| YouTube Channel

वर्चिता-त्री (varcitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वर्च दीप्तौ”@} 2 वर्चकः-र्चिका, वर्चकः-र्चिका, विवर्चिषकः-षिका, वावर्चकः-र्चिका
वर्चिता-त्री, वर्चयिता-त्री, विवर्चिषिता-त्री, वावर्चिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकचर्चतिवत् 3 ऊह्यानि।
अस्य धातोः आत्मनेपदित्वात् शानचि- 4 वर्चमानः, क्विपि- 5 अवावर्क-वर्चौ-वर्चः, सुवर्ची, सुवर्चिका, सुवर्चला, वर्चस्कम्, ब्रह्मवर्चसम्-हस्तिवर्चसम्, ण्यति- 6 वर्च्यम्, 7 वर्चा, 8 असुन्प्रत्यये रूपमेवम्।
वर्चः = आशुतेजसी इत्यर्थः।]] वर्चः इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्तीति बोध्यम्।
9
प्रासङ्गिक्यः
01
=>
(१५६१)
02
=>
(१-भ्वादिः-१६२। अक। सेट्। आत्म।)
03
=>
(५०५)
04
=>
[[आ। ‘सुमङ्घिताः शिङ्घितपुष्पसौरभा यद्वर्चमानाः पशुपाः प्रसेचिरे।।’ धा। का। १। २२।]]
05
=>
[[७। ‘रात् सस्य’ (८-२-२४) इति नियमात् संयोगान्तलोपः।]]
06
=>
[[८। ण्यति ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वं भवति। ‘न क्वादेः’ (७-३-५९) इत्यत्र ‘क्वाद्यजिव्रजियाचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्व- वचनात्’ इति वार्तिकम्। ये क्वादयोऽन्ये वा निष्ठायामनिटस्तेषां कुत्वम्, ये तु सेटस्तेषां नेति संग्रहार्थः। तेनात्र कुत्वं नेति ज्ञेयम्।]]
07
=>
[[९। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः। क्तिनोऽपवादः।]]
08
=>
[[१०। औणादिके [द। उ। ९-४९]
09
=>
[पृष्ठम्१२०४+ २७]