| YouTube Channel

वर्त्तनं (varttanaM)

 
शब्दकल्पद्रुमः
Sanskrit
वर्त्तनं,
क्ली,
(वर्त्ततेऽनेनेति वृत् + करणे ल्युट् ।)वृत्तिः इत्यमरः
(यथा, भाग-वते ११ २६ ।“सम्मार्ज्जनोपलेपाभ्यां गृहमण्डनवर्त्तनैः ।स्वयञ्च मण्डिता नित्यं परिमृष्टपरिच्छदा
”)साधारणवर्त्तुलम् इति शब्दरत्नावली
वर्त्तनं,
क्ली,
स्त्री,
(वर्त्ततेऽनेनेति वृत् + ल्युट् ।)तूलनाला तर्कुपीठः जीवनम् इतिमेदिनी ने, १२६
(यथा, मार्कण्डेये ५० ७१ ।“देवतापितृमर्त्त्यानामतिथीनाञ्च वर्त्तनम् ।यस्यावशिष्टेनान्नेन पुंसस्तस्य गृहं त्यज
”)