| YouTube Channel

वर्म्म (varmma)

 
शब्दकल्पद्रुमः
Sanskrit
वर्म्म, [न्]
क्ली,
(वृणोति आच्छादयति शरीर-मिति वृ + मनिन् ।) तनुत्रम् इत्यमरः ।२ ६४
(यथा, रघुः ५६ ।“अभ्षभूयत वाहानां चरतां गात्रशिञ्जितैः ।वर्म्मभिः पवनोद्धूतराजतालीवनध्वनिः
”गृहम् इति निघण्टुः
यथा, बृहत्-संहितायाम् ५१ ।“छिन्नभिन्नकृमिखातकण्टकि-प्लुष्टरूक्षकुटिलैर्न सत्कुजैः ।क्ररपक्षियुतनिन्द्यनामभिःशुष्कशीर्णबहुपर्णवर्म्मभिः
”)