| YouTube Channel

वप्ता (vaptA)

 
Kridanta Forms
Sanskrit
वप् (डुव॒पँ॑ बीजसन्ताने छेदनेऽपि - भ्वादिः - अनिट्)
ल्युट् = वपनम्
अनीयर् = वपनीयः - वपनीया
ण्वुल् = वापकः - वापिका
तुमुँन् = वप्तुम्
तव्य = वप्तव्यः - वप्तव्या
तृच् = वप्ता - वप्त्री
क्त्वा = उप्त्वा
ल्यप् = प्रोप्य
क्तवतुँ = उप्तवान् - उप्तवती
क्त = उप्तः - उप्ता
शतृँ = वपन् - वपन्ती
शानच् = वपमानः - वपमाना
Wordnet
Sanskrit
Synonyms:
निवापकः, बीजवापः, बीजवापी, वप्ता, वपः, वायकः
noun
यः बीजं वपति।
"निवापकः कृषिक्षेत्रे बीजं रोपयति।"
Synonyms:
पिता, तातः, जनकः, वप्ता, जनयिता, जन्मदः, गुरु, जन्यः, जनिता, बीजी, वप्रः
noun
पाति रक्षति अपत्यम् यः।
"मम पिता अध्यापकः अस्ति। / जनको जन्मदाता रक्षणाच्च पिता नृणाम्।"
शब्दकल्पद्रुमः
Sanskrit
वप्ता, [ऋ]
पुं,
(वपति बीजमिति वप् +तृच् ।) जनकः इति मेदिनी
कविः इतिजटाधरः
(नापितः यथा, ऋग्वेदे १८ ।१४२ ।“यदा ते वातो अनुवाति शौचि-र्वप्तेव श्मश्रु वपसि प्र भूम
”“यथा वप्ता नापितो वपति मुण्डयति तथाभूम भूमिं प्रवपसि प्रकर्षेण मुण्डयसि
इतितद्भाष्ये सायणः
)
वप्ता, [ऋ] त्रि, (वपतीति
वप् बीलोप्तौ +तृच् ।) वापकः इति मेदिनी
(कर्षकः ।यथा, मनुः १४२ ।“यथेरिणे बीजमुप्त्वा वप्ता लभते फलम् ।तथानृचे हविर्द्दत्त्वा दाता लभते फलम्
”)