वय (vaya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishवयः [vayḥ], A weaver.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams 1872
EnglishHindi
Hindiउम्र
धातुपाठः (Krishnacharya)
Sanskrit वय्
वय
गतौ
भ्वादिः
सकर्मकः
सेट्
आत्मनेपदी
वयते
Abhyankara Grammar
Englishवय tad. affix वय applied to the word दु in the sense of मान (a peculiar product): e.g. द्रुवयम्
cf. माने वय: P. IV. 3.162.
शब्दकल्पद्रुमः
Sanskritवयं, त्रि, अस्मदादिः । आमरा इति भाषा ।अस्मच्छब्दस्य वयादेशे जसि रूपोऽयम् । इतिव्याकरणम् ॥
(यथा, --“एको भवामि स्म भवेऽहमादौदारैरथोभौ स्म भवाव आवाम् ।वयं भवामो बहवः स्म पुत्त्रै-स्त्वन्माययाद्यापि विभो प्रसीद ॥
”इति मुग्धबोधव्याकरणम् ॥
)
वयः, [स्] (वयते वेति अजतीति वा । वयङ गतो वीगतौ अजगतौ वा + असुन् । अजते-र्वीभावः ।) पक्षी । (यथा, विष्णुपुराणे । १ ।५ । ४६ ।“ततः स्वच्छन्दतोऽन्यानि वयांसि वयसो-ऽसृजत् ॥
”)वाल्यादिः । इत्यमरः । ३ । ३ । २२९ ॥
(यथा, महामारते । ३ । ६८ । २३ ।“तुल्यर्शीलवयोयुक्तां तुल्याभिजनसंयुताम् ।नैषधोऽर्हति वैदभीं तञ्चेयमसितेक्षणा ॥
”अन्नम् । इति निघण्टुः । २ । ७ ॥
यथा, ऋग्-वेदे । २ । २० । १ ।“वयं ते वय इन्द्र विद्धि षुणः प्रभरामहे वाजयु-र्नरथम् ॥
”)यौवनम् । इति मेदिनी । से, ३५ ॥
* ॥
वयो-विशेषे कर्त्तव्यानि यथा, --“शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥
”इति रघुवंशे १ सर्गः ॥
* ॥
अपि च ।“प्रथमेनार्ज्जिता विद्या द्वितीये नार्ज्जितं धनम् ।तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥
”इति चाणक्यशतकम् ॥
वयोविशेषाणां नियमा यथा, --“कौमारं पञ्चमाब्दान्तं पौगण्ड्यं दशमावधि ।कैशोरमापञ्चदशात् यौवनञ्च ततः परम् ॥
”इति प्रायश्चित्ततत्त्वधृतवचनम् ॥
* ॥
अपि च ।“आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते ।वृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥
”इति भरतधृता स्मृतिः ॥
* ॥
अन्यच्च ।“बाल्यं वृद्धिर्वयो रूपं चक्षुस्त्वक् श्रोत्ररेतसी ।दशकेन निवर्त्तन्ते मनः सर्व्वन्द्रियाणि च ॥
”इति महाभारतम् ॥
* ॥
(“कालप्रमाणविशेषापेक्षिणी हि शरीरावस्थावयोऽमिधीयते । तद्वयो यथा स्थूलभेदेनत्रिविधम् । बालं मध्यं जीर्णमिति । तत्र वाल-मपरिपक्वधातुगुणमजातव्यञ्जनं सुकुमाराक्लेश-सहमसम्पूर्णबलं श्लेष्मधातुप्रायं आषोडशवर्षम् ।-विवर्द्धमानधातुमुणं पुनः प्रायेणानवस्थितसत्त्व-मात्रिंशद्वर्षमुपदिष्टम् । मध्यं पुनः समर्थागत-बलवीर्य्यपौरुषपराक्रमग्रहणस्मरणवचनविज्ञान-सर्व्वधातुगुणं पित्तधातुप्रायमाषष्टिवर्षमुद्दिष्टम् ।अतःपरं परिहीयमानधात्विन्द्रियबलपौरुषपरा-क्रमग्रहणधारणस्मरणवचनविज्ञानं भ्रश्यमान-धातुगुणं वातधातुप्रायं क्रमेण प्रजीर्णमुच्यते आ-वर्षशतम् ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥
“वयस्तु त्रिविधं बालं मध्यं वृद्धमिति । तत्रोन-षोडशवर्षा बालास्तेपि त्रिविधाः क्षीरपाःक्षीरान्नादा अन्नादा इति । तेषु संवत्सरपराःक्षीरपा द्बिसंवत्सरपराः क्षीरान्नादाः परतो-ऽन्नादा इति ॥
षोडशसप्तत्योरन्तरे मध्यं वय-स्तस्य विकल्पो वृद्धिर्यौवनं सम्पूर्णता हानि-रिति । तत्राविंशतेर्वृद्धिरात्रिंशतो यौवनमा-चत्वारिंशतः सर्व्वधात्विन्द्रियबलवीर्य्यसम्पूर्णता ।अत ऊर्द्ध्वमीषत्परिहाणिर्यावत् सप्ततिरिति ॥
सप्ततेरूर्द्ध्वं क्षीयमाणधात्विन्द्रियबलवीर्य्योत्साह-महन्यहनिवलीपलितखालित्यजुष्टं कासश्वास-प्रभृतिभिरुपद्रवैरभिभूयमानं सर्व्वक्रियास्वसमर्थंजीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ॥
तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषज-मात्राविशेषा भवन्त्यृते च परिहाणे स्तत्राद्यापेक्षया प्रतिकुर्व्वीत । भवन्ति चात्र ।वाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु ।भूयिष्ठं वर्द्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ॥
अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्ज्जयेत् ।तत्साध्येषु विकारेषु मृद्बीं कुर्य्यात् क्रियांशनैः ॥
”इति सुश्रुते सूत्रस्थाने ३५ अध्यायः ॥
कृदन्तरूपमाला
Sanskrit1 {@“वय गतौ”@} 2 वायकः-यिका, वायकः-यिका, विवयिषकः-षिका, वावयकः-यिका
वयिता-त्री, वाययिता-त्री, विवयिषिता-त्री, वावयिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकचयतिवत् 3 बोध्यानि।
शानचि- 4 वयमानः, 5 वयनः, 6 वयटः, 7 इति असच्प्रत्यये णित्संज्ञके च रूपमेवम्।
णित्त्वात् उपधावृद्धिः।
वायसः = काकः।]] वायसः, 8 असुन्प्रत्यये रूपमेवम्।
वयते गच्छति तदाशु इति वयः = शरीरावस्था।
पक्षी इति केचित्।]] वयः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
वयी = स्त्री, वायिः = सगोत्रः, वायः = व्यर्थः, वायम् = मुखम्।
01 (१५५९)
02 (१-भ्वादिः-४७५। सक। सेट्। आत्म।)
03 (५०२)
04 [पृष्ठम्१२०३+ २९]
05 [[१। तच्छीलादिषु कर्तृषु ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युच्प्रत्ययः।]]
06 [[२। ‘शकादिभ्योऽटन्’ (द। उ। ५-२) इत्यटन्प्रत्यये रूपमेवम्। वयटः = रसः।]]
07 [[३। ‘वयो णित्’ [द। उ। ९-४६]
08 [[४। औणादिके [द। उ। ९-४९]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
