| YouTube Channel

वर्त्तिष्णुः (varttiSNuH)

 
शब्दकल्पद्रुमः
Sanskrit
वर्त्तिष्णुः, त्रि, (वर्त्तते इति वृत + “अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतन्मदरुच्यपत्रपवृतुवृधु-सहचर इष्णुच् ।” १३६ इतिइष्णुच् ।) वर्त्तनशीलः तत्पर्य्यायः वर्त्तनः ।इत्यमरः २९
वर्त्ती इति हेम-चन्द्रः ५३
(यथा, भट्टौ ।“निराकरिष्णू वर्त्तिष्णू वर्द्धिष्णू परितो रणम् ।उत्पतिष्णू सहिष्णू चेरतुः खरदूषणौ
”)