| YouTube Channel

वन्दयमानः (vandayamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वदि अभिवादनस्तुत्योः”@} 2 ‘प्रणतिपूर्वमाशिषो वाचनम् = अभिवादनम्’ इति मा।
धा।
वृत्तिः।
‘-- नतिमात्रं वाऽभिवादनम्’ इति धा।
का।
व्याख्यायाम् 3।
‘-- नुत्यभिवादयोः’ इति वोपदेवः।
वन्दकः-न्दिका, वन्दकः-न्दिका, विवन्दिषकः-षिका, वावन्दकः-न्दिका
वन्दिता-त्री, वन्दयिता-त्री, विवन्दिषिता-त्री, वावन्दिता-त्री
-- वन्दयन्-न्ती, वन्दयिष्यन्-न्ती-ती
-- वन्दमानः, वन्दयमानः, विवन्दिषमाणः, वावन्द्यमानः
इत्यादिकानि रूपाणि सर्वाण्यपि प्रातिस्विकरूपाणि विना भौवादिककन्दतिवत् 4 5 ऊह्यानि।
6 वन्दारुः, 7 8 वन्दी, वन्दनः, 9 वन्दना, 10 वन्दा, 11 वन्दथः, 12 वन्द्रः, 13 वन्दाकः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
सन्नन्तात् उप्रत्यये-विवन्दिषुः 14 इति।
प्रासङ्गिक्यः
01
=>
(१५४९)
02
=>
(१-भ्वादिः ११। सक। सेट्। आत्म।)
03
=>
(१-३)
04
=>
[पृष्ठम्११९४+ ३०]
05
=>
(१६३)
06
=>
[[१। तच्छीलादिषु कर्तृषु ‘शॄवन्द्योरारुः’ (३-२-१७३) इति आरुप्रत्यये रूपम्।]]
07
=>
[[आ। ‘वन्दारुवृन्दारकवन्दिबृन्दमन्दारमालामकरन्दबिन्दून्।’ (अनर्घ। ६-८३)।]]
08
=>
[[२। णिनिप्रत्यये एवं रूपम्। अचि तु वन्दी इति तरङ्गिण्याम्। ‘वन्यते याच्यते वन्दी = हठाहृता स्त्री’ इत्यमरटीकायां क्षीरस्वामी।]]
09
=>
[[३। ‘घट्टिवन्दिविदिभ्यः उपसंख्यानम्’ (वा। ३-३-१०७) इति स्त्रियां युच्प्रत्यये रूपमेवम्।]]
10
=>
[[४। बाहुलकात् स्त्रियां संज्ञायामकारप्रत्यये रूपमेवम्। वन्दा = वृक्षरुहा।]]
11
=>
[[५। ‘शीङ्शपिरुगमिवन्दि--’ (द। उ। ६-३८)। इत्यथप्रत्यये रूपम्। वन्दते वन्द्यते वा वन्दथः = स्तोता, स्तुत्यश्च।]]
12
=>
[[६। औणादिके (द। उ। ८-३१) रक्प्रत्यये वन्द्रः = हेतुः, कामो वा।]]
13
=>
[[७। औणादिके (द। उ। ३-३१) आकप्रत्यये रूपमेवम्। वन्दाकः = कामवृक्षः इति स्वामी। ‘वन्दाकश्चीवरभिक्षुः’ इति हेमचन्द्रः।]]
14
=>
[[B। ‘औहिष्ट तान् वीतविरुद्धबुद्धीन् विवन्दिषून् दाशरथिः स्ववर्ग्यान्।।’ भ। का। ३-४८।]]