| YouTube Channel

वर्ज्ज्यः (varjjyaH)

 
शब्दकल्पद्रुमः
Sanskrit
वर्ज्ज्यः त्रि, (वृज् + ण्यत् ।) वर्ज्जनीयः यथा, --“अतः प्ररं शृणुष्व त्वं वर्ज्यावर्ज्यप्रतिक्रियाम् ।भोज्यमन्नं पर्य्युषितं स्नेहाक्तं चिरसंस्थितम्
अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः ।शशकः कच्छपो गोधा सेधा मत्स्योऽथ शल्लकः
भक्ष्या ह्येते सदा वर्ज्ज्यौ ग्रामशूकरकुक्कुटौ ।पितृदेवादिशेषञ्च श्राद्धे ब्राह्मणकाम्यया ।प्रोक्षितञ्चौषधार्थञ्च खादन् मांसंन दोषभाक्
”इति मार्कण्डेयपुराणे सदाचाराध्यायः