वर्च (varca)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुपाठः (Krishnacharya)
Sanskrit वर्च्
वर्च
दीप्तौ
भ्वादिः
अकर्मकः
सेट्
आत्मनेपदी
वर्चते
धातुप्रदीपः
Sanskritवर्चँ वर्च दीप्तौ
- वर्चते । वर्चः । ब्रह्मवर्चसम् । राजवर्चसम् ।। 160 ।।
शब्दकल्पद्रुमः
Sanskritवर्च्चः, [स्] (वर्च्चते इति । वर्च्च + “सर्व्व-धातुभ्योऽसुन् ।” उणा० ४ । १८८ । इतिअसुन् ।) रूपम् । विष्ठा । (यथा, सुश्रुतेउत्तरतन्त्रे ४० अध्याये ।“शूलाविष्टः सक्तमूत्रोऽन्त्रकूजीस्त्रस्तापानः सन्नकट्यूरुजङ्घः ।वर्च्चो मुञ्चत्यल्पमल्पं सफेनंरुक्षं श्यावं सानिलं मारुतेन ॥
”)तेजः । इति मेदिनी । से, ३५ ॥
(यथा, ऋग्-वेदे । ९ । ६६ । २१ ।“अग्ने पवस्व स्वपा अस्मे वर्च्चः सुवीर्य्यम् ॥
”“वर्च्चः तेजः ।” इति तद्भाष्ये सायणः ॥
अन्नम् ।यथा तत्रैव । ३ । २४ । १ ।“अग्ने सहस्व पृतना अभिमातीरपास्य ।दुष्टरस्तरन्नरातीर्वर्च्चोधायज्ञ वाहसे ॥
”“वर्च्चोधाः अन्नं धेहि ।” इति तद्भाष्येरायणः ॥
)
क्षीरतरङ्गिणी
Sanskritवर्चँ वर्च दीप्तौ
इत ईजान्ता (1110) विंशतिः, सेटः आत्मनेपदिनश्च वचते, वर्चिता सुवर्चिका टङ्कनम्, सुर्वचला शाकम् असुन् (द0उ0949) वर्चः - अशुचितेजसी 162
धातुवृत्तिः
Sanskritवर्चँ वर्च (अर्थः) दीप्तौ
एतदादय ईजन्ता उदात्ता अनुदात्तेतः ( वर्चते ववर्चे वर्चिता वर्चिष्यते वर्चताम् अवर्चत वर्चेत ) आशिषि ( वर्चिषीष्ट अवर्चिष्ट अवर्चिष्यत भावे वर्च्यते ) इत्यादि (विवर्चिषते वावर्च्यते वावर्क्षीति वावर्क्ति अवावर्चीत् अवावर्क् ) "रात्सस्य'' इति नियमान्न संयोगान्तलोपः अवावर्क् स्थातेत्यादौ कुत्वस्यासिद्धत्वास्कोः इति कलोपो न भवति, यद्वा तत्र निमित्तनिमित्तिनोः समानपदस्थत्व एव सलोप इतीह नैव प्रसङ्गः ( वर्चयति अवर्चत् ) वर्चः दीप्तिः पुरीषं च "असुन्'' इत्यसुन् वर्चस्कः पुरीषम् संज्ञायां कन्, "सोपदादौ'' इति विसर्जनीयस्य सत्वं, "कुप्वोः'' इत्यस्यापवादः ब्रह्मवर्चसम् हस्तिवर्चसम् "ब्रह्महस्तिभ्यां वर्चसः'' इत्यच् समासान्तः ( पल्यवर्चसम् राजवर्चसम् ) [ पल्यराजभ्याञ्च ] इत्यच् ब्रह्मवर्चसनिमित्तं संयोग उत्पातो वा ब्रह्मवर्चस्यम् [ तस्य निमित्तप्रकरणे ब्रह्मवर्चसादुपसङ्ख्यानम् ] इति यत् वर्च्यम् ण्यति "चजोः कुघिण्ण्यतोः'' इति कुत्वं न भवति "न क्वादेः'' इत्यत्र क्काद्व्यजिव्रजियाचिरुच्यादीनां न प्रतिषेधो निष्ठायामनिटः कुत्ववचनात् ] अस्यार्थः चजोः कुघिण्ण्यतोर्निष्ठायामनिटः'इति सूत्रं कर्त्तव्यं, तेन "न क्वादेः'' "अजिव्रज्योश्च'' इति योगद्वयं "यजयाचरुचप्रवचर्चश्च'' इत्यत्र याचिरुच्यृचिग्रहणं न कर्त्तव्यं भवतीति तेषां सेट्त्वादित्यभिप्रायः अयमत्र विवेकः ये क्वादयोऽन्ये वा निष्ठायामनिटस्तेषां कुत्वं ये तु सेटस्तेषां नेति एवञ्चात्र मते ग्लुचादीनां कवर्गादित्वेपि निष्ठायामनिट्त्वात्कुत्वेन भाव्यम् अत्र हरदत्तः [ यथोत्तरं मुनीनां प्रामाण्यम् ]इति वार्त्तिककारानुसारेण कुत्वस्य भावाभावौ व्यवस्थाप्याविति कथन्तर्हि शोकः समङ्ग इति यतः शुच्युञ्जी निष्ठायां सेटौ अत्र भाष्यं, [ शुच्युज्योर्घञि कुत्वं वक्तव्यम् ] इति अत्र हरदत्तः तच्च यथान्योसेपिवक्तव्यं घञ्येव यथा स्याद्ण्यति माभूदिति, तदेव वार्त्तिककारपक्षे विध्यर्थं भविष्यतीति 160
कृदन्तरूपमाला
Sanskrit1 {@“वर्च दीप्तौ”@} 2 वर्चकः-र्चिका, वर्चकः-र्चिका, विवर्चिषकः-षिका, वावर्चकः-र्चिका
वर्चिता-त्री, वर्चयिता-त्री, विवर्चिषिता-त्री, वावर्चिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकचर्चतिवत् 3 ऊह्यानि।
अस्य धातोः आत्मनेपदित्वात् शानचि- 4 वर्चमानः, क्विपि- 5 अवावर्क-वर्चौ-वर्चः, सुवर्ची, सुवर्चिका, सुवर्चला, वर्चस्कम्, ब्रह्मवर्चसम्-हस्तिवर्चसम्, ण्यति- 6 वर्च्यम्, 7 वर्चा, 8 असुन्प्रत्यये रूपमेवम्।
वर्चः = आशुतेजसी इत्यर्थः।]] वर्चः इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्तीति बोध्यम्।
9
01 (१५६१)
02 (१-भ्वादिः-१६२। अक। सेट्। आत्म।)
03 (५०५)
04 [[आ। ‘सुमङ्घिताः शिङ्घितपुष्पसौरभा यद्वर्चमानाः पशुपाः प्रसेचिरे।।’ धा। का। १। २२।]]
05 [[७। ‘रात् सस्य’ (८-२-२४) इति नियमात् न संयोगान्तलोपः।]]
06 [[८। ण्यति ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वं न भवति। ‘न क्वादेः’ (७-३-५९) इत्यत्र ‘क्वाद्यजिव्रजियाचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्व- वचनात्’ इति वार्तिकम्। ये क्वादयोऽन्ये वा निष्ठायामनिटस्तेषां कुत्वम्, ये तु सेटस्तेषां नेति संग्रहार्थः। तेनात्र कुत्वं नेति ज्ञेयम्।]]
07 [[९। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः। क्तिनोऽपवादः।]]
08 [[१०। औणादिके [द। उ। ९-४९]
09 [पृष्ठम्१२०४+ २७]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
