| YouTube Channel

वरणं (varaNaM)

 
Apte 1890
English
वरणं [वृ-ल्युट् ल्यु वा] 1 Choosing, selecting.
2 Begging, soliciting, requesting.
3 Surrounding, encircling.
4 Covering, screening, protecting.
5 The choice of a bride.
6 Worshipping (of priests &c.).
7 Keeping off, prohibiting, warding.
णः 1 A rampart, surrounding wall.
2 A bridge.
3 The tree called Varuṇa.
4 A tree in general
इह सिंधवश्च वरणावरणाः करिणां मुदे सनलदानलदाः Ki. 5. 25.
5 A camel.
6 A kind of ornament on a bow
7 N. of Indra.
Comp.
माला,
स्रज् see वरस्रज्.
शब्दकल्पद्रुमः
Sanskrit
वरणं,
क्ली,
(वृ + भावे ल्युट् ।) कन्यादिवरणम् ।(यथा, महाभारते १९० ।“न विप्रेष्वधीकारो विद्यते वरणं प्रति ।स्वयंवरः क्षत्त्रियाणामितीयं प्रथिता श्रुतिः
”)वेष्टनम् इति मेदिनी णे, ६५
पूजनादि इतिशब्दरत्नावली
*
अथ वरणविधिः तेषा-माचार्य्यादीनां होमसाध्ये कर्म्मणि होमा-रम्भात् पूर्व्वमानत्यर्थं यजमानेन स्वयं वरणंकार्य्यम् दानवाचनान्वारम्भवरणव्रतप्रमाणेषुयजमानं प्रतीयात् इति हरिशर्म्मधृतकात्या-यनसूत्रात् तत्र ब्रह्मवरणं प्रथमतः ज्योति-ष्टोमे ब्रह्मोद्गातृहोत्रध्वर्य्य्वित्यादिक्रमदर्शने-नान्यत्राकाङ्क्षया दृष्टपरिकल्पनाया न्याय्य-त्वात् सुगतिसोपानप्रभृतयोऽप्येवम् वरणन्तु ।गन्धादिदानद्बारा प्रीतिमुत्पाद्य कर्म्मकरणाय-प्रेरणम् तत्र सर्व्वत्र प्राङ्मुखो दातग्रहीता उदङ्मुखः इति वचनात् यज-मानस्य प्राङ्मुखत्वं आचार्य्यादीनामुदङमुखत्वंप्रतीयते वरणविधिमाह कात्यायनः आसन-माहार्य्य आह साधु भवानास्तामर्च्चयिष्यामोभवन्तमिति आसनमाहार्य्यानीय संस्थाप्याहसाधु भवानास्तामिति साध्वहसासे इतिप्रतिवचनम् अर्च्चयिष्यामो मवन्तमिति पुन-रुक्ते अर्च्चय इति प्रतिवचनं सामर्थ्यात् ।इति हरिशर्म्मा इति संस्कारतत्त्वम्
*
मेदिनीमते पवर्गीयबकारादिशब्दोऽयम् किन्तुअन्तः स्थवकरादिवृधातोरनट्प्रत्ययेन निष्पन्न-त्वादत्र लिखितः