| YouTube Channel

वन्दी (vandI)

 
Monier Williams Cologne
English
वन्°दी See 1. 2. बन्दिन्.
Apte Hindi
Hindi
वन्दी
स्त्री*
- वन्दि + ङीष्
"बन्धन, कारावास"
वन्दी
स्त्री*
- वन्दि + ङीष्
"क़ैदी, बंधुआ"
Wordnet
Sanskrit
Synonyms:
सोपानपद्धतिः, सोपानश्रेणिः, सोपानश्रेणी, सोपानपङ्क्तिः, अधिरोहिणी, आरोहणम्, निःश्रेणी, निःश्रयणी, निःश्रयिणी, शालारम्, वन्दिः, वन्दी, पङ्कारः
noun
ऊर्ध्वगमनार्थे अधोगमनार्थे वा सोपानयुक्तं विनिर्मितः मार्गः।
"गृहे पटलोपरि गमनार्थे सोपानपद्धतिः विनिर्मिता।"
पुराणम्
English
वन्दी / VANDĪ (bandī, vāndīna). A scholar and scientist in the palace of King janaka. He defeated the hermit Kahoḍaka in an argument and dipped him in water. (For further details see under aṣṭāvakra).
शब्दकल्पद्रुमः
Sanskrit
व(व)न्दी,
स्त्री,
(वन्दि + “कृदिकारादक्तिनः ।”इति ङीष् ।) वन्दिः इत्यमरटीकायां भरतः
(यथा, कुमारे ५२ ।“गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।प्रत्यानेष्यति शत्रुभ्यो वन्दीमिव जयश्रियम्
”)
व(ब)न्दी [न्],
पुं,
(वन्दते स्तौति नृपादीन्निति ।वदि स्तुतौ + णिनिः ।) राजादेर्यात्रादौवीर्य्यादस्तुतिकारकः तत्पर्य्यायः स्तुति-पाठकः इत्यमरः
मागधः मगधः ।इत्यन्ये इति तट्टीकायां भरतः
(यथा, रघुः ।“परिकल्पितसान्निध्या काले काले वन्दिषु ।स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती
”)अस्योत्पत्तिर्यथा, --“क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः ।वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ
”इति मानवे १० अध्यायः
*
श्राद्धोत्तरमस्मै शक्तितो दानस्याकरणे निन्दायथा, --“वन्दिभ्यश्चैवमर्थिभ्योऽन्नार्थिभ्यश्चन्नमर्थितः ।यदि तत्र दद्यात्तु विफलं शाक्ततो भवेत्
”वन्दिनो वीर्य्यस्तोतारः अर्थितः सन् यदिएभ्योऽन्नं दद्यात् श्राद्धं विफलं भवेदित्यर्थः ।“सूताः पौराणिकाः प्रोक्ता मागधा वंश-शंसकाः ।वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः
”इत्युक्तेः इत्थञ्च श्राद्धोत्तरदाननिषेधात् श्राद्धेवन्दिप्रभृतिभ्यो दानाकरणे निन्दाश्रवणाच्चश्राद्धात् पूर्व्वं तदर्थं भोज्यादिकं उत्सृजेत् ।इति श्राद्धतत्त्वम्
(भृत्यः यथा, भागवते ।११ १५ ।“ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः ।उर्व्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः
”“सुरवन्दिनो देवभृत्याः ।” इति तट्टीकायांश्रीधरस्वामी
)
वाचस्पत्यम्
Sanskrit
वन्दि(न्दी) स्त्री वदि--इन् वा ङीप् काराबद्धमनुष्यादौ(कएदी) शब्दर० बन्दने स्तुतौ सोपानके उणा०