| YouTube Channel

वन्दनं (vandanaM)

 
शब्दकल्पद्रुमः
Sanskrit
वन्दनं,
क्ली,
(वन्दतेऽनेनेति वन्द + करणे ल्युट् ।)वदनम् इति शब्दचन्द्रिका
(वन्द + भावेल्युट् ।) प्रणामः तु षोडशधाभक्त्यन्तर्गत-भक्तिविशेषः यथा पाद्मोत्तरखण्डे शिव-पार्व्वतीसंवादे ।“आद्यं तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः ।धारणञ्चोर्द्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः
अर्च्चनञ्च जपो ध्यानं तन्नामस्मरणं तथा ।कोर्त्तनं श्रवणञ्चैव वन्दनं पादसेवनम्
तत्पादोदकसेवा तन्निवेदितभोजनम् ।तदीयानाञ्च संसेवा द्वादशीब्रतनिष्ठता
तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः ।भक्तिः षोडशधा प्रोक्ता भवबन्धविमुक्तये
”इति हरिभक्तिविलासे ११ विलासः
षोडशोपचारपूजान्तर्गतशेषोपचारः यथा, --“आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।मधुपर्काचमनस्नानवसनाभरणानि ।गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा
”इत्याह्रिकतत्त्वे आचारचिन्तामणिः
*
अथ वन्दनम् ।“प्रणमेदथ साष्टाङ्गं तन्मुद्राञ्च प्रदर्शयेत् ।पठेत् प्रतिप्रणामञ्च प्रसीद भगवन्निति
”तदुक्तमेकादशे श्रीभगवता ।“स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि ।स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत्
”अथ प्रणामविधिः कालिकापुराणे ।“यः स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिम् ।शिरो मत्पादयोः कृत्वा बाहुभ्याञ्च परस्परम् ।प्रपन्नं पाहि मामीश भीतं मृत्युमहार्णवात्
”किञ्चागमे ।“दोर्भ्यां पद्भ्याञ्च जानुभ्यामुरसा शिरसा दृशा ।मनसा वचसा चेति प्राणामोऽष्टाङ्ग ईरितः
जानुभ्याञ्चैव बाहुभ्यां शिरसा वचसा धिया ।पञ्चाङ्गकः प्रणामः स्यात् पूजासु प्रवराविमौ
”इति
“गरुडं दक्षिणे कृत्वा कुर्य्यात्तत्पृष्ठतो बुधः ।अवश्यञ्च प्रणामांस्त्रीन् शक्तश्चेदधिकाधिकान्
”तथा नारदपञ्चरात्रे ।“सन्धिं वीक्ष्य हरिं चाद्यं गुरून् स्वगुरुमेव ।द्बिचतुर्विंशदथवा चतुर्विंशत्तदर्द्धकम् ।नमेत्तदर्द्धमथवा तदर्द्धं सर्व्वथा नमेत्
”विष्णुधर्म्मोत्तरे ।“देवार्च्चादर्शनादेव प्रणमेन्मधुसूदनम् ।स्थानापेक्षा कर्त्तव्या इष्टार्च्चां द्विजसत्तमाः ।देवार्च्चादृष्टपूतं हि शुचि सर्व्वं प्रकीर्त्तितम्
”अथ नमस्कारमाहात्म्यम् नारसिंहे ।“नमस्कारः स्मृतो यज्ञः सर्व्वयज्ञेषु चोत्तमः ।नमस्कारेण चैकेन नरः पूतो हरिं व्रजेत्
”स्कान्दे ।“दण्डप्रणामं कुरुते विष्णवे भक्तिभावितः ।रेणुसंख्यं वसेत् स्वर्गे शतमन्वन्तरं नरः
”तत्रैव श्रीकृष्णनारदसंवादे ।“प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्च्चयेत् ।स यां गतिमवाप्नोति तां क्रतुशतैरपि
नमस्कारेण चैकेन नरः पूतो हरिं व्रजेत्
”तत्रैव शिवोमासंवादे ।“भूमिमापीड्य जानुभ्यां शिर आरोप्यवै भुवि ।प्रणमेत् यो हि देवेशं सोऽश्वमेधफलं लभेत्
”तत्रैवान्यत्र ।“तीर्थकोटिसहस्राणि तीर्थकोटिशतानि ।नारायणप्रणामस्य कलां नार्हन्ति षोडशीम्
शाठ्येनापि नमस्कारं कुर्व्वतः शार्ङ्गधन्विने ।शतजन्मार्ज्जितं पापं तत्क्षणादेव नश्यति
रेणुगुण्ठितगात्रस्य कणा देहे भवन्ति ये ।तावद्बर्षसहस्राणि विष्णुलोके महीयते
”विष्णुधर्म्मोत्तरे ।“अभिवाद्य जगन्नार्थ कृतार्थश्च तथा भवेत् ।नमस्कारक्रिया तस्य सर्व्वपापप्रणाशिनी
जानुभ्यां चैव पाणिभ्यां शिरसा विचक्षणः ।कृत्वा प्रणामं देवस्य सर्व्वान् कामनवाप्नुयात्
”ब्रह्मपुराणे ।“अनादिनिधनं देवं दैत्यदानवदारणम् ।ये नमन्ति नरा नित्यं नहि पश्यन्ति ते यमम्
ये जना जगतां नाथं नित्यं नारायणं द्बिजाः ।नमन्ति नहिते विष्णोः स्थानादन्यत्र गामिनः
”नारदीये ।“एकोऽपि कृष्णस्य सकृत्प्रणामोदशाश्वमेधावभृतैर्न तुल्यः ।दशाश्वमेधी पुनरेति जन्मकृष्णप्रणामी पुनर्भवाय
”भक्तिसुधोदये ।“विष्णोर्दण्डप्रणामार्थं भक्तेन पतता भुवि ।पातितं पातकं कृत्स्नं नोत्तिष्ठति पुनः सह
अपि पापं दुराचारं नरं त्वत्प्रणतं हरे ।नेक्षन्ते किङ्करा याम्या उलूकास्तपनं यथा
”श्रीविष्णुपुराणे श्रीयमस्य निजभटानुशासने ।“हरिममरगणार्चिताङ्घ्रिपद्मंप्रणमति यः परमार्थतो हि मर्त्यः ।तमपगतसमस्तपापबन्धंव्रज परिहृत्य यथाग्निमाज्यसिक्तम्
”ब्रह्मवैवर्त्ते ।“शरणागतरक्षणोद्यतंहरिमीशं प्रणमन्ति ये नराः ।न पतन्ति भवाम्बुधौ स्फुटंपतितानुद्धरति स्म तानसौ
”अष्टमस्कन्धे वलिवाक्ये ।“अहो प्रणामाय कृतः समुद्यमःप्रपन्नभक्तार्थविधौ समाहितः ।यल्लोकपालैस्त्वदनुग्रहोऽमरै-रलब्धपूर्व्वापसदेऽसुरेऽर्पितः
”अतएव नारायणव्यूहस्तवे ।“अहो भाग्यमहो भाग्यमहो भाग्यं नृणा-मिदम् ।येषां हरिपदाब्जाग्रे शिरो न्यस्तं यथा तथा
”किञ्च नारसिंहे श्रीयमोक्तौ ।“तस्य वै नारसिंहस्य विष्णोरमिततेजसः ।प्रणामं ये प्रकुर्व्वन्ति तेषामपि नमो नमः
”भविष्योत्तरे जलधेनुप्रसङ्गे ।“विष्णोर्देवजगद्धातुर्जनार्द्दनजगत्पतेः ।प्रणामं ये प्रकुर्व्वन्ति तेषामपि नमो नमः
”इत्यादि
*
अथ प्रणामनित्यता बृहन्नारदीये तु वृको-पाख्यानारम्भे ।“सकृद्बा नमेद्यस्तु विष्णवे शर्म्मकारिणे ।शवोपमं विजानीयात् कदाचिदपि नालपेत्
”किञ्च पाद्मे वैशाखमाहात्म्ये यमब्रा ह्मण-संवादे ।“पश्यन्तो भगवद्द्वारं नामशस्त्रपरिच्छदम् ।अकृत्वा तत्प्रणामादि यान्ति ते नरकौकसः
”अथ नमस्कारनिषिद्धानि विष्णुस्मृतौ ।“जन्मप्रभृति यत्किञ्चित् पुमान् वे धर्म्ममाचरेत् ।सर्व्वं तन्निष्फलं याति एकहस्ताभिवादनात्
”वाराहे ।“वस्त्रप्रावृतदेहस्तु यो नरः प्रणमेत माम् ।श्वित्री जायते मूर्खः सप्तजन्मनि भामिनि !
”किञ्चान्यत्र ।“अग्रे पृष्ठे धामभागे समीपे गर्भमन्दिरे ।जपहोमनमस्कारान् कुर्य्यात् केशवालये
”अपि ।“सकृद्भूमौ निपतितो शक्तः प्रणमेन्मुहुः ।उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनम्
ततः प्रदक्षिणां कुर्य्यात् भक्त्या भगवतो हरेः ।नामानि कीर्त्तयन् शक्तौ ताञ्च साष्टाङ्गवन्द-नाम्
”इति हरिभक्तिविलासे विलास
*
अन्यत् नमस्कारशब्दे प्रणामशब्दे द्रष्टव्यम्
(विषविशेषः यथा, ऋग्वेदे ५१ ।“यद्विजामन् परुषि वन्दनं भुवत्
”असुरः रक्षोविशेषः इति ऋग्भाष्येसायणः २१
)