| YouTube Channel

वरीवृधिता-त्री (varIvRdhitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वृधु वृद्धौ”@} 2 ‘तदेव रूपं भाषार्थे वृधेर्वृद्धौ तु वर्धते।’ 3 इति देवः।
वर्धकः-र्धिका, वर्धकः-र्धिका, विवर्धिषकः-षिका, विवृत्सकः-त्सिका, वरीवृधकः- धिका
वर्धिता-त्री, वर्धयिता-त्री, विवर्धिषिता-विवर्त्सिता-त्री, वरीवृधिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकवृतु 4 धातुवत् ऊह्यानि।
5 वर्द्धनः, 6 वर्धिष्णुः, वृद्धः, वर्षिष्ठः, वर्षीयान्, 7 वृद्धिः, वार्धुषिकः, 8 वर्धमानः, 9 10 इत्यसानच्- प्रत्ययः।
प्रत्ययस्य कित्त्वान्न गुणः।]] वृधसानः, 11 इति रन्प्रत्ययः।]] वर्ध्रम् इत्यादिकानि रूपाण्यस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१६३२)
02
=>
(१-भ्वादिः-७५९। सक। सेट्। आत्म।)
03
=>
(श्लो। १२४)
04
=>
(१६२९)
05
=>
[[१। ‘नन्दिग्रहिपचादिभ्यः--’ (३-१-१३४) इति नन्द्यादित्वात् संज्ञायां कर्तरि ल्युः। एवम् आनन्दवर्धनः इत्यत्रापि कर्मण्यणं बाधित्वा ल्युरेव।]]
06
=>
[[२। तच्छीलादिषु कर्तृषु ‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधु--’ (३-२-१३६) इति इष्णुच्प्रत्ययः।]]
07
=>
[[३। वृद्धिनिमित्तं द्रव्यम् वृद्धिः तादर्थ्यात् ताच्छब्द्यम्। ‘क्तिच्क्तौ च--’ (३-३-७४) इति संज्ञायां क्तिच्। यद्वा क्तिन्। ‘वृद्धिरादैच्’ (१-१-१) इत्यत्र वृद्धिशब्दस्तु संज्ञात्वेऽपि क्तिन्नन्त एव, क्तिजन्त इति पस्पशायां भाष्ये प्रतिपादितत्वात् स्पष्टम्।]]
08
=>
[[४। ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इत्यादिना यथासम्भवमर्थत्रयेऽपि चानश्प्रत्ययः। वर्धमानः त्रिविक्रमः। ‘रूढिशब्दप्रकाराः ताच्छीलिकाः’ (भाष्यम् ३-२-५६) इति वचनात् रूढोऽयम्।]]
09
=>
[पृष्ठम्१२५९+ २५]
10
=>
[[१। वर्धते इति वृधसानः गर्भः। ‘ऋजिवृधि--’ [द। उ। ५-३०]
11
=>
[[२। वर्धतेऽम्भसा स्पृष्टम् इति वर्ध्रम् चर्मच्छेदः। ‘वृधिवपिभ्यां रन्’ [द। उ। ८-४५]
1 {@“वृधु भाषार्थः”@} 2 आस्वदीयः।
‘छेदने पूरणे चार्थे वर्धेर्वर्धयतीति णौ।।
3 इति देवः।
वर्धकः-र्धिका, विवर्धयिषकः-षिका, वर्धकः-र्धिका, विवर्धिषकः-षिका, वरीवृधकः- धिका
वर्धयिता-त्री, विवर्धयिषिता-त्री, वर्धिता-त्री, विवर्धिषिता-त्री, वरीवृधिता-त्री
इत्यादिकानि रूपाणि सर्वाणि चौरादिकजासयतिवत् 4 ज्ञेयानि।
णिजभावपक्षे यङन्ते सर्वत्र अभ्यासस्य रीगागमो भवतीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६३३)
02
=>
(१०-चुरादिः-१७८३। अक। सेट्। उभ।)
03
=>
(श्लो। १२३)
04
=>
(५९६)