| YouTube Channel

वर्णकः-र्णिका (varNakaH-rNikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वर्ण प्रेरणे”@} 2 ‘मैत्रेय एवमुक्तवान्’ इति मा।
धा।
वृत्तिः।
क्षीरस्वामी तु ‘-- वर्णने’ इत्याह।
सि।
कौमुद्यामपि ‘-- प्रेरणे’ इति पठित्वा, ‘वर्णने इत्येके’ इति दृश्यते।
वर्णकः-र्णिका, विवर्णयिषकः-षिका
वर्णयिता-त्री, विवर्णयिषिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि चौरादिकचूर्णयतिवत् 3 बोध्यानि।
वर्णं गृह्णाति इत्यर्थे वर्णयति-- ‘सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्ण--’ 4 इति णिच्।
प्रासङ्गिक्यः
01
=>
(१५६२)
02
=>
(१०-चुरादिः-१५५१। सक। सेट्। उभ।)
03
=>
(५५९)
04
=>
(३-१-२५)
1 {@“वर्ण वर्णक्रियाविस्तारगुणवचनेषु”@} 2 अदन्तः।
वर्णक्रिया = वर्णनं, वर्णकरणं वा।
कथां वर्णयति, सुवर्णं वर्णयति, विस्तृणाती- त्यर्थः।
विस्तारे--वर्णनेयम्।
गुणवचनं = स्तुतिः, शुक्लाद्युक्तिर्वा।
राजान- मुपवर्णयति।
‘-- रागे विस्तारे प्रशंसायां च’ इति काशकृत्स्नः।
वर्णकः-र्णिका, विवर्णयिषकः-षिका
वर्णयिता-त्री, विवर्णयिषिता-त्री
इत्यादीनि रूपाणि सर्वाणि भेदनार्थकचौरादिककर्णयतिवत् 3 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१५६३)
02
=>
(१०-चुरादिः-१९३८। सक। सेट्। उभ।)
03
=>
(१७०)
1 {@“वृण प्रीणने”@} 2 ‘पृण प्रीणने’ इत्यत्र ‘वृण इति दन्त्योष्ठ्यादिरप्यत्र पठितव्यः।’ इति मा।
धा।
वृत्तिः।
तथा भाष्यम्--‘धात्वन्तरं पृणिवृणी’ इति।
‘धात्वन्तरम् इति।
तौदादिकौ इत्यर्थः’ इति कैयटः।
क्षीरतरङ्गिण्यां नोपात्तः।
वर्णकः-र्णिका, वर्णकः-र्णिका, विवर्णिषकः-षिका, वरीवृणकः-णिका
वर्णिता-त्री, वर्णयिता-त्री, विवर्णिषिता-त्री, वरीवृणिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगर्जतिवत् 3 ऊह्यानि।
कर्मणि क्तः-वर्णितः।
प्रासङ्गिक्यः
01
=>
(१६२८)
02
=>
(६-तुदादिः-१३३०। अक। सेट्। पर।)
03
=>
(४२२)