| YouTube Channel

वप्रं (vapraM)

 
शब्दकल्पद्रुमः
Sanskrit
वप्रं,
क्ली,
पुं,
(उप्यतेऽत्रेति वप + “वृषिवपिभ्यांरन् ।” उणा० २७ इति रन् ।) दुर्ग-नगरे परिखाया उद्धृतमृत्तिकास्तूपबद्धे यदु-परि प्राकारो निवेश्यते तत् तथा चार्थ-शास्त्रम् ख्यातादुद्धृतमृदा वप्रं कारयेत् तस्यो-परि प्राकारमिति तत्पर्य्यायः चयः ।इत्यमरभरतौ
मृत्तिकास्तूपः इति शब्द-रत्नावली
(यथा, आर्य्यासप्तशत्याम् ५०५ ।“लग्नं जघने तस्याः सुविशाले कलितकरि-करक्रीडे ।वप्रे सक्तं द्विपमिव शृङ्गारस्तां विभूषयति
”)महावप्रो यथा, --“महोद्यानां महावप्रां तडागशतशोभिताम् ।प्राकारगृहसम्बाधामिन्द्रस्येवामरावतीम्
”महान् वप्रो यस्याः ।“प्राकाराधारभूता कृत्रिमोच्छ्रिता भूमि-र्व्वप्रसंज्ञा
”इति विष्णुपुराणे अंशे २३ अध्याधे
*
वपति बीजमत्र क्षेत इति भाषा तत्-पर्य्यायः केदारः क्षेत्रम् इत्यमरभरतौ
निष्कुटः वनजम् वाजिका पाटीरः ।इति जटाधरः
(यथा, बृहत्संहितायाम् ।१९ १६ ।“शालीक्षुमत्यपि धरा धरणीधराभ-धाराधरोज्ज्वितपयः परिपूर्णवप्रा
”)रेणुः तटः इति मेदिनीकरहेमचन्द्रौ
(यथा, किराते ११ ।“तत् पूर्व्वं प्रतिविदधे सुरापगायावप्रान्तस्खलितविवर्त्तनं पयोभिः
”पर्व्वतसानुः यथा, किराते ३६ ।“नानारत्नज्योतिषां सन्निपातै-श्छन्नेष्वन्तः सानुवप्रान्तरेषु
”)
वप्रं,
क्ली,
(वप् + “वृधिवपिभ्यां रन् ।” उणा०२ २७ इति रन्) सीसकम् इति हेम-चन्द्रः ४६
(तथास्य पर्य्यायान्तरम् ।“सीसं वध्रञ्च वप्रञ्च योगेष्टं नागनामकम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)