| YouTube Channel

वर्ज्जनीयं (varjjanIyaM)

 
शब्दकल्पद्रुमः
Sanskrit
वर्ज्जनीयं, त्रि, (वृज् + अनीयर् ।) वर्ज्जनयोग्यम् ।त्यक्तव्यम् वर्ज्जनीयान्नं यथा, --“राजान्नं नर्त्तकान्नञ्च तक्ष्णोऽन्नञ्चक्रकारिणः ।गणान्न गणिकान्नञ्च षण्डान्नञ्चैव वर्ज्जयेत्
चक्रोपजीविरजकतस्करध्वजिनान्तथा ।गान्धर्व्वलोहकारान्नं सूतकान्नं विवर्ज्जयेत्
कुलालचित्रकर्म्मान्नं वार्द्धुषेः पतितस्य ।पौनर्भवच्छात्रिकयोरभिशस्तस्य चैव हि
सुवर्णकारशैलूषव्याधितस्यातुरस्य ।चिकित्सकस्य चैवान्नं पुंश्चल्या दाण्डिकस्य
स्तेननास्तिकयोरन्नं देवतानिन्द कस्य ।सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः
भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।उत्सृष्टस्य कदर्य्यस्य तथैवोच्छिष्टभोजिनः
अपाङ्क्तान्नञ्च संघान्नं शस्त्राजीवस्य चैव हि ।क्लीवस्यान्त्यासिनश्चान्नं मत्तोन्मत्तस्य चैव हि
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षितम् ।ब्रह्मद्बिषः पापरुचेः श्राद्धान्नं मृतकस्य
वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य ।अप्रजानान्तु नारीणां कृतघ्नस्य तथैव हि
कन्दुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ।शौण्डान्नं घटकान्नञ्च भिषजामन्नमेव
विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव ।पुनर्भुवो विशेषेण तथैव दिधिषूपतेः
अवज्ञातञ्चावधृतं सरोषं विस्मयान्वितम् ।गुरोरपि भोक्तव्यं अन्नं सत्कारवर्ज्जितम्
दुष्कृतं हि मनुष्यस्य सर्व्वमन्नेष्वनुष्ठितम् ।यो यस्यान्नं समश्नाति तस्याश्नाति किल्वि-षम्
”इति श्रीकूर्म्मपुराणे उपविभागे १६ अध्यायः