति इतच् वा ।)वर्म्मयुक्तः कृतसन्नाहः तत्पर्य्यायः सन्नद्धः २सज्जः दंशितः व्यूढकङ्कटः इत्यमरः ।२ ६५
ऊढकङ्कटः इति सुभूतिः
(यथा, गो० रामायणे ९१ १५ ।“वाजिनां वर्म्मिताङ्गानां क्रुद्धस्य मम सायकाः ।अद्य भित्त्वा प्रवेक्ष्यन्ति शरीराणि मयेरिताः
”)