| YouTube Channel

वन्चु (vancu)

 
धातुप्रदीपः
Sanskrit
वन्चुँ वञ्चु
मानकरूपान्तरम् - चन्चुँ
चञ्चु
मानकरूपान्तरम् - तन्चुँ
तञ्चु
मानकरूपान्तरम् - त्वन्चुँ
त्वञ्चु
मानकरूपान्तरम् - म्रुन्चुँ
म्रुञ्चु
मानकरूपान्तरम् - म्लुन्चुँ
म्लुञ्चु
मानकरूपान्तरम् - म्रुचुँ
म्रुचु
मानकरूपान्तरम् - म्लुचुँ
म्लुचु गत्यर्थाः
- वञ्चति ववञ्च वनीवच्यते वनीवञ्चः वञ्च्यं वञ्चन्ति वणिजः वङ्क्यम् वचित्वा ।वञ्चित्वा ।वङ्क्त्वा वक्तः वक्तवान् चञ्चति चचञ्च चञ्चित्वा ।चक्त्वा चक्तः चक्तवान् पचाद्यच् चञ्चः चञ्चा वृषादिभ्यः कलच् (उण् 1/104) चञ्चलः मृगय्वादित्वात् कुचञ्चुः कथं चञ्चरीकः ? चरेर्यङ्लुकि फर्फरीकादयश्च (उण्, 4/21) इति ईकन् (40) तञ्चति तक्तम् त्वञ्चति म्रुञ्चति म्लुञ्चति म्रोचति अम्रुचत् अम्रोचीत् म्रुचित्वा म्रोचित्वा म्रुक्त्वा म्लोचति अम्लुचत् अम्लोचीत् म्लुक्तः ।। 186-193 ।।
वन्चुँ वन्चु प्रलम्भने
- वञ्चयते अववञ्चत वञ्चना वञ्चतीति भ्वादिपाठात् 164
क्षीरतरङ्गिणी
Sanskrit
वन्चुँ वन्चु
मानकरूपान्तरम् - चन्चुँ
चन्चु
मानकरूपान्तरम् - तन्चुँ
तन्चु
मानकरूपान्तरम् - त्वन्चुँ
त्वन्चु
मानकरूपान्तरम् - म्रुचुँ
म्रुचु
मानकरूपान्तरम् - म्लुचुँ
म्लुचु गत्यर्थाः
- वञ्चति यङि अभ्यासस्य दीर्घ प्राप्ते नीग्वञ्चुस्रंसुध्वंसु (7484) इति नीगागमः-वनीवच्यते उदितो वा (7256) इति वेट् वक्त्वा, वचित्वा, [वञ्चित्वा] वञ्चिलुञ्च्यृतश्च (1224) इति वा कित्त्वम्, वेट्त्वाद् यस्य विभाषा (7215) इति निष्ठायां नेट वक्तः वञ्जितस्तु चुरादौ वञ्चु प्रलम्भने (10148) इत्यस्मात् गृधिवञ्च्योः प्रलम्भने (1369) तङानौ बालं वञ्चयते नेह-अहिं वञ्चयति स्फायि (उ0 213) इति रक् वक्रम्, न्यङ्क्वादिः (द्र0 7353) घञि वञ्चेर्गतौ (7363) इति कुत्वं नास्ति-वञ्चं वञ्चन्ति वणिजः चञ्चति चञ्चा तृणपुरुषः चञ्चुस्त्रोटिः, चञ्चलश्चपलः चाचलस्तु चले (धा0 1568) रूपम् तञ्चेस्तक्रम् म्रोचति मलिनं म्लोचति, मलिम्लुचश्चौरः जॄस्तम्भुम्रु चुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च (3158) इत्यङ् वा अम्रुचत्, अम्रोचीत्
अम्लुचत्, अम्लोचीत् 188-193
वन्चुँ वन्चु प्रलम्भने
- (अर्थविवरणम्) प्रलम्भनं मिथ्याफलाख्यानम्
एवमादीनामनुबन्धः प्रत्यभिज्ञानार्थम्, एवायमर्थान्तरे चुरादिरिति गृधिवञ्च्योः प्रलम्भने (13 69) तङ्-वञ्चयते बालम्, अन्यत्राहि वञ्चयति भ्वादौ वञ्चु गतौ (तु0 1120) -वञ्चति 170
धातुवृत्तिः
Sanskrit
वन्चुँ वञ्चु
मानकरूपान्तरम् - चन्चुँ
चञ्चु
मानकरूपान्तरम् - तन्चुँ
तञ्चु
मानकरूपान्तरम् - म्रुन्चुँ
म्रुञ्चु
मानकरूपान्तरम् - म्लुन्चुँ
म्लुञ्चु
मानकरूपान्तरम् - म्रुचुँ
म्रुचु
मानकरूपान्तरम् - म्लुचुँ
म्लुचु (अर्थः) गत्यर्थाः
( वञ्चति ववञ्च वञ्चितेत्यादि) आशीर्लिङि यासुटः कित्वादनुनासिकलोपे वच्यात् विवञ्चिषति वनीवच्यते ) "नीग्वञ्चभ्रंसुध्वंसुस्रंसुकसपतपदस्कन्दाम्'' इति यङ्लुकोरभ्यासस्य नीगागमः ( वनीवञ्चीति वनीवङ्क्ति ) यङो लुका लुप्तत्वान्नलोपाभावः वनीवक्त इत्यादौ तसादीनां ङित्त्वेन नलोपः माणवकं वञ्चयते विप्रलभतइत्यर्थः ( सूत्रम्) गृधिवञ्च्योः प्रलम्भने (इति सूत्रम्) इति ण्यन्ताभ्यामाभ्यामकर्त्रभिप्रायोपि तङ् प्रलम्भनं मिथ्याफलाख्यानमतोऽन्यत्र वञ्चयति वञ्चयतइत्युभयंभवति (वङ्क्तवा वञ्चित्वा ) "उदितो वा'' इतीड्विकल्पः "वञ्चिलुञ्च्यृ'' इति सेटः क्त्वो वा कित्वविधानात्पक्षे नलोपः ( वक्तः वक्तवान् ) "यस्य विभाषा'' इति अनिट्त्वं (वञ्च्यं वञ्च्यन्ति वणिजः) गन्तव्यं गच्छन्तीत्यर्थः "ऋहलोर्ण्यत्" ण्यति "चजोः कु घिण्ण्यतोः" कुत्वं वञ्चेर्गतौ इति निषिध्यते अन्यत्र वङ्क्यं काष्टमिति कुत्वं भवति कुटिलमित्यर्थः वक्रम् "स्फायितञ्चत्कः यश्च मण्यादिः स्वयमचञ्चन्नपि प्रभया चञ्चन्निव लक्ष्यश्चञ्चा, तत्प्रकारश्चञ्चकः "केणः'' इति ह्रस्वः ( तञ्चति तक्रम् )"स्फायिञ्चि '' इत्यादिना रकि चञ्चतीत्यादि पूर्ववत् चञ्चत् चञ्चन्नेव कश्चित् विशेषश्चञ्चत्कः यश्च मन्यादिः स्वयमचञ्चन्नपि प्रभया चञ्चन्निव लक्ष्यते सापि चञ्चत्कःस्थूलादिभ्यः प्रकारवचने कन् इत्यत्र [चञ्चद्बृहतोरुपसंख्यानात्] कः प्रकारश्च भेदः सादृश्यं अपरे[चञ्चाबृहतोरुपसंख्यानम्] इति पठन्ति, तृणमयः पुरुषश्चञ्चा तत्प्रकारश्चञ्चकः केणः इति ह्रस्वः(तञ्चति तक्रम्) "स्फायितञ्चि" इत्यादिना रक् ( त्वञ्चति म्लुञ्चति म्रोचति म्लोञ्चति अम्रुचत् अम्रोचीत् म्रुञ्चति म्लुञ्चतिम्रुचति म्लोचति अम्रचत् अम्रुचीत् अम्लुचत् अम्लोचीत् ) "जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च'' इति च्लेर्वा ऽङ् ( मुमुचिषति म्रुम्रोचिषति म्रुचित्वा म्रोचित्वा) "रलो व्युपधाद्'' इति कित्त्वविकल्पः भावादिकर्मणोः उदुपधादिति कित्वविकल्पनात् ( म्रुचितमनेन, म्रोचितमनेनेत्यादि) एवं म्लुचेरपि सर्वेषामुदित्वेन क्त्वायामिड्विकल्पनान्निष्ठायामनिट्त्वम् वच प्रलम्भनइति चुरादौ तञ्चू सङ्कोचनइति रुधादौ 194
वन्चुँ वञ्चु (अर्थः) प्रलम्भने
( वञ्चयते ) क्त्वायामिड्विकल्पार्थं णिजस्यानित्य इति वञ्चतीत्यपि भवति ( वञ्चित्त्वा वचित्त्वा वक्त्वा, ) "वञ्चिलुञ्च्यृतश्च'' इति सेटः क्त्वः कित्त्वविकल्पनात्पक्षे नलोपः इडभावे तु नित्यम् अत्र सूत्रे वञ्चु गताविति भौवादिकस्य चास्य ग्रहणमाह हरदत्तः तत्र तेन चौरादिक ऊदित्पठितः, तन्मते वलाद्यार्धधातुकमात्रे इड्विकल्पेन भाव्यं च, पाठद्वयेऽपि निष्ठायां वक्तव्यं, "गृधिवञ्च्योः प्रलम्भन'' इत्यत्र भौवादिकस्यैव ग्रहो नास्यः आकुस्मीयत्त्वादेवाकर्त्रभिप्रायेऽपि तङः सिद्धत्त्वात् पूर्वोत्तरयोगसाहचर्याद्गृधिसाहचर्याच्च कारितण्यन्तस्यैव वञ्चेस्तत्र ग्रहणस्य युक्तत्वाच्च, अत एव तत्र वृत्तौ वञ्चु गताविति भौवादिक एवोपात्तः यदाप्ययं कारितण्यन्तस्तदापि प्रलम्भनार्थो तु प्रलम्भनमिति नास्य तत्र ग्रहणप्रसङ्गः आकुस्मीयनिबन्धनत्वं तत्र स्वार्थण्यन्तस्येति प्रागेवोक्तमिति स्वार्थण्यन्तादस्मात्कारिणौ वञ्चयति वञ्चयतइत्युभयं भवति अत्र सुधाकरः
इन्द्रनीलदृषदः प्रथीयसीराश्रिताः कथममी जिघांसतः उन्नतश्रवणबालनिस्वनाद्वञ्चयन्ति शरभान् करेणवः
इति प्रयोगस्य चौरादिकोऽप्यात्मनेपदीत्युक्त्वा वञ्चयन्ति अन्यपथं गमयन्तीति प्रतीतेः प्रलम्भनाभावान्न तङिति निर्वाहात्कारितण्यन्तादस्मादपि "गृधिवञ्च्योः'' इति तङा भाव्यमिति मन्तव्यम् यतः कारितण्यन्तस्यात्र प्रयोज्यान्तराभावादर्थो सङ्गच्छते स्वार्थण्यन्तस्याकुस्मीयत्वात्तङा भाव्यमित्येव तस्याभिप्रायः ( वनीवच्यते ) "नीग्वञ्च्यु'' इत्यादिना नीगभ्यासस्य 169
कृदन्तरूपमाला
Sanskrit
1 {@“वन्चु गत्यर्थः”@} 2 ‘वञ्चतीति गतावर्थे वञ्चयेत प्रलम्भने।।’ 3 इति देवः।
वञ्चकः-ञ्चिका, वञ्चकः-ञ्चिका, विवञ्चिषकः-षिका, 4 वनीवचकः-चिका
वञ्चिता-त्री, वञ्चयिता-त्री, विवञ्चिषिता-त्री, वनीवचिता-त्री
वञ्चन्-न्ती, वञ्चयन्-न्ती, विवञ्चिषन्-न्ती
-- वञ्चिष्यन्-न्ती-ती, वञ्चयिष्यन्-न्ती-ती, विवञ्चिषिष्यन्-न्ती-ती
-- इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकध्वंसतिवत् 5 ऊह्यानि।
6 7 8 वञ्चयमानः, 9 वक्तः-वक्तवान्, 10 वञ्च्यं वञ्चन्ति वणिजः, 11 वचित्वा- 12 वञ्चित्वा-वक्त्वा, 13 वङ्क्रिः, 14 आवक्रम् 15, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१५५४)
02
=>
(१-भ्वादिः-१८९। सक। सेट्। पर।)
03
=>
(श्लो। ४८)
04
=>
[[१०। यङन्ते सर्वत्र ‘नीग्वञ्चुस्रंसु--’ (७-४-८४) इत्यादिना अभ्यासस्य नीगागमे उपधानकारस्य लोपे रूपमेवम्।]]
05
=>
(९४२)
06
=>
[पृष्ठम्११९८+ २७]
07
=>
[माणवकं]
08
=>
[[१। ण्यन्ते ‘गृधिवञ्च्योः प्रलम्भने’ (१-३-६९) इति अकर्त्रभिप्रायेऽपि प्रलम्भनार्थे तङेव। प्रलम्भनम् = मिथ्याफलाख्यानम्। अन्यत्र उभयमपि भवति।]]
09
=>
[[२। उदित्त्वेन क्त्वायामिड्विकल्पात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठाया- मिण्निषेधे, उपधानकारलोपे रूपमेवम्।]]
10
=>
[[३। ‘ऋहलोर्ण्यत्’ (३-१-१२४) इति ण्यति ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति इति प्राप्तं कुत्वं ‘वञ्चेर्गतौ’ (७-३-६३) इति गत्यर्थे निषिध्यते। अत्र गच्छन्ती- त्यर्थः। अन्यत्र वङ्क्यं काष्ठम्। अत्र कुत्वं भवति। कुटिलमित्यर्थः।]]
11
=>
[[४। ‘वञ्चिलुञ्च्यृतश्च’ (१-२-२४) इति सेटः क्त्वाप्रत्ययस्य कित्त्वविकल्पनात् पक्षे नलोपे वञ्चित्वा-वचित्वा इति। उदित्त्वेन ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पात् इडभावपक्षे वक्त्वा इति। आहत्य क्त्वाप्रत्यये रूपत्रयं बोध्यम्।]]
12
=>
[[आ। ‘वञ्चित्वाऽप्यम्बरं दूरं स्वस्मिन् तिष्ठन्तमात्मनि।’ भ। का। ७-१०६।]]
13
=>
[[५। औणादिके (द। उ। १-३५) क्रिन्प्रत्यये, निपातनात् नलोपाभावः कुत्वं भवतः। तेन रूपमेवम्। वङ्क्रिः = शल्यं, शरीराङ्गं च।]]
14
=>
[[६। ‘स्फायितञ्चिवञ्चि--’ (द। उ। ८-३१) इत्यादिना रक्प्रत्यये रूपम्। वक्रम् = कुटिलमित्यर्थः।]]
15
=>
[[B। ‘आवक्रचञ्चूपुटतञ्चदारवत्वञ्चत्खगम्रुक्तशिखैर्लताद्रुमैः।’ धा। का। १-२६।]]
1 {@“वन्चु प्रलम्भने”@} 2 प्रलम्भनम् = मिथ्याफलाख्यानम्।
आकुस्मीयः।
‘… वञ्चयेत प्रलम्भने।।’ 3 इति देवः।
उदित्करणात् णिज्विकल्पः।
‘-- वञ्चने’ इति वोपदेवः।
वञ्चकः-ञ्चिका, विवञ्चयिषकः-षिका, वञ्चकः-ञ्चिका, विवञ्चिषकः-षिका, वनीवचकः-चिका
वञ्चयिता-त्री, विवञ्चयिषिता-त्री, वञ्चिता-त्री, विवञ्चिषिता-त्री, वनीवचिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि ण्यन्तं तत्प्रकृतिकसन्नन्तं विना भौवादिक- ध्वंसतिवत् 4 ऊह्यानि।
5 ऊह्यानि।
णिजन्तात्, तत्प्रकृतिकसन्नन्ताच्च रूपाणि सर्वाणि चौरादिक- गन्धयतिवत् 6 ज्ञेयानि।
णिजभावपक्षे सन्नन्तात् उप्रत्यये--विवञ्चिषुः 7 इति।
प्रासङ्गिक्यः
01
=>
(१५५५)
02
=>
(१०-चुरादिः-१७०४। सक। सेट्। आत्म।)
03
=>
(श्लो। ४८)
04
=>
(९४२)
05
=>
[पृष्ठम्११९९+ २८]
06
=>
(३७५)
07
=>
[[आ। ‘रामसंघुषितं नैतन्मृगस्यैव विवञ्चिषोः।’ भ। का। ५-५५।]]