| YouTube Channel

वमिः (vamiH)

 
Apte
English
वमिः [vamiḥ], [वम्-इन्]
Fire.
A cheat, rogue. -मिः
f.
Sickness, nausea.
An emetic.
Apte Hindi
Hindi
वमिः
पुं*
- वम् + इन्
आग
वमिः
पुं*
- -
"ठग, बदमाश"
वमिः
स्त्री*
- -
"बीमारी, जी मिचलाना"
वमिः
स्त्री*
- -
उलटी लाने वाली ( औषधि)
Wordnet
Sanskrit
Synonyms:
कपटिकः, कूटछद्मा, खर्परः, डिङ्गर, धवः, धूर्तकः, वमिः, शरण्डः, हरकः
noun
यः अतीव धूर्तः अस्ति।
"कपटिकात् दूरमेव वरम्।"
शब्दकल्पद्रुमः
Sanskrit
वमिः,
स्त्री,
(वमनमिति वम् + सर्व्वधातुभ्य इन् ।उणा० ११७ ।) प्रच्छर्द्दिका इत्यमरः ।२ ५५
(अस्याः ससम्प्राप्तिलक्षणचिकित्सितंपथ्यापथ्यञ्च यथा, --“आमजे शूलरोगार्त्तिः पर्व्वभेदो भ्रमः क्लमः ।शोषः शिरोव्यथा क्लेदो नेत्रे गम्भीरमिच्छति
खल्ली वा चेतनं वापि अजीर्णाज्जायते वमिः ।गर्म्भीरनेत्रो वमते विड्बन्धो वातिसार्य्यते
गात्रे खल्ली करं शूलं तथा शोथोऽतिमूर्च्छना ।विकलाङ्गो भ्रमार्त्तश्च भ्रमत्तदीक्षते जगत्
शिरोर्त्तिर्वेपतेऽत्यर्थं करपादौ हिमोपमौ ।एतैर्लिङ्गैस्तु संयुक्तां छर्द्दिं दूरे परित्यजेत्
”चिकित्सा ।“स पञ्चमूलीक्वथितः कषायःससैन्धवञ्चामलकञ्च कल्कः ।क्वाथं पिबेन्मिश्रितपिप्पलीकंस वातच्छर्दिर्व्विनिवारणञ्च
”“आमलक्या रसेनाथ घृष्टं चन्दनकं मधु ।गुटिकामलमानेन लेहो हन्ति वमिं ध्रुवम्
चित्रककटुकरजनीद्वयञ्च फलत्रिकं मधुना चयावशूकञ्च ।समकृतमिति चृर्णमेतन्मधुना युतं वमिं निवा-रयति
”“काकोली काकमाची क्वाथं शर्करया युतम् ।लाजाशर्करसंयुक्तं हन्ति पित्तवमिं नृणाम्
मातुलुङ्गरसश्चैव पथ्याशर्करया युतः ।हन्ति कासं पित्तभवं वमिं शीघ्रं नियच्छति
दृष्ट्वा पित्तवमिं घोरां सदाहभ्रमदायिनीम् ।तत्रारग्वधपत्राणि मधुशर्करयान्वितम्
क्षीरपानं प्रशस्तं वा मुस्ताशर्करयान्वितम् ।”“जम्ब्वाम्लयोः प्रवालानि दाडिमामलकन्तथा ।मस्तुनोपोषितं पानं हन्याच्छ्ले प्मवमिं नृणाम्
सर्ज्जार्ज्जुनं धवकदम्बककोलचूर्णंशुण्ठ्या धान्यसहितं सगुडं प्रदद्यात् ।श्लेष्मोद्भवं वमनमाशु निहन्ति पुंसांशुण्ठीकणा मधुविडङ्गयुतोऽपि लेहः
”“ऊर्द्ध्वगागगते दोषे विरेको हि प्रशस्यते ।तस्मिन् जातेऽप्यधोभागं वमनं शाम्यति ध्रुवम्
अथ द्बिभागमाप्तञ्चेत्तदा देयाभया मधु ।क्रिमिजं वमनं ज्ञात्वा क्रिमीणां शमनक्रिया
चोष्णं नातिचाम्लञ्च तीक्ष्णं तथा लघु ।तण्डुलीयकशाकं वा मद्यं काञ्जिकं तु
वमिदोषे कथितं पथ्यञ्चात्र शृणुष्व भे ।आनूपं शालिभक्तञ्च शतपुष्पा वास्तुकम्
आढकी मुद्गयूषञ्च दधि सर्पिर्गुडान्वितम् ।अङ्गारमण्डका चाथ वमौ पथ्यं प्रशस्यते
यथाबलं यथाकालं यथारोगं यथानलम् ।तथा दृष्ट्वा प्रकुर्व्वन्ति पथ्यानां समुपक्रमम्
दिवानिद्रां प्रयुञ्जीत वमौ श्वासेऽतिसारके ।हिक्काशोषे तथा जीर्णे वमिक्लेदेऽथवा पुनः
चोष्णतोयपानञ्च नातिभोजनमेव ।नधावनञ्च कर्त्तव्यं वर्ज्जयेद्वमनार्द्दिते
”इति वैद्यके
)अथ छर्द्द्यधिकारः तत्र छर्द्दिविप्रकृष्टसन्नि-कृष्टनिदानं पूर्व्वरूपं संप्राप्तिञ्चाह ।“अतिद्रवैरतिस्निग्धैरहृद्यैर्लवणैरपि ।अकाले चातिमात्रैश्च तथा सात्म्यैश्च भोजनैः
आमाद्भयात्तथोद्वेगादजीर्णात् कृमिदोषतः ।नार्य्याश्चापन्नसत्त्वायास्तथातिद्रुतमश्नतः
दुष्टैर्दोषैः पृथक् सर्व्वैर्वीभत्सालोकनादिभिः ।वीभत्सैर्हेतुभिश्चान्यैर्मुक्तमुत्क्लिश्यते बलात्
”आमात् असम्यक् पक्वाद्रसात् अजीर्णात् यथा-स्थिताद्भ, क्तात् आपन्नसत्त्वायाः प्राप्तगर्भायाः ।अन्यैर्वीभत्सैर्विकृतैर्हेतुभिः घृणाकारिभिःअनिष्टश्रवणस्पर्शनदर्शनभक्षणघ्राणैरुत्क्लिश्यते-ऊर्द्धं नोत्वा मुखाद्बहिष्क्रियते
*
पूर्व्वरूप-माह ।“हृल्लासोद्गाररोधौ प्रसेको लवणास्थता ।द्देषोऽन्नपाने भृशं वमीनां पूर्व्वलक्षणम्
”छर्द्देः सामान्यलक्षणमाह ।“छादयन्नाननं वेगैरर्द्दयन्नङ्गभञ्जनैः ।निरुच्यते छर्द्दिरिति दोषो वक्त्रं प्रधावितः
छादयन् पूरयन् अङ्गभञ्जनैः अङ्गभेदैः अर्द्दयन्अद्गानि पीडयन् वक्त्रं प्रधावितः वक्त्रं प्रतिधावितः दोषः छर्द्दिर्निरुच्यते
*
वातजायालक्षणमाह ।“हृत्पार्श्वपीडामुखशोषशीर्ष-नाभ्यर्त्तिकासस्वरभेदतोदैः ।उद्गारशब्दप्रबलं सफेनंविच्छिन्नकृष्णं तनुकं कषायम्
कृच्छ्रेण चाल्पं महता वेगे-नार्त्तोऽनिलाच्छर्द्दयतीव दुःखम्
”कषायं कषायरसम् दुःखं दुःखमिव छर्द्द-यति
*
पित्तजामाह ।“मूर्च्छापिपासामुखशोषमूर्द्ध-ताल्वक्षिसन्तापतमोभ्रमार्त्तः ।पीतं भृशोष्णं हरितञ्च तिक्तंधूम्रञ्च पित्तेन वमेत् सदाहम्
*
कफजामाह ।“तन्द्रास्यमाधुर्य्यकफप्रसेकंसन्तोषनिद्रारुचिगौरवार्त्तः ।स्निग्धं घनं स्वादु कफाङ्गि शुक्लंसलोमहर्षोऽल्परुजं वमेत्तु
”सन्तोषस्तृप्तिः
*
त्रिदोषजामाह ।“शूलाविपाकारुचिदाहतृष्णा-श्वासप्रमोहप्रबलाप्रसक्तम् ।छर्द्दिस्त्रिदोषाल्लवणाम्लनील-सान्द्रोष्णरक्तं वमतां नृणां स्यात्
”आगन्तुजामाह ।“असात्म्यजां क्रिमिजामजा चवीभत्सजा दौर्हृदजा या हि ।सा पञ्चमी ताञ्च विभावयेच्चदोषोच्छ्रयेणैव यथोक्तमादौ
”एताः पञ्चागन्तुजत्वेन साम्यादेकैव अतएव साआगन्तुजा पञ्चमी विभावयेत् अनुवन्धयेत्
*
उपद्रवानाह ।“कासः श्वासो ज्वरस्तृष्णा हिक्का वैचित्यमेव ।हृद्रोगस्तमकश्चैव ज्ञेयाश्छर्द्देरुपद्रवाः
वैचित्यं विकृतचित्तत्वम् तमकोऽत्र तमः ।श्वासपदेनैव तमकाख्यस्यापि श्वासस्योक्तत्वात्
असाध्यां साध्याञ्चाह ।“क्षीणस्य या च्छर्द्दिरतिप्रसक्तासोपद्रवा शोषितरूपयुक्ता ।सचन्द्रिकां तां प्रवदेदसाध्यांसाध्यां चिकित्सेत् निरुपद्रवाञ्च
”सचन्द्रिका मयूरपिच्छचन्द्रिकाप्रभायुक्ता
*
अथ छर्द्देश्चिकित्सा ।“आमाशयोत्क्लेशभवा हि सर्व्वा-श्छर्द्यो मता लंवनमेव तस्मात् ।विधीयते मारुतजां विना तुसंशोधनं वा कफपित्तहारि
”अत्र द्वितीयपादे छर्द्दीशब्दः
“हन्यात् क्षीरोदकं पीतं छर्द्दिं पवनसम्भ-वाम् ।मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः
”क्षीरोदकं नाशितस्य क्षीरस्य उदकम्
“गुडूचीत्रिफलानिम्बपटोलैः क्वथितं जलम् ।पिबेन्मधुयुतं तेन छर्द्दिर्नश्यति पित्तजा
हरीतकीनां चूर्णन्तु लिह्यान्माक्षिकसंयुतम् ।अधोमार्गीकृते दोषे छर्द्दिः शीघ्नं निवर्त्तते
बिडङ्गत्रिफलाविश्वाचूर्णं मधुयुतं पिबेत् ।विडङ्गप्लवशुण्ठीनां चूर्णं वा कफजां वमिम्
”प्लवं कैवर्त्तीमुस्तम् गुडतजी इति लोके
“पिष्ट्वा घात्रीफलं लाजान् शर्करां पलो-न्मिताम् ।दत्त्वा मधुपलञ्चापि कुडवं सलिलस्य ।वाससा गालितं पीतं हन्ति छर्द्दिं त्रिदोष-जाम्
गुडच्या रचितं हन्ति हिमं मधुसमन्वितम् ।दुर्निवारामपि च्छर्द्दिं त्रिदोषजनितां बलात्
७एलालवङ्गगजकेशरकोलमज्ज-लाजप्रियङ्गु घनचन्दनपिप्पलीनाम् ।चूर्णानि माक्षिकसितासहितानि लीढ्वाछर्द्दिं निहन्ति कफमारुतपित्तजाताम्
”इति एलादिचूर्णम्
“अश्वत्थवल्कलं शुष्कं दग्धं निर्व्वासितं जले ।तज्जलं पानमात्रेण छर्द्दिं जयति दुर्ज्जयाम्
पथ्यात्रिकटुधान्याकजीरकाणां रजो लिहन् ।मधुना नाशयेच्छर्द्दिमरुचिञ्च त्रिदोषजाम्
१०
विल्वत्वचो गुडूच्या वा क्वाथः क्षौद्रेण संयुतः ।छर्दिं त्रिदोषजां हन्ति पर्प्पटः पित्तजांतथा
११
आम्रास्थिविल्वनिर्यूहः पीतः समधुशर्करः ।निहन्यात् छर्द्यतीसारं वैश्वानर इवाहुतिम्
”इति निर्यू हक्वाथः
१२
“जम्ब्वाम्रपल्लवशृतं लाजरजःसंयुतं शीतम् ।शमयति मधुना युक्तं वमिमतिसारं तृषार्त्ति-मुग्राम्
१३
वीभत्सजां हृद्यतमैरिष्टैर्दौहृदजां फलैः ।लङ्घनैरामजां छर्द्दि जयेत् सात्म्यैरसात्म्य-जाम्
१४
कृमिहृद्रोगवद्धन्यात् वमिं कृमिसमुद्भवाम् ।तत्र तत्र यथादोषं क्रियां कुर्य्यात् चिकित्-सकः
१५
इति छर्द्यधिकारः इति भावप्रकाशः
वमिः,
पुं,
(वमति उद्गिरति धूमादिकमिति ।टुवम उद्गिरणे + “इक् कृष्यादिभ्यः ।” इतीक् ।)अग्निः इति मेदिनी मे, २९
धूर्त्तः इतिशब्दरत्नावली