| YouTube Channel

वरीवृक्षकः-क्षिका (varIvRkSakaH-kSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वृक्ष वरणे”@} 2 ‘स्पर्श स्नेहने’ इति ‘कातन्त्रपाठः, चान्द्रपाठश्च।
वरणे--आवरणे इति काशकृत्स्नः।
वृक्षकः-क्षिका, वृक्षकः-क्षिका, विवृक्षिषकः-षिका, वरीवृक्षकः-क्षिका
वृक्षिता-त्री, वृक्षयिता-त्री, विवृक्षिषिता-त्री, वरीवृक्षिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकतृक्षतिवत् 3 बोध्यानि।
ल्यपि 4 संवृक्ष्य, शानचि वृक्षमाणः।
इति विशेषः।
5 वृक्षः, इगुपधलक्षणकप्रत्यये रूपम्।
प्रासङ्गिक्यः
01
=>
(१६२१)
02
=>
(१-भ्वादिः-६०४। सक। सेट्। आत्म।)
03
=>
(७६५)
04
=>
[[आ। ‘संवृक्ष्य वेदमतशिक्षकभिक्षुगम्यम्…।’ धा। का। १-१७]]
05
=>
[[४। ‘किंस्विद् वनं वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः।’ (यजुः १-७-२०)]]