| YouTube Channel

वर्द्धमानः (varddhamAnaH)

 
शब्दकल्पद्रुमः
Sanskrit
वर्द्धमानः,
पुं,
(वर्धते इति वृध वृद्धौ + शानच् ।)एरण्डवृक्षः इत्यमरः ५१
(अस्यपर्य्यायो यथा, --“शुक्ल एरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः ।पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः ।वातारिस्तरुणश्चापि रुवूकश्च निगद्यते
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)पशुभेदः शरावः (यथा, महाभारते ।८० १९ ।“तथा गाः कपिला दोग्ध्रीः सवत्साः पाण्डु-नन्दनः ।हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् ।स्वस्तिकान् वर्द्धमानांश्च नन्द्यावर्त्तांश्च काञ्च-नान्
”अस्मिन्नर्थे क्लीवलिङ्गेऽपि दृश्यते यथा, तत्रैव ।१३ ६४ १२ ।“मघासु तिलपूर्णानि वर्द्धमानानि मानवः ।प्रदाय पुत्त्रपशुमानिह प्रेत्य मोदते
”तथा सुश्रुते सूत्रस्थाने २९ अध्याये ।“स्त्री पुत्त्रिणी सवत्सा गौर्वर्द्धमानमलङ्कृता ।कन्या मत्साः फलं चामं स्वस्तिकं मोदका दधि
”)विष्णुः इति मेदिनी ने, २०८
(यथा, महाभारते १३ १४९ ४१ ।“वर्द्धनो वर्द्धमानश्च विविक्तः श्रुतिसागरः
”)जिनविशेषः तत्पर्य्यायः वीरः चरमतीर्थ-कृत् महावीरः देवाय्यः अज्ञातनन्दनः ।इति हेमचन्द्रः ३०
धनिनां गृहविशेषः ।यथा, --“स्वस्तिको वर्द्धमानश्च नन्द्यावर्त्तादयोऽपि
”इति हलायुधः
(यथा, बृहत्संहितायाम् ५३ ३३ ।“द्वारालिन्दोऽन्तगतः प्रदक्षिणोऽन्यः शुभस्तत-श्चान्यः ।तद्वच्च वर्द्धमाने द्वारन्तु दक्षिणं कार्य्यम्
”)स्वनामख्यातदेशः यथा, --“प्राच्यां मागधशोणौ वारेन्द्रीगौडराढकाः ।वर्द्धमानतमोलिप्तप्राग्ज्योतिषोदयाद्रयः
”इति ज्योतिस्तत्त्वे कूर्म्मचक्रम्
(भद्राश्ववर्षस्य कुलपर्व्वतविशेषः यथा, मार्क-ण्डेये ५९ १२ ।“विशालः कम्बलः कृष्णो जयन्तो हरिपर्व्वतः ।विशोको वर्द्धमानश्च सप्तैते कुलपर्व्वताः
”वृद्धिविशिष्टे, त्रि
)