| YouTube Channel

वर्णसङ्करः (varNasaGkaraH)

 
Hindi
Hindi
अवांछित संतान
Apte Hindi
Hindi
वर्णसङ्करः
पुं*
वर्ण-सङ्करः -
अन्तर्जातीय विवाह के कारण वर्णों का सम्मिश्रण
वर्णसङ्करः
पुं*
वर्ण-सङ्करः -
रंगों का मिश्रण
शब्दकल्पद्रुमः
Sanskrit
वर्णसङ्करः,
पुं,
(वर्णतो ब्राह्मणादिभ्यः वर्णानांवा सङ्करो मिश्रणं यत्र ।) मिश्रितजातिः ।तद्बिवरणं यथा, --“बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः ।ब्रह्मणो बाहुदेशाच्च जाताः क्षत्त्रियजातयः
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः ।तासां सङ्करजातेन बभूवुर्व्वर्णसङ्कराः
गोपनापितलीलाश्च तथा मोदकमूलवौ ।ताम्बूलिपर्णकारौ तथा बणिकजातयः
”लीलास्थाने भाला इति मूलवस्थाने कूवर इतिच पाठः ।“इत्येवमाद्या विप्रेन्द्र ! सच्छूद्राः परिकीर्त्तिताः ।शूद्राविशोस्तु करणोऽम्बष्टो वैश्याद्विजन्मनोः
विश्वकर्म्मा शूद्रायां वीर्य्याधानं चकार सः ।ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः
मालाकारः कर्म्मकारः शङ्खकारः कुविन्दकः ।कुम्भकारः कंसकारः षडेते शिल्पिनां वराः
सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव ।पतितास्ते ब्रह्मशापादजात्या वर्णसङ्कराः
”अजात्या इत्यत्र अयाज्या इत्यपि पाठः ।“स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्बिजो-त्तम ।बभूव सद्यः पतितो ब्रह्मशापेन कर्म्मणा
सूत्रधारो द्विजातीनां शापेन पतितो भुवि ।शीघ्रञ्च यज्ञकाष्ठञ्च ददौ तेन हेतुना
व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा ।पतितो ब्रह्मशापेन ब्राह्मणानाञ्च कोपतः
कश्चिद्बणिग्विशेषश्च संसर्गात् स्वर्णकारिणः ।स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः
कुलटायाञ्च शूद्रायां चित्रकारस्य वीर्य्यतः ।बभूवाट्टालिकाकारः पतितो जारदोषतः
अट्टालिकाकारवीर्य्यात् कुम्भकारस्य योषिति ।बभूव कोटिकः सद्यः पतितो गृहकारकः
कुम्भकारस्य वीर्य्येण सद्यः कोटिकयोषिति ।बभूव तैलकारश्च कुटिलः पतितो भुवि ।सद्यः क्षत्त्रियवीर्य्येण राजपुत्त्रस्य योषिति ।बभूव तीवरश्चैव पतितो जारदोषतः
तीवरस्य तु वीर्य्येण तैलकारस्य योषिति ।बभूव पतितो दस्युर्लेटश्च परिकीर्त्तितः
लेटस्तीवरकन्यायां जनयामास षण्णरान् ।माल्लं मल्लं मातरञ्च भडं कोलञ्च कन्दरम्
”कन्दरस्थाने कलन्दर इति वा पाठः ।“ब्राह्मण्यां शूद्रवीर्य्येण पतितो जारदोषतः ।सद्यो बभूव चाण्डालः सर्व्वस्मादधमोऽशुचिः
तीवरेणैव चाण्डाल्यां चर्म्मकारो बभूव ।चर्म्मकार्य्याञ्च चाण्डालात् मांसच्छेदी बभूव
मांसच्छेद्यां तीवरेण कोँचश्च परिकीर्त्तितः ।कोँचस्त्रियान्तु कैवर्त्तात् काण्डारः परिकीर्त्तितः
सद्यश्चाण्डालकन्यायां लेटवीर्य्येण शौनक !बभूवतुस्तौ द्वौ पुत्त्रौ हड्डिकशौण्डिकौ तथा
”हड्डिकशौण्डिकावित्यत्र दुष्टौ हड्डिडमौ इत्यपिपाठः ।“क्रमेण हड्डिकन्यायां सद्यश्चाण्डालवीर्य्यतः ।बभूवुः पञ्चपुत्त्राश्च भ्रष्टा वनचराश्च ते
लेटात्तीवरकन्यायां गङ्गातीरे शौनक ।बभूव सद्यो यो बालो गङ्गापुत्त्रः प्रकीर्त्तितः
गङ्गापुत्त्रस्य कन्यायां वीर्य्येण वेशधारिणः ।बभूव वेशधारी पुत्त्रो युङ्गी प्रकीर्त्तितः
वैश्यात्तीवरकन्यायां सद्यः शुण्डी बभूव ।शुण्डीयोषिति वैश्यात्तु पौण्ड्रकश्च प्रकीर्त्तितः
क्षत्त्रात् करणकन्यायां राजपुत्त्रो बभूव ।राजपुत्त्र्यान्तु करणादागवीति प्रकीर्त्तितः
क्षत्त्रवीर्य्येण वैश्यायां कैवर्त्तः परिकीर्त्तितः ।कलौ तीवरसंसर्गाद्धीवरश्च प्रकीर्त्तितः
”प्रकीर्त्तित इत्यत्र पतितो भुवि इति वा पाठः ।“तीवर्य्यां धीवरात् पुत्त्रो बभूव रजकः स्मृतः ।रजक्यां तीवराच्चापि कोदाली बभूव
नापिताद्गोपकन्यायां सर्व्वस्वी तस्य योषिति ।क्षत्त्राद्बभूव व्याधश्च वलवान् मृगहिंसकः
तीवरात् शुण्डिकन्यायां बभूवुः सप्त पुत्त्रकाः ।ते कलौ हड्डिसंसर्गाद्बभूवुर्दस्यवः सदा
ब्राह्मण्यामृषिवीर्य्येण ऋतोः प्रथमवासरे ।कुत्सितश्चोदरे जातः कूदरस्तेन कीर्त्तितः
तदशौचं विप्रतुल्यं पतित ऋतुदषतः ।सद्यः कोटिकसंसर्गादधमो जगतीतले
क्षत्त्रवीर्य्येण वैश्यायामृतोः प्रथमवासरे ।जातः पुत्त्रो महादस्युर्ब्बलवांश्च धनुर्द्धरः
चकार वागतीतञ्च क्षत्त्रियो वारितस्तया ।तेन जात्या पुत्त्रश्च वागतीतः प्रकीर्त्तितः
क्षत्त्रवीर्य्येण शूद्रायामृतुदोषेण पापतः ।बलवत्यो दुरन्ताश्च बभूवुर्म्लेच्छजातयः
अविद्धकर्णाः क्रूराश्च निर्भया रणदुर्ज्जयाः ।शौचाचारविहीनाश्च दुर्द्धर्षा धर्म्मवर्ज्जिताः
म्लेच्छात् कुविन्दकन्यायां जोलाजातिर्ब्बभूव ।जोलात् कुविन्दकन्यायां शराकः परिकीर्त्तितः
वर्णसङ्करदोषेण बह्व्यश्च शठजातयः ।तासां नामानि संख्याञ्च को वा वक्तुं द्विजक्षमः
वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति ।वैद्यवीर्य्येण शूद्रायां बभूवुर्व्वहवो जनाः
ते ग्राम्यगुणज्ञाश्च मन्त्रौषधिपरायणाः ।तेभ्यश्च जाताः शूद्रायां ते व्यालग्राहिणोभुवि
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः
*
अपि ।“अयं द्विजैर्हि विद्वद्भिः पशुधर्म्मो विगर्हितः ।मनुष्याणामपि प्रोक्तो वेणे राज्यं प्रशासति
महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।वर्णानां सङ्करं चक्रे कामोपहतचेतसः
ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः
*
ब्राह्मणः क्षत्त्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः
सर्व्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु ।आनुलोम्येन सम्भूता जात्या ज्ञेयास्त एव ते
स्त्रीष्वनन्तरजातासु द्बिजैरुत्पादितान् सुतान् ।सदृशानेव तानाहुर्मातृदोषविगर्हितान्
अनन्तरासु जातानां विधिरेष सनातनः ।द्व्येकान्तरासु जातानां धर्म्यं विद्यादमुविधिम्
ब्राह्मणात् वैश्यकन्यायामम्बष्ठो नाम जायते ।निषादः शूद्रकन्यायां यः पारशव उच्यते
क्षत्त्रियाच्छृद्रकन्यायां क्रूराचारविहारवान् ।क्षत्त्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते
विप्रस्य त्रियु वर्णेषु नृपतेर्व्वर्णयोर्द्बयोः ।वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः
*क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः ।वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ
शूद्रादाथोगवः क्षत्ता चण्डालश्चाधमो नृणाम् ।वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः
एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ ।क्षत्तृवैदेहकौ तद्बत् प्रातिलोम्येऽपि जन्मनि
*
पुत्त्रा येऽनन्तरञ्जीजाः क्रमेणोक्ता द्बिजन्मनाम् ।ताननन्तरनाम्नस्तु मातृदोषात् प्रचक्षते
ब्राह्मणादुग्रकन्यायामावृतो नाम जायते ।आभीरोऽम्बष्ठकन्यायामायोगव्यान्तु धिग्वणः
आयोगवश्च क्षत्ता चण्डालश्चाधमो नृणाम् ।प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः
वैश्यान्मागधवैदेहौ क्षत्त्रियात् सूत एव तु ।प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः
जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः ।शूद्राज्जातो निषाद्यान्तु वै कुक्कुटकः स्मृतः
क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते ।वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते
द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् ।तान् सावित्रीपरिभ्रष्टान् व्रात्या इति विनि-र्द्दिशेत्
व्रात्यात्तु जायते विप्रात् पापात्मा भूर्जकण्ठकः ।आवन्त्यवाटधानौ पुष्पधः शेख एव
झल्लो मल्लश्च राजन्यात् व्रात्यान्निच्छिविरेव ।नटश्च करणश्चैव खशो द्रविड एव
वैश्यात्तु जायते व्रात्यात् सुधन्नाचार्य्य एव ।कारुषश्च विजन्मा मैत्रः सात्वत एव
व्यभिचारेण वर्णानामवेद्यावेदनेन ।स्वकर्म्मणाञ्च त्यागेन जायन्ते वर्णसङ्कराः
*
सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः
सूतो वैदेहकश्चैव चण्डालश्च नराधमः ।मागधः क्षत्तृजातिश्च तथायोगव एव
एते षट् सदृशान् वर्णान् जनयन्ति स्वजोनिष ।मातृजात्यां प्रसूयन्ते प्रवरासु योनिषु
यथा त्रयाणां वर्णानां द्बयोरात्मस्य जायते ।आनन्तर्य्यात्स्वयोन्यान्तु तथा बाह्येष्वपि क्रमात्
ते चापि वाह्यान् सुबहूं स्ततोऽप्यधिकदूषि-तान् ।परस्परस्य दारेषु जनयन्ति विगर्हितान्
*
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते
तथा बाह्यतरं बाह्यश्चातुवर्णे प्रसूयते ।प्रतिकूलं वर्त्तमाना बाह्याबाह्यतरान् पुनः ।हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु
प्रसाधनोपचारज्ञमदासं दासजीवनम् ।सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे
मैत्रेयकन्तु वैदेहो माधूकं संप्रसूयते ।नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये
निषादो मार्गवं सूते दासं नौकर्म्मजीविनम् ।कैवर्त्तमिति यं प्राहुरार्य्यावर्त्तनिवासिनः
मृतवस्त्रभृत्सु नारीषु गर्हितान्नाशनासु ।भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः
कारावरो निषादात्तु चर्म्मकारः प्रसूयते ।वैदेहकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ
चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान् ।आहिण्डिको निषादेन वैदेह्यामेव जायते
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।पुक्कस्याम् जायते पापः सदा सज्जनगर्हितः
निषादस्त्री तु चण्डालात् पुत्त्रमन्त्यावसायिनम् ।श्मशानगोचरं सूते बाह्यानामपि गर्हितम्
सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्म्मभिः
स्वजातिजानन्तरजाः षट्सु ता द्बिजधर्म्मिणः ।शूद्राणान्तु सधर्म्माणः सर्व्वेऽपध्वंसजाः स्मृताः
तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे ।उत्कर्षञ्चापकर्षञ्च मनुष्येष्विह जन्मतः
शनकैस्तु क्रियालोपादिमाः क्षत्त्रियजातयः ।वृषलत्वं गता लोके ब्राह्मणादर्शनेन
पोण्ड्रकाश्चोड्रद्रविडाः काम्बोजा जवनाः शकाः ।पारदाः पह्रवाश्चीनाः किराताः दरदाः खशाः
मुखबाहूरुपज्जानां या लोके जातयो वहिः ।म्लेच्छवाचश्चार्य्यवाचः सर्व्वे ते दस्यवः स्मृताः
ये द्विजानामपसदा ये चाप्यध्वंसजाः स्मृताः ।ते निन्दितैर्वर्त्तयेयुर्द्विजानामेव कर्म्मभिः
*
सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सितम् ।वैदेहकानां स्त्रीकार्य्यं मागधानां बणिक्पथः
मत्स्यघातो निषादानां तष्टिस्त्वायोगवस्य ।मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम्
क्षत्त्रुग्रपुक्कसानान्तु विलौकोबधबन्धनम् ।धिग्वणानां चर्म्मकार्य्यं वेणानां भाण्डवादनम्
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु ।वसेयुरेते विज्ञाना वर्त्तयन्तः स्वकर्म्मभिः
*
चण्डालश्वपचानान्तु वहिर्ग्रामात् प्रतिश्रयः ।अपपात्राश्च कर्त्तव्या धनमेषां श्वगर्दभम्
वासांसि मृतचेलानि भिन्नभाण्डेषु भीजनम् ।कार्ष्णायसमलङ्कारः परिव्रज्या नित्यशः
तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् ।व्यवहारो मिथस्तेषां विवाहः सदृशैः सह
अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने ।रात्रौ विचरेयुस्ते ग्रामेषु नगरेषु
दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः ।अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।वध्यवासांसि गृह्लीयुः शय्याश्चाभरणानि
वर्णापेतमविज्ञातं नरं कलुषयोनिजम् ।आर्य्यरूपमिवानार्य्यं कर्म्मभिः स्वैर्विभावयेत्
अनार्य्यतानिष्ठुरताक्रूरतानिष्क्रियात्मताः ।पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्
पित्र्यं वा भजते शीलं मातुर्व्वोभयमेव वा ।न कथञ्चनदुर्य्योनिः प्रकृतिं स्वां नियच्छति
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसङ्करः ।संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु
यत्र त्वेतेऽपिविध्वंसा जायन्ते वर्णदूवकाः ।राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।स्त्रीबालाभ्युपपत्तौ बाह्यानां सिद्धिकारणम्
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।एतं सामासिकं धर्म्मं चातुर्व्वर्ण्येऽब्रीन्मनुः
*
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत् प्रजायते ।अश्रेयान् श्रेयसीं जातिं गच्छत्यासप्तमाद्युगात्
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ।क्षत्त्रियाज्जातमेवन्तु विद्याद्वैश्यात्तथैव
अनार्य्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया ।ब्राह्मण्यामप्यनार्य्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत्
जातो नार्य्यामनार्य्यायामार्य्यादार्य्यो भवेद्-गुणैः ।जातोऽप्यनार्य्यादार्य्यायामनार्य्य इति निश्चयः
तावुभावप्यसंस्कार्य्याविति धर्म्मो व्यवस्थितः ।वैगुण्याज्जन्मनः पूर्व्व उत्तरः प्रतिलोमतः
सुबीजञ्चैव सुक्षेत्रे जातं सम्पद्यते यथा ।तथार्य्याज्जात आर्य्यायां सर्व्वं संस्कारमर्हति
बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः ।बीजक्षेत्रे तथैवान्ये तत्रेयन्तु व्यवस्थितिः
अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति ।अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत्
यस्माद्बीजप्रभावेण तिर्य्यग्जा ऋषयोऽभवन् ।पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते
अनार्य्यमार्य्यकर्म्माणमार्य्यञ्चानार्य्यकर्म्मिणम् ।सम्पधार्य्याब्रवीद्धाता समौ नासमाविति
”इति मानवे १० अध्यायौ
*
वर्णसङ्करस्य कारणं दोषाश्च यथा, --“अघर्म्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः
सङ्करो नरकायैव कुलघ्नानां कुलस्य ।पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।उत्साद्यन्ते जातिधर्म्माः कुलधर्म्माश्च शाश्वताः
उच्छन्नकुलधर्म्माणां मनुष्याणां जनार्द्दन ! ।नरके नियतं वासो भवतीत्यनुशुश्रुमः
”इति श्रीभगवद्गीतायाम् अध्यायः