| YouTube Channel

वर्त्तमानः (varttamAnaH)

 
शब्दकल्पद्रुमः
Sanskrit
वर्त्तमानः,
पुं,
(वर्त्तते इति वृत् + शानच् मुक् ।)प्रयोगाधिकरणीभूतकालः इति नैयायिकाः
तत्कालवृत्ते, त्रि तयोः पर्य्यायौ अद्यतनः २अधुनातनः इति राजनिर्घण्टः
वैया-करणमते तु आरब्घापरिसमाप्तिर्व्वर्त्तमानःकालः यथा महाभारतं पठति तुचतुर्विधः यथा, --“प्रवृत्तोपरतश्चैव वृत्ताविरत एव ।नित्यप्रवृत्तः सामीप्यो वर्त्तमानश्चतुर्विधः
”क्रमेणोदाहरणानि मांसं खादति आदौप्रवृत्तं मांसभोजनं निवर्त्तयति इत्यर्थः इहकुमाराः क्रीडन्ति तदानीन्तनक्रीडनाभावेऽपिपूर्व्वक्रीडानां बुद्धौ वर्त्तमानत्वात् पर्व्वता-स्तिष्ठन्ति नित्यप्रवृत्तत्वात् किञ्च पर्व्वतानांस्थितत्वे वर्त्तमानत्वेऽपि मूतभविष्यत्कालाभ्यांसम्बन्धविवक्षया पर्व्वतास्तस्थुः स्थास्यन्ति इत्यपिस्यात् सामीप्यो द्विविधः भूतसामीप्यो भविष्यत्-सामीप्यश्च भूतसामीप्ये यथा कदा आगतो-ऽसि इति प्रश्ने अध्वस्वेदादेर्व्वर्त्तमानत्वात् एषो-ऽहमागच्छामि इति आगतोऽपि वदति भवि-ष्यत् सामीप्ये यथा कदा गमिष्यसि इति प्रश्नेएषोऽहं गच्छामि इति गमनक्रियमाणोद्यमो-ऽपि वदति इति मुग्धबोधटीकायां दुर्गादासः