| YouTube Channel

वर्त्तुलं (varttulaM)

 
शब्दकल्पद्रुमः
Sanskrit
वर्त्तुलं, त्रि, (वर्त्तते इति वृत् + बाहुलकात्उलच् ।) गोलवस्तु तत्पर्य्यायः निस्त-लम् वृत्तम् इत्यमरः ६९
मण्डलायितम् इति शब्दरत्नावली
*
(यथा, भागवते १६ ।“यो वा अयं द्वीपः कुवलयकमलकोशाभ्यन्तर-नियुतयोजनविशालः समवर्त्तुलो यथा पुष्कर-पत्रम्
”) सम्पूर्णगर्भवृत्तानि यथा, --“सम्पूर्णगर्भवृत्तानि मुखपद्मेन्दुदर्पणाः ।चक्रावहट्टतिलकमृदङ्गपुटशायकाः
आवर्त्तः कमठो लूतागृहं छत्रमपूपकम् ।आलबालमहीजालचर्म्मकं शाणकादयः
*
वृत्तानि यथा, --“वृत्तानि बाहुनारङ्गस्कन्धधम्मिल्लमोदकाः ।रथाङ्गलावकककुत्कुम्भिकुम्भाण्डकादयः
कर्णपाशभुजापाशाकृष्टचापघटाननम् ।मुद्रिकापरिखायोगपट्टहारस्रगादयः
”इति कविकल्पलतायाम् श्लेषस्तवके कुसु-मम्
वर्त्तुलं,
क्ली,
गृञ्जनम् इति राजनिर्घण्टः