| YouTube Channel

वर्गोत्तमः (vargottamaH)

 
शब्दकल्पद्रुमः
Sanskrit
वर्गोत्तमः,
पुं,
(वर्गेषु उत्तमः ।) चराणां अर्थात्मेषकर्क्कटतुलामकरराशीनां प्रथमोऽंशः ।स्थिराणां अर्थाद्वृषसिंहवृश्चिककुम्भराशीनांपञ्चमोऽंशः द्व्यात्मकानां अर्थात् मिथुनकन्या-धनुर्मीनराशीनां नवमोऽंशश्च यथा, --“चराणां प्रथमे चांशे स्थिराणां पञ्चमे तथा ।नवमे द्व्यात्मकानाञ्च वर्गोत्तम इति स्मृतः
”अपि राशीनां स्वकीयनवांशः यथा, --“स्वनवांशस्तु राशीनां वर्गोत्तम इति स्मृतः
”इति ज्योतिस्तत्त्वम्