वनु (vanu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishवनुः [vanuḥ],
A malicious person (हिंसक).
An assailant, enemy
त्वम् इन्द्र वनून् अहन् 4.3.5.
An adherent, a friend
वनुं वा ये सुश्रुणं सुश्रुतो धुः 1.74.1.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishMonier Williams 1872
Englishधातुपाठः (Krishnacharya)
Sanskrit वन्
वनु
क्रियासामान्यार्थे (अनेकक्रियार्थः)
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
वनति
वन्
वनु
याचने
तनादिः
सकर्मकः
सेट्
आत्मनेपदी
वनुते
तनोत्यादिः
वन्
वनु
याचने
तनादिः
सकर्मकः
सेट्
परस्मैपदी
वनोति
छान्दसः
धातुप्रदीपः
Sanskritवनुँ वनु च नोच्यते
- नवति । वनित्वा । वान्त्वा । वान्तम् । वनयति । वानयति (81) । उपवनयति ।। 808 ।।
वनुँ वनु याचने
- वनुते वन्वाते वन्वते ववने वनिष्यते अवनिष्ट अवत अवनिष्ठाः अवथाः विवनिषते वंवन्यते वनित्वा वत्वा वतः वतवान् वनोति ववान ववनतुः ववनुरिति चान्द्रा (5) उदाहरन्ति दन्त्योष्ठ्यादिरम् 8
क्षीरतरङ्गिणी
Sanskritवनुँ वनु च, नोच्यते
- तथा अनुकर्षणार्थश्चकारः यद् वा न केवलं कगे, यावद् वनु च नोच्यते क्रियासामान्यवाचित्वात् वनति वनयति वत्वा, वनित्वा वतः संवननम् वन षण भक्तौ (1311) इत्यस्य वानयति 782
वनुँ वनु याचने
- उदात्तावनुदात्तेतौ- वनुते ववने वत्वा, वनित्वा वतः ग्लास्नावनुवमां च (1556) इति मित्त्वं वा-वनयति वानयति अत्रानुपसर्गाद् (1555) इत्यनुवृत्तेः, सोपसर्गात् नित्यम्-प्रवनयतीति प्राग् (1556) उक्तम् वनिता वण्डः (द्र0 उ0 1114) वनिष्ठुः भ्वादौ वनु च नोच्यते (1541)-वनति
धातुवृत्तिः
Sanskritवनुँ वनु (अर्थः) च, नोपलभ्यते[नोच्यते?]
न केवलं कगे यावता वनु च नोच्यत इति स्वामिनोच्यत इति गतौ वाख्यातम् उदित्करणसामर्थ्यादयमन्यो धातुः, न तानादिकस्यायमनुवादः, क्रियासामान्ये मित्त्वमत्रार्थे ह्मनुवादादिति तानादिकण्वानुवाद्यः, न पुनः शब्दार्थंः संभक्त्यार्थो वावगतो वनतिः वान्तमिति इदं च मित्त्वं "ग्लास्नावनुवमां च'' इत्यनुपसृष्टनां विकल्पस्य वक्ष्यमाणत्वात्सोपसर्गार्थं, (प्रवचनयति प्रावीवनत् प्रावनि प्रावानीत्यादि) 791
वनुँ वनु (अर्थः) याचने
दन्त्योष्ठ्यादिः ( वनुते वनुषे वन्वे वनुवहे ववने ववनिषे ) वादित्वादेत्वाभ्यासलोपनिषेधः ( वनिता वनिष्यते वनुताम् अवनुत वन्वीत ) आशिषि ( वनिषीष्ट अवनिष्ट अवत अवनिष्ठाः अवथाः विवनिषते वंवन्यते वंवन्ति ) "ग्लास्नावनुवमां च'' इत्यनुपसृष्टानां मित्त्वविकल्पे "वनु च नोच्यत' इति घटादिकस्याग्रह इत्येके अन्ये "अनन्तरस्य विधिः' इति न्यायेन घटादिकस्य वनतेरेवेति तेन ( वानयति प्रवानयति ) इत्येव भवति ( वनित्वा वत्वा ) उदित्त्वादिडभावे तनोत्यादित्वादनुनासिकलोपः ( वतः वतवान् ) "यस्य विभाषा''इत्यनिट्त्वम् ( वन्तिः ) "नक्तिचिदीर्घश्च'' इत्यनुनासिकलोपस्य दीर्घस्य च निषेधः (वनी) वा ( 1 ) ( 1 ) याञ्चेति पुस्तकान्तरे पाठः ञ्छा, तामिच्छतीति क्यजन्ताम् ण्वुल्, ( वनीयकः ) अर्थिपर्यायः अन्ये तु वनीयेत्यकारान्तं पठन्ति तेषां वनीयतीति वनीयः, ततः संज्ञायां कन् चान्द्रास्त्विमं परस्मैपदिनामाहुः तन्मते वनोति ववानेत्यादि 8
कृदन्तरूपमाला
Sanskrit1 {@“वनु च नोच्यते”@} 2 घटादिः।
‘च’ कारात् हिंसायामपि।
‘वनु स्मरणे’ इति काशकृत्स्नः।
‘-- व्यापृतौ’ इति वोपदेवः।
अस्यायमर्थः इति विशिष्य नोच्यते
क्रियासामान्यार्थवाचित्वात्।
‘अनेकार्थत्वादित्यन्ये’ इति सि।
कौमुदी।
“यदि तानादिकस्यैवाऽत्रानुवादः स्यात्, तर्हि तनादिगणे ‘वनु’ इति कृतेन उदित्करणेनैव ‘उदितो वा’ 3 इत्याद्युदित्कार्यस्य सिद्धेरिह गणे पुनः 4 उदित्करणमनर्थकं स्यात्।
अतस्तानादिकस्य नात्रानुवादः
किं तु अपूर्व एवायं वनुधातुः” इति बालमनोरमायामुक्तम्।
“उदित्करणसामर्थ्यादयमन्यो धातुः, न तानादिकस्यायमनुवादः।
क्रियासामान्ये मित्त्वमात्रार्थे ह्यनुवादे तानादिक एवानुवाद्यः, न पुनः शब्दार्थः सम्भक्त्यर्थो वा” इति मा।
धा।
वृत्तिः इहानुसन्धेया।
‘धनपालस्तु वनोतिमेव प्रस्तुत्याह-- “वनुं घटादिषु पठन्ति द्रमिडाः।
तेषां 5 मित्संज्ञा।
वनयति।
आर्यास्तु विभाषा मित्त्व- मिच्छन्ति।
तेषां वानयति” इति पुरुषकारः 6।
‘याचने वनुते शब्दे संभक्तौ च वनेदिति।।’ 7 इति देवः।
वानकः-निका, वनकः- 8 वानकः-निका, विवनिषकः-षिका, वंवनकः-निका
वनिता-त्री, वनयिता-वानयिता-त्री, विवनिषिता-त्री, वंवनिता-त्री
निष्ठायाम्-वान्तम्, क्त्वायाम्-वत्वा- 9 वनित्वा
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकचनतिवत् 10 ज्ञेयानि।
अनुपसृष्टे वनयन्-वानयन् इति मित्त्व- विकल्पेन रूपद्वयं भवति।
उपसृष्टे तु प्रवनयन् इत्येव।
01 (१५५२)
02 (१-भ्वादिः-८०३। सक। सेट्। पर।)
03 (७-२-५६)
04 [पृष्ठम्११९६+ २९]
05 (नित्यं)
06 (श्लो। १२५)
07 (श्लो। १२४)
08 [[१। ‘ग्लास्नावनुवमां च’ (गणसूत्रं भ्वादिः) इत्यनेनानुपसृष्टस्य धातोः मित्त्वं विकल्पेन भवति। मित्त्वपक्षे ‘मितां ह्रस्वः’ (६-४-९२) इति उपधाह्रस्वः। तेन सर्वत्र णिजन्ते रूपद्वयमिति ज्ञेयम्।]]
09 [[२। अस्य धातोः उदित्त्वात् ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पनात् रूपद्वयमिति बोध्यम्। इडभावपक्षे ‘अनुदात्तोपदेशवनति--’ (६-४-३७) इत्यनुनासिकलोपः।]]
10 (४९४)
1 {@“वनु याचने”@} 2 ‘याचने वनुते, शब्दे संभक्तौ च वनेदिति।।’ 3 इति देवः।
चान्द्रास्तु इमं परस्मैपदिनमाहुः।
‘उभयपदी’ इति कातन्त्र-शाकटायन- हेमचन्द्रादयः।
वानकः-निका, वानकः- 4 5 निका, विवनिषकः-षिका, वंवनकः-निका
वनिता-त्री, वानयिता-त्री, विवनिषिता-त्री, वंवनिता-त्री
6 इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकमन्यतिवत् 7 ज्ञेयानि।
8 वतम्-तः-तवान्, 9 वनीयकः-वनीपकः, 10 वतिः, 11 वन्तिः, 12 प्रवत्य, 13 वनित्वा- वत्वा, 14 वण्डः, 15 वठरः, 16 वनिष्णुः, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्तीति बोध्यम्।
01 (१५५३)
02 (८-तनादिः-१४७०। सक। सेट्। आत्म।)
03 (श्लो। १२४)
04 [[३। ‘ग्लास्नावनुवमां च’ (ग। सू। भ्वादिः) इति अनुपसृष्टानां मित्त्वविकल्पे “‘वनु च नोच्यते’ इति घाटादिकस्यास्य च ग्रहः-इत्येके” इति मा। धा। वृत्तावुक्त- त्वात् पक्षे रूपमेवमिति ज्ञेयम्। अन्ये ‘अनन्तरस्य विधिः--’ (परि-६२) इति न्यायेन घाटादिकस्यैव इति वदन्ति।]]
05 [वनकः]
06 [पृष्ठम्११९७+ २९]
07 (१२१७)
08 [[१। निष्ठायाम् ‘अनुदात्तोपदेशवनतितनोत्यादीनाम्--’ (६-४-३७) इत्यनुनासि- कलोपे रूपमेवम्।]]
09 [[२। वनी = याच्ञा, तामिच्छतीति क्यजन्तात् ण्वुलि-वनीयकः इति रूपम्। ‘वनीयको याचनको मार्गणो याचकार्थिनौ’ इत्यमरः। वनीयकः = अर्थिपर्यायः। अन्ये वनीपकः इति पकारान्तं पठन्ति। तेषां वनीं पातीति वनीपः, ततः संज्ञायां कन्प्रत्यये रूपमेवम्।]]
10 [[३। क्तिनि अनुनासिकलोपे रूपमेवम्।]]
11 [[४। क्तिचि-- ‘न क्तिचि दीर्घश्च’ (६-४-३९) इति दीर्घानुनासिकलोपनिषेधे रूपमेवम्।]]
12 [[५। ल्यपि ‘वा ल्यपि’ (६-४-३८) इति अनुदात्तोपदेशादीनां विधीयमानोऽनुनासि- कलोपविकल्पो, व्यवस्थितविभाषाश्रयणात् नान्तेषु नित्यः, तेन रूपमेवम्।]]
13 [[६। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पो भवति। इट्पक्षे वनित्वा, इडभावपक्षे अनुनासिकलोपे वत्वा इति रूपद्वयं बोध्यम्।]]
14 [[७। औणादिके (द। उ। ५-७) डप्रत्यये वण्डः इति रूपम्। अल्पशेष इत्यर्थः।]]
15 [[८। ‘वनिमनिभ्यां--’ (द। उ। ८-९९) इत्यरप्रत्यये ठकारे चान्तादेशे रूपमेवम्। वनति वनुते वा वठरः = बृहद्द्रोही, मूर्खश्च।]]
16 [[९। ‘ऋतन्यञ्चिवनु--’ (द। उ। १०-१२) इत्यादिना इष्णुच्प्रत्यये रूपमेवम्। वनिष्णुः = अपानोपरिस्थानम् इत्यर्थः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
