| YouTube Channel

वरणा (varaNA)

 
Monier Williams Cologne
English
वरणा
f.
N.
of a small river (running past the north of Benares into the Ganges and now called Barnā),
Up.
Pur.
पुराणम्
English
वरणा / VARAṆĀ. A river famous in the Purāṇas. It is mentioned in vāmana purāṇa that the river varaṇā which flowed from the right leg and the river Asī, which started from the left leg of Bhagavān, who lies in contemplation at prayāga, are two holy rivers. (See under vārāṇasī).
शब्दकल्पद्रुमः
Sanskrit
वरणा,
स्त्री,
(वरण + टाप् ।) नदीविशेषः ।इति शब्दरत्नावली
सा तु वाराणस्युत्तर-सीमा तस्या उत्पत्तिर्यथा, --हरिरुवाच ।“महेश्वर शृणुष्वेमां मम वाचं कलस्वनाम् ।ब्रह्महत्याक्षयकरीं शुभदां पुण्यवर्द्धिनीम्
योऽसौ प्राङ्मण्डले पुण्ये मदंशप्रभवोऽव्ययः ।प्रयागे वसते नित्यं योगशायी तु विश्रुतः
चरणाद्दक्षिणात्तस्य विनिर्याता सरिद्वरा ।विश्रुता वरणेत्येवं सर्व्वपापहरा शुभा
सव्यादन्या द्वितीया असिरित्येव विश्रुता ।ते उभे सरिच्छ्रेष्ठे लोकपूज्ये बभूवतुः
ताभ्यां मध्ये तु यो देशस्तत् क्षेत्रं योगशायिनः ।त्रैलोक्यप्रभवं तीर्थं सर्व्वपापप्रमोचनम्
तादृशोऽस्ति गगने भूम्यां रसातले ।तत्रास्ति नगरी पुण्या ख्याता वाराणसी शुभा ।यस्यान्तु भोगिनो नाशं प्रयान्ति भवतो लयम्
”इति वामने अध्यायः