| YouTube Channel

वर्द्धनी (varddhanI)

 
Anekartha-Dvani-Manjari
Sanskrit
वर्द्धनी
स्त्री
वर्द्धनी, घटी, तृणकूर्चिका
वर्द्धनी घटी ज्ञेया वर्द्धनी तृणकूर्चिका ५९
verse 2.1.1.59
page 0011
शब्दकल्पद्रुमः
Sanskrit
वर्द्धनी,
स्त्री,
घटी इति मेदिनी ने, १२३
संमार्ज्जनी इति हेमचन्द्रः ८२
सनालपात्रविशेषः वद्ना इति भाषा यथा, “आलुः स्त्री कर्करी पारी वर्द्धनी लल-न्तिका
”इति जटाधरः
*
प्रतिष्ठादिकर्म्मणि तत्प्रयोजनं यथा, --“प्रतिष्ठा यस्य देवस्य तदाख्यं कलसं न्यसेत् ।ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव वर्द्ध-नीम्
कलसं वर्द्धनीञ्चैव ग्रहान् वास्तोष्पतिं तथा ।आसने तानि सर्व्वाणि प्रणवाख्यं जपेद्गुरुः
सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मन वेष्टितम् ।सर्व्वौषधीगन्धलिप्तं पूजयेत् कलसं गुरुः
देवन्तु कलसे पूज्य वर्द्धन्या वस्त्रमुत्तमम् ।वर्द्धन्या तु समायुक्तं कलसं भ्रामयेदनु
वर्द्धनीं धारया सिञ्चन्नग्रतो धारयेत्ततः ।अभ्यर्च्च्य वर्द्धनीकुम्भं स्थण्डिले देवमर्च्चयेत्
”इति गारुडे ४८ अध्यायः
वाचस्पत्यम्
Sanskrit
वर्द्धनी स्त्री वर्द्ध्यतेऽनया वृध--णिच्--ल्युट् ङीप् संमार्ज-न्याम् खट्यां मेदि० सनालपात्रभेदे (वद्ना) जटा०