| YouTube Channel

वर्जिता-त्री (varjitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वृजी वर्जने”@} 2 सूत्रमिदं क्षीरस्वामी दौर्गपाठत्वेन पठति।
“इदित् इति आत्रेयमैत्रेय- दुर्गादयः।
तथा चाधीयते-- ‘चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’ इति।
तथा शाबरभाष्ये ‘प्रवृञ्जनम्’ इति प्रयुज्यते।
तथा स्वामी-- “वृज इति दौर्गाः, तेषां वृक्ते, वर्जिता इति।
शाकटायनस्यापीदित्त्वमेवेष्टम्” इति मा।
धातुवृत्तिरिहानुसन्धेया।
‘वृज गतौ’ इति क्षीरस्वामी 3 पठित्वा वृजी इति दौर्गाः।
वृक्ते वर्जिता इत्याह’ इत्येवमुक्तम्।
यत्त्वत्र पुरुषकारेण ‘क्षीरस्वामिना वृजि इति पठित्वा’ इत्युक्तं तन्नोपलभ्यते क्षीरतरङ्गि- ण्याम्।
काशकृत्स्नोऽपि ‘वृजी--’ इत्येव पपाठ।
‘--त्यागे वृत्तौ च’ इति वोपदेवः।
‘वृणक्ति वर्जने वृङ्क्ते यौ वर्जयति वर्जति।’ 4 इति देवः।
वर्जकः-र्जिका, वर्जकः-र्जिका, विवर्जिषकः-षिका, 5 वरीवृजकः-जिका
वर्जिता-त्री, वर्जयिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री
-- वर्जयन्-न्ती, वर्जयिष्यन्-न्ती-ती
-- -- 6 वर्जमानः, वर्जयमानः, विवर्जिषमाणः, वरीवृज्यमानः
वर्जिष्यमाणः, वर्जयिष्यमाणः, विवर्जिषिष्यमाणः, वरीवृजिष्यमाणः
वृक्-वृग्-वृजौ-वृजः
-- -- -- 7 वृक्तम्-क्तः-क्तवान्, वर्जितम्-तः, विवर्जिषितः, वरीवृजितः-तवान्
वर्जः, वर्जः, प्रवर्जी, विवर्जिषुः, वरीवृजः
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकगर्जतिवत् 8 ज्ञेयानि।
9 वृज्यः, 10 वृजयः, वृजिकः, 11 वर्गः, वर्ग्यः, कवर्गीयः, वासुदेववर्ग्यः-वासुदेव- वर्गीणः, वासुदेववर्गीयः, 12 एकवर्जम्, 13 वृजिनम्, 14 वृजनम् इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१६२३)
02
=>
(२-अदादिः-१०२९। सक। सेट्। आत्म।)
03
=>
(भ्वादौ)
04
=>
(श्लो। ५९)
05
=>
[[५। ऋदुपधस्याङ्गस्य ‘रीगृदुपधस्य च’ (७-४-९०) इति अभ्यासे रीगागमः। एवं यङन्ते सर्वत्र बोध्यम्।]]
06
=>
[पृष्ठम्१२५०+ २८]
07
=>
[[१। निष्ठायाम्, ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति अनिट्त्वम्, ततश्च ‘चोः कुः’ (८-२-३०) इति कुत्वे रूपमेवम्।]]
08
=>
(४२२)
09
=>
[[२। ‘ऋदुपधाच्च--’ (३-१-११०) इति क्यप्प्रत्यये रूपमेवम्।]]
10
=>
[[३। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति इक्। वृजयो जनपदाः।]]
11
=>
[[४। घञि ‘चजोः कु--’ (७-३-५२) इति कुत्वम्।]]
12
=>
[[५। ‘द्वितीयायाञ्च’ (३-४-५३) इति द्वितीयान्त उपपदे परीप्सायां गम्यमानायां णमुल्प्रत्यये रूपमेवम्। परीप्सा = त्वरा। अत्र निदानं तु ‘अनुदात्तं पदमेकवर्जम्’ (६-१-१५८) इति निर्देश एव। परीप्सायामिति नानुवर्ततेऽत्र, इति हरदत्तः।]]
13
=>
[[६। ‘वृजेः किच्च’ (द। उ। ५-५३) इति इनच्प्रत्ययः, किच्च भवति। वृजिनम् = पापम्। कित्त्वान्न गुणः।]]
14
=>
[[७। ‘कॄपॄवृजि--’ (द। उ। ५-२६) इति छन्दसि विषये क्युप्रत्यये अनादेशे रूपमेवम्। वृजनम् = निवारणम्, अन्तरिक्षं च।]]
1 {@“वृजी वर्जने”@} 2 ‘-- त्यागे वृतौ च’ इति वोपदेवः।
‘--त्यागे’ इति काशकृत्स्नोऽपि।
‘वृणक्ति वर्जने वृङ्क्ते यौ वर्जयति वर्जति।’ 3 इति देवः।
‘-- वरणे’ इति धनपालशाकटायनौ।
‘वृजी--’ इति पठित्वा ‘वृची’ वरणे इति दौर्गाः--वर्कः 4’ इति क्षीरतरङ्गिण्यां दृश्यते।
‘वृचि वरणे इति दुर्गादयः पठन्ति’ इति मा।
धा।
वृत्तिः।
काशकृत्स्नधातुपाठे ‘वृची हिंसायाम्’ इति स्वतन्त्रो धातुः दृश्यते।
तत्र रुधादौ इतः पूर्वं ‘वृजी वर्जने’ इति पठितम्।
धातुकाव्यव्याख्याने 5 ‘वृची वरणे इति केचित्’ इत्युक्तम्।
6 वर्जकः-र्जिका, वर्जकः-र्जिका, विवर्जिषकः-षिका, वरीवृजकः-जिका
वर्जिता-त्री, वर्जयिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री
7 वृञ्जन्-ती, वर्जयन्-न्ती, विवर्जिषन्-न्ती
-- इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगर्जतिवत् 8 ज्ञेयानि।
9 वृक्तः, 10 11 प्रवर्ग्यम्, 12 वर्जित्वा, 13 वृजिनम्, वर्णः, 14 इत्यादिकानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६२४)
02
=>
(७-रुधादिः-१४६१। सक। सेट्। पर।)
03
=>
(श्लो। ५९)
04
=>
(अदादौ वृक्ते)
05
=>
(३। ३)
06
=>
[पृष्ठम्१२५१+ २७]
07
=>
[[१। शतरि, विकरणप्रत्ययस्य शपः ‘रुधादिभ्यः श्नम्’ (१-३-७८) इति श्नमि ‘श्नस्रोर- ल्लोपः’ (६-४-१११) इत्यकारलोपे, अनुस्वारपरसवर्णयोः कृतयोः णत्वे रूपमेवम्।]]
08
=>
(४२२)
09
=>
[[२। ईदित्त्वात् ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति निष्ठायामिडागमनिषेधः।]]
10
=>
[[आ। ‘संतक्तनद्धवसनाः परिवेगवृक्ताः…।।’ धा। का। ३-३]]
11
=>
[[३। ण्यति, ‘चजोः कु धिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
12
=>
[[४। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
13
=>
[[५। ‘वृजेः किच्च’ (द। उ। ५-१३) इति इनच्प्रत्ययः किच्च भवति। कित्त्वान्न गुणः। वृज्यते वृणक्ति वा वृजिनम् = पापम्।]]
14
=>
[[६। वृणोति व्रियते वाऽसौ इति वर्णः = श्वेतादिगुणसंज्ञा, ब्राह्मणादीनां वा। औणादिके (द। उ। ८-४६) नन्प्रत्यये णत्वे रूपम्।]]
1 {@“वृजी वर्जने”@} 2 आधृषीयः।
तेन णिज्विकल्पः।
‘-- त्यागे’ इति काशकृत्स्नवोपदेवौ।
वर्जकः-र्जिका, विवर्जयिषकः-षिका
वर्जकः-र्जिका, विवर्जिषकः-षिका, वरीवृजकः-जिका
वर्जयिता-त्री, विवर्जयिषिता-त्री, वर्जिता-त्री, विवर्जिषिता-त्री, वरीवृजिता-त्री
इत्यादिकानि रूपाणि ण्यन्ते।
ण्यन्तप्रकृतिकसन्नन्ते तु चौरादिकछर्दयतिवत् 3 ज्ञेयानि।
शुद्ध-तत्प्रकृतिकसन्नन्ते यङन्ते सर्वाणि रूपाणि भौवादिक- गर्जतिवत् 4 बोध्यानि।
5 अपवृक्तः।
प्रासङ्गिक्यः
01
=>
(१६२५)
02
=>
(१०-चुरादिः-१८१३। सक। सेट्। उभ।)
03
=>
(५७४)
04
=>
(४२२)
05
=>
[[B। ‘… स्थैर्यं सुदूरमपवृक्तवृतिप्रभावः।।’ धा। का। ३-४८]]