| YouTube Channel

वर्णनीथं (varNanIthaM)

 
शब्दकल्पद्रुमः
Sanskrit
वर्णनीथं, त्रि, (वर्ण + कर्म्मणि अनीयर् ।)वर्ण्यम् वर्णितव्यम् (यथा, साहित्यदर्पणे६ परिच्छेदे ।“वर्णनीया यथायोगं साङ्गोपाङ्गा अमीइह
”)वर्ण्याः पदार्था यथा, --“अथ वर्ण्यानि कथ्यन्ते तानि यानि कवी-श्वरैः ।महाकाव्यप्रभृतिषु प्रबन्धेषु बवन्धिरे
राजा राजबधूपुरोहितकुमारामात्यसेवाधिपाःदेशग्रामपुरीसरोऽब्धिसरिदुद्यानाद्र्यरण्या-श्रमाः ।मन्त्रो दूतरणप्रयाणमृगयाश्वेभर्त्विनेन्दूदयावीहारो विरहः स्वयंवरसुरा पुष्पाम्बुखेलारतम्
”इति कविकल्पलतायाम् स्तवके कुसु-मम्
(स्तवार्हः वर्णधात्वर्थदर्शनात् यथा, भागवते २२ ३७ ।“एतत्ते आदिराजस्य मनोश्चरितमद्भुतम् ।वर्णितं वर्णनीयस्य तदपत्योदयं शृणु
”)