| YouTube Channel

वर्णितः (varNitaH)

 
शब्दकल्पद्रुमः
Sanskrit
वर्णितः, त्रि, (वर्ण + क्त ।) स्तुतियुक्तः तत्-पर्य्यायः ईलितः शस्तः पणायितः ४पनायितः प्रणुतः पणितः पनितः ८गीर्णः अभिष्टुतः १० ईडितः ११ स्तुतः १२ ।इत्यमरः ११०
नुतः १३ इतिजटाधरः
(विस्तारितः यथा, महाभारते ।१ २०९ ।“चतुर्थमेतद्बिपुलं वैराटं पर्व्व वर्णितम्
”कथितः यथा, कथासरित्सागरे १९ ३६ ।“स्वभर्त्तुस्तच्च मया दरिद्रस्यापि वर्णितम्
”)